All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · लान्तवर्गः (1/2)
इति रान्तवर्गः ॥
बलं गन्धरसे रूपे स्थामनि स्थौल्पसैन्ययोः ।बलो हलायुधे दैत्यभेदे बलिनि वायसे ॥ १ ॥
1.27.1 · p. 148
अनुष्टुप्
वाट्यालके बला तूक्ता पलञ्चोन्मानमांसयोः ।फलं हेतुसमुत्थे स्यात् फलके व्युष्टिलाभयोः ॥ २ ॥
1.27.2 · p. 149
अनुष्टुप्
जातीफलेऽपि कक्कोले सस्यवाणाग्रयोरपि ।फलिन्यान्तु फलं प्राहुस्त्रिफलायां फलं क्वचित् ॥ ३ ॥
1.27.3 · p. 149
अनुष्टुप्
जलं गोकवले नीरे ह्रीवेरे च जडेऽन्यवत् ।खलं भूस्थानकल्केषु क्रूरे नीचेऽधमे खलः ॥ ४ ॥
1.27.4 · p. 149
अनुष्टुप्
गलः सर्ज्जरसे कण्ठे चलः कम्पे चलाश्रये ।दलं शस्त्री छदोत्सेधतद्द्रव्ये खण्डपर्णयोः ॥ ५ ॥
1.27.5 · p. 149
अनुष्टुप्
नलः पोटगले राज्ञि पितृदेवे कपीश्वरे ।नली मनःशिलायान्तु मलिने तु नलं मतम् ॥ ६ ॥
1.27.6 · p. 149
अनुष्टुप्
तलं स्वरूपाधरयोः खड्गमुष्टिचपेटयोः ।ज्याघातवारणेऽपि स्यात्तलस्तालतरावपि ॥ ७ ॥
1.27.7 · p. 149
अनुष्टुप्
मलं किट्टे पुरीषे च पापे च कृपणे मलः ।शलन्तु शल्लकीलोम्नि शलो भृङ्गे गणे विधौ ॥ ८ ॥
1.27.8 · p. 149
अनुष्टुप्
खिलं भवेदप्रहते सारसंक्षिप्तवेधसोः ।बिलं छिद्रे गुहायाञ्च बिल उच्चैःश्रवोहये ॥ ९ ॥
1.27.9 · p. 149
अनुष्टुप्
बलन्तु स्खलिते व्याजे पुलन्तु पुलिनेऽन्यवत् ।पुलः स्यात् पुलके चाऽपि कुलं जनपदे गृहे ॥ १० ॥
1.27.10 · p. 149
अनुष्टुप्
सजातीयगणे गोत्रे देहेऽपि कथितं कुलम् ।कालो मृत्यौ महाकाले समये यमकृष्णयोः ॥ ११ ॥
1.27.11 · p. 149
अनुष्टुप्
कृष्णत्रिवृत्तौ काला तु नीलीमञ्जिष्ठयोरपि ।काली गौर्य्यां क्षीरकीटे कालिकामातृभेदयोः ॥ १२ ॥
1.27.12 · p. 149
अनुष्टुप्
नवाम्बुवाहवृन्देऽपि परिवादेऽपि च क्वचित् ।भालं ललाटमहसोर्गालः स्कन्दमहीरुहोः ॥ १३ ॥
1.27.13 · p. 149
अनुष्टुप्
शालो हालनृपे मत्स्यप्रभेदे सर्ज्जपादपे ।शाला गृहे तरुस्कन्धशाखागारैकदेशयोः ॥ १४ ॥
1.27.14 · p. 150
अनुष्टुप्
मालं क्षेत्रे गृहे माली माला पुष्पादिदामनि ।सालः पादपमात्रं स्यात् प्राकारे शङ्कुकद्रुमे ॥ १५ ॥
1.27.15 · p. 150
अनुष्टुप्
तालः करतलेऽङ्गुष्ठमध्यमाभ्याञ्च सम्मिते ।गीराकालक्रियामाने तालः खड्गादिमुष्टिषु ॥ १६ ॥
1.27.16 · p. 150
अनुष्टुप्
द्रुमभेदे करास्फाले तालन्तु हरितालके ।वाद्यभाण्डे च कांस्यस्य तालश्छदिषि कम्पने ॥ १७ ॥
1.27.17 · p. 150
अनुष्टुप्
जालं गवाक्ष आनाये क्षारके दन्तवृन्दयोः ।जालोऽनीपद्रुमे जाली कोषातक्यामुदाहृता ॥ १८ ॥
