All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · शान्तवर्गः
इति वान्तवर्गः ॥
शं सुखे शर्मणि प्रोक्तं श्रेयसि शश्च शस्त्रके ।
1.29.1 · p. 167
अनुष्टुप्metre not read in every line
वशमायत्ततायां स्याद्वशमिच्छाप्रभुत्वयोः ।वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च ॥ १ ॥
1.29.1 · p. 167
अनुष्टुप्metre not read in every line
कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जले ।कुशी फालेऽपि वल्गायां कुशा पापिष्ठमत्तयोः ॥ २ ॥
1.29.2 · p. 167
अनुष्टुप्
कुशो वाच्यवदाख्यातः स्पशः प्रणिधियुद्धयोः ।शशो गन्धरसे लोध्रे स्यात् पशौ पुरुषान्तरे ॥ ३ ॥
1.29.3 · p. 167
अनुष्टुप्
दर्शस्तु सङ्गमे सूर्यचन्द्रयोरवलोकने ।पक्षान्ते वैदिकविधौ दर्शश्च समुदाहृतः ॥ ४ ॥
1.29.4 · p. 167
अनुष्टुप्
स्पर्शो रुजायां दाने च स्पर्शने स्पर्शकेऽपि च ।विट् स्मृतो वैश्यमनुजप्रवेशे तु मनीषिभिः ॥ ५ ॥
1.29.5 · p. 167
अनुष्टुप्
पाशः कचान्ते सङ्घार्थः कर्णान्ते शोभनार्थकः ।छात्राद्यन्ते च निन्दार्थः पाशः पक्ष्यादिबन्धने ॥ ६ ॥
1.29.6 · p. 168
अनुष्टुप्
नाशः पलायने प्रोक्तो निधनानुपलम्भयोः ।काशस्तृणे स्यात् क्षवथौ वाराणस्यां तु काश्यपि ॥ ७ ॥
1.29.7 · p. 168
अनुष्टुप्
केशो दैत्यान्तरे बाले ह्रीवेरे च प्रचेतसि ।कीशो दिगम्बरे प्रोक्तः कीशः शाखामृगेऽपि च ॥ ८ ॥
1.29.8 · p. 168
अनुष्टुप्
ईशः प्रभौ शङ्करे स्यादीशा लाङ्गलदण्डके ।वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके ॥ ९ ॥
1.29.9 · p. 168
अनुष्टुप्
क्लेशो दुःखेऽपि रागादौ व्यवसायेऽपि च क्वचित् ।वंशो वेणौ कुले वर्गे पृष्ठस्यावयवेऽपि च ॥ १० ॥
1.29.10 · p. 168
अनुष्टुप्
दंशः स्यात् खण्डने दोषे दंशो मर्मणि कीर्त्तितः ।सर्पक्षतेऽपि सन्नाहवनमक्षिकयोरपि ॥ ११ ॥
1.29.11 · p. 168
अनुष्टुप्
अंशुर्लेशे रवौ रश्मावाशुव्रीहौ च सत्वरे ।पांशुर्धूलिषु शस्यार्थचिरसञ्चितगोमये ॥ १२ ॥
1.29.12 · p. 168
अनुष्टुप्
दृग्दर्शने लोचने च दृग्बुद्धौ वीक्षकेऽपि च ।दशा वर्त्ताववस्थायां वस्त्रांशे स्युर्दशा अपि ॥ १३ ॥
1.29.13 · p. 168
अनुष्टुप्
निशा दारुहरिद्रायां स्यात् त्रियामाहरिद्रयोः ।आशा तृष्णादिशोः प्रोक्ता राशिर्मेषादिपुञ्जयोः ॥ १४ ॥
1.29.14 · p. 168
अनुष्टुप्
पेशी पललपिण्ड्यां स्यान्मांस्यां खड्गपिधानके ।अण्डभेदेऽपि पेशी स्यात् सुपक्वकणिकेऽपि च ॥ १५ ॥
1.29.15 · p. 168
अनुष्टुप्
कपिशः सिह्लके श्यावे माधव्यां कपिशी मता ।कुलिशो मत्स्यचण्डे स्याद्दम्भोलौ कुलिशं स्मृतम् ॥ १६ ॥
1.29.16 · p. 168
अनुष्टुप्
विवशः स्यादवश्यात्या क्लिष्टदुष्टधियोरपि ।निस्त्रिंशो निर्द्दये खड्गे सदृशन्तूचिते समे ॥ १७ ॥
1.29.17 · p. 168
अनुष्टुप्
बालिशः शावके मूर्खे लोमशो लोमसंयुते ।मेण्डके चाथ कासीसशूगालीजटिलासु च ॥ १८ ॥
1.29.18 · p. 169
अनुष्टुप्
लोमशा शूकशिम्ब्याञ्च मर्कटीकाकजङ्घयोः ।महामेदातिबलयोः शाकिनीभिदि चेष्यते ॥ १९ ॥
1.29.19 · p. 169
अनुष्टुप्
विकाशो विजने व्यक्तौ सकाशः सदृशेऽन्तिके ।प्रकाशोऽतिप्रसिद्धे स्यात् प्रहासातपयोः स्फुटे ॥ २० ॥
