कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · वान्तवर्गः

इति लान्तवर्गः ॥

वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् ।स्वं ज्ञातावात्मधनयोरात्मीये च प्रचक्ष्यते ॥ १ ॥
1.28.1 · p. 162
अनुष्टुप्
भवः संसारसम्पाप्तिश्रेयःशङ्करजन्मसु ।दवो दाव इव ख्यातो वनाग्निवनयोरपि ॥ २ ॥
1.28.2 · p. 162
अनुष्टुप्
द्रवः प्रद्रावरसयोर्गतौ नर्मणि विद्रवे ।घवः पत्यौ नरे धूर्त्ते वृक्षभेदेऽपि कीर्त्तितः ॥ ३ ॥
1.28.3 · p. 162
अनुष्टुप्
जवो वेगिनि वेगे स्यादोण्ड्रपुष्पे जवा मता ।लवो लेशे विनाशे च छेदने रामनन्दने ॥ ४ ॥
1.28.4 · p. 162
अनुष्टुप्
प्लवः कारण्डवे भेके कुलके भेलके कपौ ।शब्दे प्लुतगतौ प्लक्षे चण्डालजलकाकयोः ॥ ५ ॥
1.28.5 · p. 162
अनुष्टुप्
प्लवं गन्धतृणे प्रोक्तं कैवर्त्तीमुस्तकेऽपि च ।हवो यज्ञे तथाह्वाने निदेशेऽपि हवो मतः ॥ ६ ॥
1.28.6 · p. 162
अनुष्टुप्
शवो मृते शवं नीरे सवः सन्धानयज्ञयोः ।क्षवः क्षुते राजिकायां नवं नव्ये स्तवे विदुः ॥ ७ ॥
1.28.7 · p. 162
अनुष्टुप्
ध्रुवः कीले शिवे शङ्कौ वसौ योगे वटे मुनौ ।ध्रुवा मूर्वाशालपर्ण्योर्गीतिस्रुग्भेदयोरपि ॥ ८ ॥
1.28.8 · p. 162
अनुष्टुप्
ध्रुवन्तु निश्चिते तर्के निश्चले शश्वतेऽन्यवत् ।स्तुवाख्या सल्लकीमूर्वास्रुग्भेदेषु च विश्रुता ॥ ९ ॥
1.28.9 · p. 163
अनुष्टुप्
शिवं मोक्षे सुखे भद्रे सलिलेऽथ शिवो हरे ।वेदे योगान्तरे कीले वालुके गुग्गुलेऽपि च ॥ १० ॥
1.28.10 · p. 163
अनुष्टुप्
पुण्डरीकद्रुमे चाऽपि शिवा झण्टामलौषधौ ।अभयाऽऽमलकीगौरीक्रोष्ट्रीसक्तुफलासु च ॥ ११ ॥
1.28.11 · p. 163
अनुष्टुप्
दिवं स्वर्गेऽन्तरीक्षे च क्लीबं शण्डेऽप्यपौरुषे ।जीवो वृक्षप्रभेदे स्याज्जीवः प्राणिनि गीष्पतौ ॥ १२ ॥
1.28.12 · p. 163
अनुष्टुप्
जीवा जीवन्तिकाभूम्योर्मौर्वीशिञ्जितवृत्तिषु ।वचायामपि जीवा स्याज्जीवं जीव्यञ्च जीविते ॥ १३ ॥
1.28.13 · p. 163
अनुष्टुप्
भावः स्वभावेऽभिप्राये चेष्टासत्तात्मजन्मसु ।क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु ॥ १४ ॥
1.28.14 · p. 163
अनुष्टुप्
देवः सुरे घने राज्ञि देवमाख्यातमिन्द्विये ।देवी भट्टारिकायाञ्च तेजनीस्पृक्कयोरपि ॥ १५ ॥
1.28.15 · p. 163
अनुष्टुप्