1.27.18 · p. 150
अनुष्टुप्
व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि ।नालं दण्डे सरोजस्य नाली शाककलम्बके ॥ १९ ॥
1.27.19 · p. 150
अनुष्टुप्
स्थालं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः ।फालं शिरोपकरणे कार्पासादिकवाससि ॥ २० ॥
1.27.20 · p. 150
अनुष्टुप्
बालः कचे शिशौ मूर्खे ह्रीवेरे श्वेभपुच्छयोः ।अलङ्कारान्तरे मेध्ये वाली वाला त्रुटिस्त्रियोः ॥ २१ ॥
1.27.21 · p. 150
अनुष्टुप्
चेलो नीचेऽन्यवच्चेलमंशुके गर्हितेऽन्यवत् ।भेलः प्लवे भीरुके च निर्बुद्धिमुनिभेदयोः ॥ २२ ॥
1.27.22 · p. 150
अनुष्टुप्
कौलोऽङ्कपालावृत्सङ्गे भेलके पोत्रिचित्रयोः ।कोला कणायां चव्ये च कोलन्तु बदरीफले ॥ २३ ॥
1.27.23 · p. 150
अनुष्टुप्
शैलो भूभृति शैलन्तु शैलेये तार्क्ष्यशैलके ।शीलं स्वभावे सद्वृत्ते नीलः कृष्णे नगान्तरे ॥ २४ ॥
1.27.24 · p. 150
अनुष्टुप्
नीलः कपीश्वरे नीली वृक्षलाञ्छनभेदयोः ।कूलं स्तूपे तडागे च सैन्यपृष्ठप्रतीरयोः ॥ २५ ॥
1.27.25 · p. 150
अनुष्टुप्
कूलः पिचौ भवेत् कूलं ब्रह्मदारुविहायसोः ।मूलमाद्ये शिफायां स्याद्भनिकुञ्जान्तिकेषु च ॥ २६ ॥
1.27.26 · p. 150
अनुष्टुप्
शूलं प्रहरणे मृत्यौ केतने रोगयोगयोः ।शूला दुष्टवधार्थाय कीलके पण्ययोषिति ॥ २७ ॥
1.27.27 · p. 151
अनुष्टुप्
स्थूलं स्यात् पीवरे कूटे निष्प्रज्ञे पुनरन्यवत् ।अम्लो रसप्रभेदे स्यादाम्ली चाङ्गेरिकौषधौ ॥ २८ ॥
1.27.28 · p. 151
अनुष्टुप्
शुक्लो योगान्तरे श्वेते शुक्लञ्च रजते मतम् ।मल्लः पात्रे कपाले च मत्स्यभेदे बलीयसि ॥ २९ ॥
1.27.29 · p. 151
अनुष्टुप्
भल्लो भल्ली च बाणे स्याद्भल्लो भल्लुक इष्यते ।भल्लातक्यान्तु भल्ली स्यादोल्लश्चार्द्रे च शूरणे ॥ ३० ॥
1.27.30 · p. 151
अनुष्टुप्
चुल्लचिल्लौ मतौ क्लिन्ने नेत्रे क्लिन्नाक्ष्णि पिल्लवत् ।आतापिनि भवेच्चिल्लश्चिल्ली स्याद्गौडवास्तुके ॥ ३१ ॥
1.27.31 · p. 151
अनुष्टुप्
चुल्ली चितायामुद्वाने क्वचिद्वाद्येऽप्युदीरिता ।बली वीरुधि सन्ताने वल्कले कुमुमाम्बरे ॥ ३२ ॥
1.27.32 · p. 151
अनुष्टुप्
खल्ली तु हस्तपादावमर्द्दनाख्यरुजि स्मृता ।खल्लो वस्त्रप्रभेदे स्यान्निम्ने चर्मणि चातके ॥ ३३ ॥
1.27.33 · p. 151
अनुष्टुप्
आलुर्गलन्तिकायां स्यात् कन्दभेदे च भेलके ।पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः ॥ ३४ ॥
1.27.34 · p. 151
अनुष्टुप्
पीलुस्तालास्थिखण्डे च मालुः पत्रलतास्त्रियोः ।शालुः कषायद्रव्ये स्याच्चौरकाख्यौषधेऽपि च ॥ ३५ ॥
