All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · बान्तवर्गः
इति फान्तवर्गः ॥
पूर्वाख्या पूर्वजेषु स्यादग्रे प्राचि च वाच्यवत् ।निम्बः स्यात् पिचुमर्द्दे च तिक्तके च चिरायते ॥ १ ॥
1.22.1 · p. 106
अनुष्टुप्
बिम्बं फले बिम्बिकायां प्रतिबिम्बे च मण्डले ।डिम्बः स्याद्विप्लवप्लीह्नोरेरण्डे पुप्फुसे भये ॥ २ ॥
1.22.2 · p. 106
अनुष्टुप्
स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च ।शम्बः स्यान्मुषलाग्रस्थे लोहमण्डलके पवौ ॥ ३ ॥
1.22.3 · p. 106
अनुष्टुप्
शुभान्विते च खर्बः स्याद् ह्रस्वे सङ्ख्यान्तरेऽपि च ।कम्बुः शम्बूकगजयोर्वीवानलकशङ्खयोः ॥ ४ ॥
1.22.4 · p. 106
अनुष्टुप्
जम्बूः सुमेरुसरिति द्वीप मविशेषयोः ।कम्बिरंशे च वंशस्य खजाकायामपीष्यते ॥ ५ ॥
1.22.5 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दर्बी भवेत् खजाकायां फणायामुरगस्य च ।दार्बी दारुहरिद्रायां देवदारुहरिद्रयोः ।चार्बी तु शोभनावृद्ध्योर्लम्बा श्रीतिक्ततुम्बयोः ॥ ६ ॥
1.22.6 · p. 107
अनुष्टुप्
कदम्बमाहुः सिद्धार्थे नीपेऽपि निकुरम्बके ।कादम्बः कलहंसेष्वोर्द्विजिह्बो भुजगे खले ॥ ७ ॥
1.22.7 · p. 107
अनुष्टुप्
गजाह्बा करिपिप्पल्यां गजाह्वं हस्तिनापुरे ।नितम्बो रोधसि स्कन्धे शिखरेऽपि कटीरके ॥ ८ ॥
1.22.8 · p. 107
अनुष्टुप्
हेरम्बो विघ्नराजे स्यात् कासरे शौर्यगर्विते ।कलम्बः शायके नीपे नाऽलिशाबकलब्यपि ॥ ९ ॥
1.22.9 · p. 107
अनुष्टुप्
प्रलम्बो दैत्यभेदे स्याद्बालाङ्कुर_शाखयोः ।प्रलम्बो हारभेदे स्यात्त्रपुषेऽपि पयोधरे ॥ १० ॥
1.22.10 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गन्धर्वो मृगभेदे स्यत् पुंस्कोकिलतुरङ्गयोः ।अन्तराभवसत्त्वे च गायने खेचरेऽपि च ॥ ११ ॥
1.22.11 · p. 107
अनुष्टुप्
गोडुम्बः शीर्णवृन्ते स्याद्गवादन्याः फलेऽपि च ।भूजम्बूरपि गोधूमे विकङ्कतफलेऽपि च ॥ १२ ॥
1.22.12 · p. 107
अनुष्टुप्
ललज्जिह्वो मतो हिंस्रे क्रमेलकशुनोरपि ।शतपर्बा च दूर्वायां भार्गवेऽस्य स्त्रियामपि ॥ १३ ॥
1.22.13 · p. 107
अनुष्टुप्
गोरक्षजम्बूर्गोधूमे तथा गोरक्षतण्डुले ।शृगालजम्बूर्गोडुम्बे क्वापि घोण्टाफलेऽपि च ॥ १५ ॥
1.22.15 · p. 107
अनुष्टुप्