सत्त्वं द्रुमे पिशाचादौ बले द्रव्यस्वभावयोः ।आत्मत्वे व्यवसाये च चित्ते प्राणेषु जन्तुषु ॥ १६ ॥
1.28.16 · p. 163
अनुष्टुप्
सान्तं सामनि दाक्षिण्ये कण्वं पापे मुनौ विदुः ।किण्वं पापे सुराबीजे बिल्वन्तु श्रीफले फले ॥ १७ ॥
1.28.17 · p. 163
अनुष्टुप्
तत्त्वं वाद्यप्रभेदे स्न्मयात् स्वरूपे परमात्मनि ।ह्रस्वखर्वाविमौ शब्दावेकार्थौ वामनार्थयोः ॥ १८ ॥
1.28.18 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विश्वं समस्ते जगति विश्वदेवेऽपि नागरे ।विश्वा चाऽतिविषायां स्यादश्वः पुम्भेदवाजिनोः ॥ १९ ॥
1.28.19 · p. 163
अनुष्टुप्
पार्श्वं कक्षाधरे चक्रोपान्ते पर्शुगणेऽपि च ।प्राध्वं सुप्रणते चातिदूरवर्त्मनि बन्धने ॥ २० ॥
1.28.20 · p. 163
अनुष्टुप्
पक्वं परिणतार्थे स्याद्विनाशाभिमुखेऽपि च ।द्वन्द्वो रहस्ये कलहे द्वन्द्वं मिथुनयुग्मयोः ॥ २१ ॥
1.28.21 · p. 163
अनुष्टुप्
ऊर्द्ध्वं स्यादुच्छ्रिते तुङ्गे चोपरिष्टादपि स्मृतम् ।दिवं द्यौः स्वर्गलोके च गगने च प्रयुज्यते ॥ २२ ॥
1.28.22 · p. 164
अनुष्टुप्
अविः शैले रवौ मेषे भवेन्मूषिककम्बले ।ऋतुमत्यामविः प्रोक्ता शिविर्भूर्ज्जे नृपान्तरे ॥ २३ ॥
1.28.23 · p. 164
अनुष्टुप्
कविः काव्यकरे सूरी कविर्वाल्मीकिशुक्रयोः ।कवी खलीने कथिता छविः शोभारुचोर्मता ॥ २४ ॥
1.28.24 · p. 164
अनुष्टुप्
ग्रीवाऽपि कन्धरायां स्यात्तच्छिरायामपीष्यते ।रेवा तरङ्गिणीभेदे रेवा नील्यां स्मरस्त्रियाम् ॥ २५ ॥
1.28.25 · p. 164
अनुष्टुप्
लट्वा करञ्जभेदेऽस्य फले वाद्ये खगान्तरे ।नीवी परिपणे ग्रन्थो स्त्रीणां जघनवाससः ॥ २६ ॥
1.28.26 · p. 164
अनुष्टुप्
पृथ्वी भूमौ पृथौ हिङ्गुपत्रिकाकृष्णजीरयोः ।लघ्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च ॥ २७ ॥
1.28.27 · p. 164
अनुष्टुप्
प्रभवो जलमूले स्याज्जन्मभूमौ पराक्रमे ।आद्योपलब्धयोः स्थाने विभवो निर्वृतौ धने ॥ २८ ॥
1.28.28 · p. 164
अनुष्टुप्
प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने ।तोकोत्पादे च सचिवः सहाये मन्त्रिणि स्मृतः ॥ २९ ॥
1.28.29 · p. 164
अनुष्टुप्
कितवो धूर्त्तवन्मत्ते वञ्चके कनकाह्वये ।त्रिदिवस्त्रिदशावासे त्रिदिवा सरिदन्तरे ॥ ३० ॥
1.28.30 · p. 164
अनुष्टुप्