1.27.35 · p. 151
अनुष्टुप्
गृहदारुविशेषे च गन्धकेऽपि क्वचिन्मतः ।दोला यानान्तरे नील्यां मेला स्यान्मेलके मुनौ ॥ ३७ ॥
1.27.37 · p. 151
अनुष्टुप्
इला कलत्रे सौम्यस्य धरित्र्यां गवि वाचि च ।कीलः कफोणौ निर्घाते शङ्काज्वाले तु कीलवत् ॥ ३८ ॥
1.27.38 · p. 151
अनुष्टुप्
शिला कुनद्यां दृषदि द्वाराधःस्थितदारुणि ।शिलं शिली भवेदुञ्छे गण्डूपद्यां यथाक्रमम् ॥ ३९ ॥
1.27.39 · p. 152
अनुष्टुप्
तुला पलशते राशौ भाण्डे स्याद्दृश्यमानयोः ।गृहाणां दारुबद्धायां पीठिकायामपीष्यते ॥ ४० ॥
1.27.40 · p. 152
अनुष्टुप्
वेला काले च जलधेस्तीरनीरविकारयोः ।अक्लिष्टमरणे रागे सीम्नि वाचि बुधस्त्रियाम् ॥ ४१ ॥
1.27.41 · p. 152
अनुष्टुप्
भोजनेऽपीश्वराणां स्याज्झला दुहुतरि स्मृता ।आतपोर्मीषु लुकायां झाली क्वापि विलोक्यते ॥ ४२ ॥
1.27.42 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लु (wrong syllable)
कला स्यान्मूलविवृद्धौ शिल्पादावंशमात्रके ।षोडशांशे च चन्द्रस्य कलनाकालयोः कला ॥ ४३ ॥
1.27.43 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
कलं शुक्रे कलो जीर्णेऽप्यव्यक्तमधुरध्वनौ ।लोला जिह्वाकमलयोर्लोलस्व्ह्चलसतृष्णयोः ॥ ४४ ॥
1.27.44 · p. 152
अनुष्टुप्
लीलां विदुः केलिविलासखेला-शृङ्गारभावप्रभवक्रियासु ।हेलामवज्ञानविलासयोश्चहाला सुरायां नृपतौ च हालः ॥ ४५ ॥
1.27.45 · p. 152
इन्द्रवज्रा
गोला सखीवर्त्तुलयोर्गोलं लक्ष्यानुसारतः ।पत्राञ्जने कुनद्याञ्च गोदावर्याञ्च मण्डले ॥ ४६ ॥
1.27.46 · p. 152
अनुष्टुप्
अलिः सुरापुष्पलिहोरालिस्तु विशदाशये ।आलिः पङ्क्तौ च सख्याञ्च सेतौ च परिकीर्तिता ॥ ४७ ॥
1.27.47 · p. 152
अनुष्टुप्
कलिः स्यात् कलहे शूरे कलिरन्त्ययुगे युधि ।धूलिः सङ्ख्यान्तरे रेणौ डुलिस्तु कमठे मुनौ ॥ ४८ ॥
1.27.48 · p. 152
अनुष्टुप्
मौलिः किरीटे धम्मिले कङ्केलिद्रुमचूडयोः ।शालिस्तु गन्धमार्ज्जारे कलमादिषु च स्मृतः ॥ ४९ ॥
1.27.49 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ध (wrong syllable)
पालिः कर्णलताग्रेऽश्रौ पङ्क्तावङ्कप्रदेशयोः ।पालिः प्रस्ते च यूकायां जातश्मश्रुस्त्रियामपि ॥ ५० ॥
1.27.50 · p. 152
अनुष्टुप्
झिल्ली स्यादातपरुषि वर्त्त्यामुद्वर्त्तनांशुके ।वल्ली स्यादजमोदायां पुष्पभेदेऽपि वीरुधि ॥ ५१ ॥
1.27.51 · p. 153
अनुष्टुप्
पल्ली कुटीग्रामकयोः पल्लः स्थूलकुशूलके ।तल्ली तरुण्यां तल्लस्तु जलाधारान्तरेऽपि च ॥ ५२ ॥
1.27.52 · p. 153