1.29.20 · p. 169
अनुष्टुप्
नीकाशो निश्चये तुल्ये हताशो निर्दये खले ।कीनाशः कर्कशे क्षुद्रे कृतान्तपशुघातिनोः ॥ २१ ॥
1.29.21 · p. 169
अनुष्टुप्
सुखाशो राजतिनिशे शोभनाऽऽशप्रचेतसोः ।पिङ्गाशो मत्स्यभेदे स्यात्तथा पल्लीपतावपि ॥ २२ ॥
1.29.22 · p. 169
अनुष्टुप्
पिङ्गाशी नीलिकायाञ्च पिङ्गाशं जात्यकाञ्चने ।पलाशः किंशुके शट्यां हरिते राक्षसेऽपि च ॥ २३ ॥
1.29.23 · p. 169
अनुष्टुप्
पत्रे पलाशं संवेशः शयने चासनेऽपि च ।निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्त्तितः ॥ २४ ॥
1.29.24 · p. 169
अनुष्टुप्
निर्वेशो मूर्च्छने भोगे निर्वेशो वेतनेऽपि च ।प्रदेशो देशमात्रे स्यात्तर्ज्जन्यङ्गुष्ठसम्मिते ॥ २५ ॥
1.29.25 · p. 169
अनुष्टुप्
भित्तावपि प्रदेशः स्यात् सदेशोऽभ्यर्णदेशयोः ।निदेशः शासनोपान्तभाषणेऽपि प्रयुज्यते ॥ २६ ॥
1.29.26 · p. 169
अनुष्टुप्
आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि ।कर्कशः परुषे क्रूरे कृपणे निर्द्दये दृढे ॥ २७ ॥
1.29.27 · p. 169
अनुष्टुप्
इक्षौ साहसिके काशमर्द्दकम्पिल्लयोरपि ।गिरीशो वाक्पतौ रुद्रे गिरीशोऽद्रिपतावपि ॥ २८ ॥
1.29.28 · p. 169
अनुष्टुप्
उट्टीशो ग्रन्यभेदे स्यादुड्डीशश्चण्डिकापतौ ।तुङ्गीशः शङ्करे चन्द्रे पक्षीशस्तार्क्ष्यकृष्णयोः ॥ २९ ॥
1.29.29 · p. 169
अनुष्टुप्
उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् ।दुःस्पर्शाख्या खरस्पर्शे कण्टकार्याञ्च वासके ॥ ३० ॥
1.29.30 · p. 169
अनुष्टुप्
विपाशाख्या सरिद्भेदपाशवर्ज्जितयोर्मता ।विकेशी पटुवर्त्तौ स्याद्विकेशी निष्कचस्त्रियाम् ।भूकेशी वल्वजेषु स्याद् भूकेशः शैवले वटे ॥ ३१ ॥
1.29.31 · p. 170
अनुष्टुप्
अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि ।जीवितेशो यमे कान्ते जीवातौ जीविताधिपे ॥ ३२ ॥
1.29.32 · p. 170
अनुष्टुप्
आश्रयाशो हुतवहे भवेदाश्रयनाशके ।नागपाशः स्मृतः स्त्रीणां करणे वरुणायुधे ॥ ३३ ॥
1.29.33 · p. 170
अनुष्टुप्
पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च ।रमे सोमलतायाश्च हुतशेषेऽपि कीर्त्तितः ॥ ३४ ॥
1.29.34 · p. 170
अनुष्टुप्
परिवेशः परिवृत्तौ भानोः सविधमण्डले ।प्रतिष्कशः सहाये स्याद्वार्त्ताहरपुरोगयोः ॥ ३५ ॥
1.29.35 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि ।भूमिस्पृग्वैश्यनरयोः पूरदृक स्यात् खले शनौ ॥ ३६ ॥
1.29.36 · p. 170
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 रदृ (syllable split)
अपभ्रंशोऽपशब्दे स्याद्भाषाभेदावपातयोः ।उपदंशोऽवदंशे स्यान्मेण्ढ्रे रोगेऽपि वर्त्तते ॥ ३७ ॥
1.29.37 · p. 170
अनुष्टुप्
खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि ।खण्डामलकभैषज्ये सिंहिकातनयेऽपि च ॥ ३८ ॥
1.29.38 · p. 170
अनुष्टुप्
पादपाशी खण्डकायां शृङ्खलाकटकेऽपि च ।स्मृता पञ्चदशी पौर्णमास्यमावास्ययोरपि ॥ ३९ ॥
1.29.39 · p. 170
अनुष्टुप्
धूर्जटौ खण्डपरशुर्जामदग्न्ये विधुन्तुदे ।खण्डामलकभैषज्ये चूडालेऽपि स्मृतो बुधैः ॥ ४० ॥
1.29.40 · p. 170
अनुष्टुप्