बल्लवः सूपकारे स्याद्भीमसेनेऽपि गोदुहि ।पल्लवः स्यात् किसलये विटपे विस्तरे बले ॥ ३१ ॥
1.28.31 · p. 164
अनुष्टुप्
शृङ्गारे रक्तरागे च विद्रवस्तु पलायने ।युद्धे च पुङ्गवः श्रेष्ठे वृषभे भेषजान्तरे ॥ ३२ ॥
1.28.32 · p. 164
अनुष्टुप्
उद्धवो मातुले विष्णोरुत्सवे क्रतुपावके ।उत्सवो मह उत्सेक इच्छाप्रसरकोपयोः ॥ ३३ ॥
1.28.33 · p. 164
अनुष्टुप्
केशवो वासुदेवे स्यात् पुन्नागे केशवत्यपि ।कैतवन्तु छले द्यूते फेरवो जमूकेऽस्रपे ॥ ३४ ॥
1.28.34 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 मू (wrong syllable)
रौरवो नरके घोरे कैरवः कितवे रिपौ ।कैरवं कुमुदे चोक्तं चन्द्रिकायाञ्च कैरवी ॥ ३५ ॥
1.28.35 · p. 165
अनुष्टुप्
भैरवं भीषणे गर्भे भैरवः समुदाहृतः ।सैन्धवो मणिमन्थेऽपि सिन्धुदेशोद्भवाश्वयोः ॥ ३६ ॥
1.28.36 · p. 165
अनुष्टुप्
वाडवं करणे स्त्रीणामौर्वे विप्रेऽपि वाडवः ।वाडवं वडवासङ्घे वाडवो रागनागयोः ॥ ३७ ॥
1.28.37 · p. 165
अनुष्टुप्
आश्रवः स्यात् प्रतिज्ञाने क्लेशे च वचनस्थिते ।शाव्रवं भावसंहत्योः शत्रूणां शात्रवो द्विषि ॥ ३८ ॥
1.28.38 · p. 165
अनुष्टुप्
माधवस्तु वसन्ते स्याद्वैशाखे गरुडध्वजे ।माधवी मदिरायाञ्च कुट्टन्यामतिमुक्तके ॥ ३९ ॥
1.28.39 · p. 165
अनुष्टुप्
मधुनः शर्करायाञ्च गालवो मुनिलोध्रयोः ।आर्त्तवन्त्वृतुसम्भूते स्त्रीरजःपुष्पयोरपि ॥ ४० ॥
1.28.40 · p. 165
अनुष्टुप्
भार्गवः पर्शुरामे स्याद्गजे शुक्रे सुधन्विनि ।भार्गवी हैमवत्याञ्च कमलासितदूर्वयोः ॥ ४१ ॥
1.28.41 · p. 165
अनुष्टुप्
आहवः सङ्गरे यागे राघवो रघुवंशजे ।महामीनप्रभेदेऽपि जलधे राघवः स्मृतः ॥ ४२ ॥
1.28.42 · p. 165
अनुष्टुप्
ताण्डवं कथितं नृत्ये तृणभेदेऽपि ताण्डवम् ।निह्नवं निकृतौ विद्यादविश्वासापलापयोः ॥ ४३ ॥
1.28.43 · p. 165
अनुष्टुप्
सम्भवः कथितो होतावुत्पत्तौ मेलकेऽपि च ।आधारानतिरिक्तत्व आधेयस्य च सम्भवः ॥ ४४ ॥
1.28.44 · p. 165
अनुष्टुप्
बान्धवो बन्धुसुहृदोः पञ्चत्वं निधने स्मृतम् ।पञ्चनामपि भावे च प्रभावः शक्तितेजसोः ॥ ४५ ॥
1.28.45 · p. 165
अनुष्टुप्
अभावः स्यादसत्तायायभावो निधनेऽपि च ।विभावः स्यात् परिचितौ कामस्योऽद्दीपनेऽपि च ॥ ४६ ॥
1.28.46 · p. 166
अनुष्टुप्