अनुष्टुप्
कमलं सलिले ताम्रे जलजे लोम्नि भेषजे ।मृगभेदे च कमलः कमला श्रीवरस्त्रियोः ॥ ५३ ॥
1.27.53 · p. 153
अनुष्टुप्
चपलः पारदे मीने चौरके प्रस्तरान्तरे ।चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च ॥ ५४ ॥
1.27.54 · p. 153
अनुष्टुप्
चपलं क्षणिके शीघ्रे चपलश्चिकुरे चले ।उपलः प्रस्तरे रजे शर्करायां स्मृतोपला ॥ ५५ ॥
1.27.55 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र (wrong syllable)
उत्पलं मांसशूल्ये स्यात् कुष्ठेन्दीवरयोरपि ।अनलो वासुदेवेऽग्नावनलो वसुवातयोः ॥ ५६ ॥
1.27.56 · p. 153
अनुष्टुप्
शकलं त्वचि खण्डे स्याद्रागवस्तुनि वल्कले ।गरलन्तु विषे माने गरलं तृणपूलके ॥ ५७ ॥
1.27.57 · p. 153
अनुष्टुप्
तरलश्चञ्चले षिङ्गे हारमध्यमणावऽपि ।भासुरे चाऽथ तरला यवागुसुरयोर्मता ॥ ५८ ॥
1.27.58 · p. 153
अनुष्टुप्
सरलः पूतिकाष्ठे स्यादुदारावक्रयोरपि ।कपिलो मुनिभेदे स्याद् वासुदेवे च पावके ॥ ५९ ॥
1.27.59 · p. 153
अनुष्टुप्
कपिला शिंशपायाञ्च रेणुकागोविशेषयोः ।पुण्डरीककरिण्याञ्च पिङ्गे तु कपिलोऽन्यवत् ॥ ६० ॥
1.27.60 · p. 153
अनुष्टुप्
पललं तिलचूर्णे स्यात् पललं पङ्कमांसयोः ।पललो यातुधाने स्यात् पटलं छदिषि व्रजे ॥ ६१ ॥
1.27.61 · p. 153
अनुष्टुप्
पिटके नेत्ररोगे च तिलके परिच्छदे ।जगलः पिष्टमद्ये च मेदके मदनद्रुमे ॥ ६२ ॥
1.27.62 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पिप्पलो बोधिवृक्षे स्यात् पतिभेदे निरङ्गुले ।पिप्पलं वसनच्छेदे भेदेऽपि सलिले मतम् ॥ ६४ ॥
1.27.64 · p. 154
अनुष्टुप्
कणायां पिप्पली चोक्ता धवलः सुन्दरे सिते ।महोक्षे चाऽथ धवली सौरभेय्यामुदीरिता ॥ ६५ ॥
1.27.65 · p. 154
अनुष्टुप्
कुवलञ्चोत्पले मुक्ताफलेऽपि बदरीफले ।कुशलः शिक्षिते क्षेमपर्याप्तिसुकृतेषु च ॥ ६६ ॥
1.27.66 · p. 154
अनुष्टुप्
कुशलं मुषलं तु स्यादयोऽग्रे मुषली मता ।तालमूल्यामासुपर्णी गृहगोधिकयोरपि ॥ ६७ ॥
1.27.67 · p. 154
अनुष्टुप्
निचुलो हिज्जलतरौ निचुलश्च निचोलके ।पिचुलो झावुकेऽपि स्याद् हिज्जले जलवायसे ॥ ६८ ॥
1.27.68 · p. 154
अनुष्टुप्
विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे ।तुमुलः कलिवृक्षे स्यात्तुमुलं रणसङ्कुले ॥ ६९ ॥
1.27.69 · p. 154
अनुष्टुप्
बहुलः कृष्णपक्षेऽग्नौ शितौ च बहुला गवि ।एलायां नीलिकायाञ्च बहुला कृत्तिकासु च ॥ ७० ॥
1.27.70 · p. 154
अनुष्टुप्
बहुलं प्राज्यनभसोर्मातुलो मदनद्रुमे ।मातृभ्रातरि धुत्तूरे व्रीहिभेदेऽपि मातुलः ॥ ७१ ॥