निष्पावः सूर्यपवने राजमाषे कडिङ्गरे ।पचने शिम्बिकायाञ्च निष्पावो निर्विकल्पके ॥ ४७ ॥
1.28.47 · p. 166
अनुष्टुप्
सुग्रीवः शोभनग्रीवे सुग्रीवो वानराधिपे ।राजीवाख्या मृगे मत्स्ये पद्ये राजोपजीविनि ॥ ४८ ॥
1.28.48 · p. 166
अनुष्टुप्
गाण्डीवं गाण्डिवं जिष्णोः कोदण्डे कार्मुकेऽपि च ।अक्षीवञ्च शिरे विद्यादमत्तेऽक्षीवमन्यवत् ॥ ४९ ॥
1.28.49 · p. 166
अनुष्टुप्
पार्थिवो नृपतौ भूमिविकारे पार्थिवोऽन्यवत् ।पार्थिवी स्यात् क्षमायाञ्च दीदिविर्धिषणान्नयोः ॥ ५० ॥
1.28.50 · p. 166
अनुष्टुप्
प्रसेवः कथितो धीरैर्वीणाङ्गसूतयोरपि ।वडवाऽश्वाकुम्भदास्योः स्त्रीविशेषे द्विजस्त्रियाम् ॥ ५१ ॥
1.28.51 · p. 166
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके ।सुषवी कारवेल्ले स्यात् कृष्णजीरकजीरयोः ॥ ५२ ॥
1.28.52 · p. 166
अनुष्टुप्
भवेदभिषवः स्नाने मद्यसन्धानयज्ञयोः ।उपप्लवः सैंहिकेये विप्लवोत्पातयोरपि ॥ ५३ ॥
1.28.53 · p. 166
अनुष्टुप्
परिप्लवश्चञ्चले स्यादाकुलेऽपि परिप्लवः ।कुशीलवस्तु वाल्मीकौ नटयाचकयोरपि ॥ ५४ ॥
1.28.54 · p. 166
अनुष्टुप्
अपह्नवोऽपलापे च सौ चाऽपह्नवो मतः ।पराभरस्तिरस्कारे विनाशे च पराभवः ॥ ५५ ॥
1.28.55 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भवेत् पारशवः पारस्त्रैणे शूद्रासुते द्विजात् ।शस्त्रेऽप्यादीनवो दोषे परिक्लिष्टदुरन्तयोः ॥ ५६ ॥
1.28.56 · p. 166
अनुष्टुप्
विदुः शीतशिवं शम्यां शैलेयशतपुष्पयोः ।सैन्धवेऽपि पुटग्रीवो गर्गरीताम्रकुम्भयोः ॥ ५७ ॥
1.28.57 · p. 166
अनुष्टुप्
धामार्गवस्त्वपामार्गे देवदाल्यामपि स्मृतः ।अनुभावः प्रभावे स्यान्निश्चये भावसूयने ॥ ५८ ॥
1.28.58 · p. 167
अनुष्टुप्
बलदेवः स्मृतो वाते कालिन्दीभेदनेऽपि च ।बलदेवामपि प्राहुस्त्रायमाणौषधे बुधाः ॥ ५९ ॥
1.28.59 · p. 167
अनुष्टुप्
जलविल्वस्तु पञ्चाङ्गे कर्कटे जलचत्वरे ।रोहिताश्वो बृहद्भानौ हरिश्चन्द्रे नृपात्मजे ॥ ६० ॥
1.28.60 · p. 167
अनुष्टुप्
सहदेवा बलादण्डोत्पलशारिवभेषजे ।सहदेवी तु सर्पाक्ष्यां सहदेवश्च पाण्डवे ॥ ६१ ॥
1.28.61 · p. 167
अनुष्टुप्
जीवञ्जीवश्चकोरे स्याद् द्रुमपक्षिविशेषयोः ।
1.28.62 · p. 167
अनुष्टुप्
आशितम्भवमन्नाद्ये तृप्तावाप्याशितम्भवः ॥ ६२ ॥
1.28.62 · p. 167
अनुष्टुप्