1.27.71 · p. 154
अनुष्टुप्
कुटिलं वाच्यवद्भुग्ने कुटिला सरिदन्तरे ।जटिलस्तु जटायुक्ते जटिला मांसिकौषघौ ॥ ७२ ॥
1.27.72 · p. 154
अनुष्टुप्
सुतलप्रतलौ चेति पातालभुवनद्वये ।स्यातामट्टालिकाबन्धे तताङ्गुलिकरे क्रमात् ॥ ७३ ॥
1.27.73 · p. 154
अनुष्टुप्
पित्तलं तैजसद्रव्ये पित्तलः पित्तसङ्गते ।पित्तला तोयपिप्पल्पां निस्तलं वर्तुले चले ।कुन्तलः स्याद्यवे देशे केशलाङ्गलयोगपि ॥ ७४ ॥
1.27.74 · p. 154
अनुष्टुप्
कम्बलो नागराजे स्यात सास्नाप्रावारयोः कृमौ ।कम्बलश्चोत्तरासङ्गे कम्बलं सलिले मतम् ॥ ७५ ॥
1.27.75 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शम्बलं कुलपाथेयमत्सरेषु समीरितम् ।कन्दलस्तु कपाले स्यादुपरागे नवाङ्कुरे ॥ ७६ ॥
1.27.76 · p. 155
अनुष्टुप्
कलध्वनौ कन्दली तु मृगपक्षिविशेषयोः ।पिङ्गलः स्यान्मुनौ रुद्रे चण्डांशोः पारिपाश्वके ॥ ७७ ॥
1.27.77 · p. 155
अनुष्टुप्
निधिभेदे कपावग्नौ पिङ्गलः कपिलेऽन्यवत ।करायिकायां वेश्यायां पिङ्गला कुमुदस्त्रियाम् ॥ ७८ ॥
1.27.78 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जङ्गलो जलनिर्मुक्तदेशे मांसे च जङ्गलम् ।मङ्गलं श्रेयसि श्वेतदूर्वायामपि मङ्गला ॥ ७९ ॥
1.27.79 · p. 155
अनुष्टुप्
सर्वार्थलक्षणे चापि मङ्गलं समुदीरितम् ।कुण्डलं वलये पाशे कुण्डलं कर्णपूरणे ।गुडूच्यां काञ्चनादौ च कुण्डली समुदीरिता ॥ ८० ॥
1.27.80 · p. 155
अनुष्टुप्
स्यान्मण्डलं द्वादशराजके चदेशे च बिम्बे च कदम्बके च ।कुष्ठप्रभेदेऽप्युपसूर्यकेऽपिभुजङ्गभेदे शुनि मण्डलः स्यात् ॥ ८१ ॥
1.27.81 · p. 155
उपजातिः
स्यादर्गलन्तु कल्लोले दण्डे चान्तःकपाटयोः ।निर्मलं विमले विद्यान्निर्म्माल्याभ्रकयोरपि ॥ ८२ ॥
1.27.82 · p. 155
अनुष्टुप्
शौष्कलः शुष्कमांसस्य पणके पिशिताशिनि ।पांशुलः पुंश्चले शम्भोः खट्वाङ्गे पांशुला भुवि ॥ ८३ ॥
1.27.83 · p. 155
अनुष्टुप्
सङ्कुलं वाच्यवद्व्याप्तेऽविस्पष्टार्थवचस्यपि ।उज्ज्वलो दीप्तशृङ्गारविशदेषु विकाशिनि ॥ ८४ ॥
1.27.84 · p. 155
अनुष्टुप्
वञ्जुलो वेतसाशोकतिनिशेष्वऽथ मञ्जुलम् ।निकुञ्जे शैवले मञ्जौ जलरङ्कौ तु मञ्जुला ॥ ८५ ॥
1.27.85 · p. 156
अनुष्टुप्
पिञ्जलन्तु हरिद्राभे कुशपत्रेऽपि पिञ्जलम् ।पुद्गलः सुन्दराकारे पुद्गलश्चात्मदेहयोः ।जम्भलो देवताभेदे जम्बीरेऽपि च जम्भलः ॥ ८६ ॥
1.27.86 · p. 156
अनुष्टुप्
कुम्भिलः श्यालके चौरे श्लोकच्छायाहरे झषे ।चन्द्रिलो नापिते ख्यातो हरवास्तुकशाकयोः ॥ ८७ ॥
1.27.87 · p. 156
अनुष्टुप्
ग्रन्थिलो ग्रन्थिसहिते करीरद्रौ विकङ्कते ।वामिलो दाम्भिके यामे रामिलो रमणे स्मरे ॥ ८८ ॥
1.27.88 · p. 156
अनुष्टुप्
वार्द्दल दुर्दिने मेलानन्दायामपि वार्द्दलः ।तण्डुलाख्या विडङ्गे स्याद्धान्यादिनिकरेऽपि च ॥ ८९ ॥
1.27.89 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
वृषलः कथितः शूद्रे चन्द्रगुप्ते च वाजिनि ।निष्कलस्तु कलाशून्ये नष्टबीजे तु वाच्यवत् ॥ ९० ॥
1.27.90 · p. 156
अनुष्टुप्
पाकलं कुष्ठभैषज्ये पाकलः कुञ्जरज्वरे ।पाचलो राधनद्रव्येऽप्यनिलानलयोरपि ॥ ९१ ॥
1.27.91 · p. 156
अनुष्टुप्
माचलो वन्दिचौरे स्याद्ग्राहे रक्षसि चाऽमये ।पाटलः श्वेतरक्ते स्यादाशुव्रीहौ च पाटलः ॥ ९२ ॥
1.27.92 · p. 156
अनुष्टुप्
पाटली पाटलाऽपि स्यादस्याः पुष्पेऽपि पाटलम् ।लोहलः शृङ्खलाधार्ये भवेदव्यक्तवाचि च ॥ ९३ ॥
1.27.93 · p. 156
अनुष्टुप्
कोहलो मद्यभेदे स्यात् कोहलः स्यान्मुनावऽपि ।तैतिलो गण्डके प्रोक्तस्तैतिलं करणान्तरे ॥ ९४ ॥
1.27.94 · p. 156
अनुष्टुप्
हेमलः स्वर्णकारे स्यात् कृकलासे शिलान्तरे ।श्यामलो मेचेकेऽश्वत्ये कोमलो मृदुले दले ॥ ९५ ॥
1.27.95 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चे (wrong syllable)
कामलः कामुके रोगे मरुदेशवसन्तयोः ।पेशलो रुचिरे दक्षे गोकिलो मुषले हले ॥ ९६ ॥
1.27.96 · p. 156
अनुष्टुप्
गौरिलो लोहचूर्णे स्याद्गौरिलो गौरसर्षपे ।फेनिलः स्यादरिष्टे च फेनिलं बदरीफले ॥ ९७ ॥
1.27.97 · p. 157
अनुष्टुप्
मदनस्य फले चाऽथ वाच्यवत फेनवन्यपि ।शावलाख्या तु शैवाले शैलेयेऽपि च शावलम् ॥ ९८ ॥
1.27.98 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वत (syllable split)
शैवलं पद्मकाष्ठे च शैवलञ्च जलाञ्चले ।शीतलं पुष्पकासीसे शैलजे मलयोद्भवे ॥ ९९ ॥
1.27.99 · p. 157
अनुष्टुप्
भवेदासनपर्ण्याञ्च शीतलः शिशिरेऽन्यवत् ।कल्लोलो हर्ष उल्लोले कल्लोलः परिपन्थिनि ॥ १०० ॥
1.27.100 · p. 157
अनुष्टुप्
पटोलमोषधीवस्त्रभिदोर्ज्योत्स्न्यां पटोल्यऽपि ।काकोली विषभेदे स्याद्द्रोणकाककुलालयोः ॥ १०१ ॥
1.27.101 · p. 157
अनुष्टुप्
तमालस्तिलके खड्गेरे तापिञ्छे वरुणद्रुमे ।सुवेलः प्रणते शान्ते सुवेलः पर्वतान्तरे ॥ १०२ ॥
1.27.102 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अवेलस्त्वपलापे स्यादवेला पूगचूर्णके ।कपालं शिरसोऽस्थ्नि स्याद् घटादिशकले व्रजे ॥ १०३ ॥
1.27.103 · p. 157
अनुष्टुप्
कुष्ठरोगविशेषे च गोपालो गोपभूपयोः ।किट्टालस्ताम्रकलशे किट्टालो लोहगूथके ॥ १०४ ॥
1.27.104 · p. 157
अनुष्टुप्
पातालं नागलोके स्यात् पातालं वडवानले ।प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ॥ १०५ ॥
1.27.105 · p. 157
अनुष्टुप्
अराल कुटिले सर्ज्जरसे समददन्तिनि ।करालो दन्तुरे तुङ्गे करालञ्च कुठेरके ॥ १०६ ॥
1.27.106 · p. 157
अनुष्टुप्
करालोद्धूनतैलेऽपि करालो भीषणेऽन्यवत् ।शृगालो जम्बुके दैत्ये शृगाली डमरे विदुः ॥ १०७ ॥
1.27.107 · p. 157
अनुष्टुप्
कुलालः कुम्भकारे स्यात् कुक्कुभे कौशिकेऽपि च ।कुद्दालो युगपत्रे स्यात् कुद्दालो भूमिदारणे ॥ १०८ ॥
1.27.108 · p. 157
अनुष्टुप्
विडालो नेत्रपिण्डे स्याद्विडालोऽपि खगान्तरे ।विडाली पूतनाभेदे लताघूकेऽपि शस्यते ।जम्बालं शैवले पङ्के कीलालं रुधिरे जले ॥ १०९ ॥
1.27.109 · p. 157
अनुष्टुप्
वण्ठीलं शूरयोर्युद्धे नौकायाश्च खनित्रके ।आभीलञ्चाऽपि कृच्छ्रे स्यादाभीलश्च भयानके ॥ ११० ॥
1.27.110 · p. 158
अनुष्टुप्
नाभीलं नाभिगर्भाण्डे वङ्क्षणे प्रोक्तमस्त्रियाः ।उत्फुल्लः करणे स्त्रीणामुत्ताले च विकस्वरे ॥ १११ ॥
1.27.111 · p. 158
अनुष्टुप्
शयालुः स्यादजगरे निद्राशीलेऽपि कुक्कुरे ।श्रद्धालुर्दोहिदिन्याञ्च श्रद्धावति तु वाच्यवत् ॥ ११२ ॥
1.27.112 · p. 158
अनुष्टुप्
लाङ्गुलं मेहने पुच्छे शार्दूलो राक्षसान्तरे ।व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः ॥ ११३ ॥
1.27.113 · p. 158
अनुष्टुप्
वातूलो वातसङ्घाते वातुले मारुतासहे ।कुकूलं शङ्कुसङ्कीर्णे श्वभ्रे चाऽपि तुषानले ॥ ११४ ॥
1.27.114 · p. 158
अनुष्टुप्
कुकूलं स्याद्दुकूलन्तुक्षौमे सूक्ष्मांशुकेऽपि च ।जम्बूलो जम्बुविटपे जम्बूलः क्रकचच्छदे ॥ ११५ ॥
1.27.115 · p. 158
अनुष्टुप्
चषालो होमकुण्डे स्याद्गर्त्ते चोत्ताल उत्कटे ।श्रेष्ठेऽपि विकरालेऽपि स्यादुत्तालः प्लवङ्गमे ॥ ११६ ॥
1.27.116 · p. 158
अनुष्टुप्
चूडाली तूच्चटायां स्याच्चूडावति तु वाच्यवत् ।विशाला त्विन्द्रवारुण्यां विशालोऽज्जयिनीपुरि ॥ ११७ ॥
1.27.117 · p. 158
अनुष्टुप्
विशालो वृक्षभेदेऽपि विशालः पृथुलेऽन्यवत् ।मेखला खड्गबन्धे स्यात् काञ्चीशैलनितम्बयोः ॥ ११८ ॥
1.27.118 · p. 158
अनुष्टुप्
शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडेऽपि च ।कुचेला विद्धपर्ण्यां स्यात् कुचेलस्तु कुवाससि ॥ ११९ ॥
1.27.119 · p. 158
अनुष्टुप्
अचला वसुधायां स्यादचलः शैलकीलयोः ।चञ्चला तु तडिल्लक्ष्म्योश्चञ्चलः कामुकेऽनिले ॥ १२० ॥
1.27.120 · p. 158
अनुष्टुप्