All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · णान्तवर्गः
इति ढान्तवर्गः ॥
कणोऽतिसूक्ष्मे धान्यांशे कृष्णाजीरकणादिषु ।पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे ॥ १ ॥
1.14.1 · p. 47
अनुष्टुप्
क्रय्यशाकटिकद्यूतव्यवहारे भृतौ धने ।गणः समूहे प्रथमे सङ्ख्यासैन्यप्रभेदयोः ॥ २ ॥
1.14.2 · p. 47
अनुष्टुप्
घ्राणं घ्राते च नासायां काणः काकैकचक्षुषोः ।बाणः स्यात् केवले काण्डे काण्डावयवदैत्ययोः ॥ ३ ॥
1.14.3 · p. 47
अनुष्टुप्
बाणा झिण्ट्यां मता धीरैः शणी मासचतुष्टये ।कषणे करपत्रे च शाणी प्रावरणान्तरे ॥ ४ ॥
1.14.4 · p. 47
अनुष्टुप्
त्राणा तु त्रायमानायां रक्षिते रक्षणेऽपि च ।प्राणो हृन्मारुते बाले काव्यजीवेऽनिले वले ॥ ५ ॥
1.14.5 · p. 47
अनुष्टुप्
वाच्यवत् पूरिते प्राणं प्राणाश्चाऽसुषु कीर्त्तिताः ।द्रुणं चापे च खङड्गे च द्रुणो वृश्चिकभृङ्गयोः ॥ ६ ॥
1.14.6 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्रुणी कच्छपिकायाञ्च जलद्रोण्यामुदाहृता ।द्रोणः कृपीपतौ कृष्णका[?]के स्यादाढकेऽपि च ॥ ७ ॥
1.14.7 · p. 48
अनुष्टुप्
मोणः शुष्कफले नक्रमक्षिकाहिकरण्डयोः ।कोणो वाद्यप्रभेदे स्यात् कोणोऽस्त्रे लगुडेऽर्कजे ॥ ९ ॥
1.14.9 · p. 48
अनुष्टुप्
वीणा वाद्यादिनोपायेऽप्येकदेशे गृहस्य च ।शोणः श्योणाकनदयोः शोणः कोकनदच्छदे ॥ १० ॥
1.14.10 · p. 48
अनुष्टुप्
लोहिताश्वे कृशानौ च भ्रूणः स्त्रीगर्भडिम्भयोः ।तीक्ष्णं सामुद्रलवणे विषलोहाग्निमुष्कके ॥ ११ ॥
1.14.11 · p. 48
अनुष्टुप्
तीक्ष्णः सारे च तिग्मात्मत्यागिनोर्वाच्यवद्भवेत् ।कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि ॥ १२ ॥
1.14.12 · p. 48
अनुष्टुप्
जर्णश्चन्द्रे च वृक्षे च वर्णः काञ्चनयज्ञयोः ।वर्णो द्विजादौ शुक्लादौ स्तुतौ रूपयशोऽक्षरे ॥ १३ ॥
1.14.13 · p. 48
अनुष्टुप्
विलेपने कथायाञ्च वर्णः स्याद्गुणभेदयोः ।पर्णं स्यात् किंशुके पत्रे शीर्णं तनुविशीर्णयोः ॥ १४ ॥
1.14.14 · p. 48
अनुष्टुप्
पूर्णः शब्दे समग्रे च पूरिते चापि वाच्यवत् ।चूर्णं क्षोदे क्षारभेदे चूर्णा निवासयुक्तिषु ॥ १५ ॥
1.14.15 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
कीर्णं छन्ने परिक्षिप्ते हिंसिते कीर्णमिष्यते ।जीर्णं पक्वे पुराणे च दीर्णं दारितभीतयोः ॥ १६ ॥
1.14.16 · p. 48
अनुष्टुप्
उष्णः स्यादातपे ग्रीष्मे दक्षे कृष्णस्तु केशवे ।व्याप्तेऽर्ज्जुने कोकिले च कृष्णं मरिचलोहयोः ॥ १७ ॥
1.14.17 · p. 48
अनुष्टुप्
कृष्णा तु द्रौपदीनीलीहारहूरासु कथ्यते ।वाच्यवन्मेचके कृष्णे जिष्णुः शक्रे धनञ्जये ॥ १८ ॥
1.14.18 · p. 48
अनुष्टुप्
जित्वरे चाथ विष्णुः स्यात् कृष्णेऽर्के वसुदैवते ।गेष्णुर्नटे गायने च देष्णुर्दातूरि दुर्दमे ॥ १९ ॥
1.14.19 · p. 49
अनुष्टुप्
वृष्णिस्तु यादवे मेषे दृष्णिः पाखण्डिचण्डयोः ।पार्ष्णिः पाश्चात्यभागे स्यात् पादमूलोन्मदस्त्रियोः ॥ २० ॥
1.14.20 · p. 49
अनुष्टुप्
सेनापृष्ठे च कुम्भ्याशञ्च तृष्णा लिप्सापिपासयोः ।ऊर्णा मेषादिलोम्नि स्यादन्तरावर्त्तके भ्रुवोः ॥ २१ ॥
1.14.21 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मणिर्गोले मेहनाग्रे रत्ने चाजागलस्तने ।अणिराणिवदक्षाग्रकीले स्यादस्तिसीमयोः ॥ २२ ॥
1.14.22 · p. 49
अनुष्टुप्
कुणिस्तुन्नकवृक्षेऽपि कुणिः स्यात् कुकरेऽन्यवत् ।झूणिः क्रमुकभेदेऽपि तुष्टदैवश्रुतावपि ॥ २३ ॥
1.14.23 · p. 49
अनुष्टुप्
श्रेणिः पङ्क्तौ सेकपात्रे श्रेणिः स्यात् कारुसंहतौ ।वाणिः स्यादूतिभारत्योर्वाणिर्मूल्ये बलाहके ॥ २४ ॥
1.14.24 · p. 49
अनुष्टुप्
वेणी कचस्य बन्धे स्यान्नदीनां मेलकेऽपि च ।देवताडे च तूणी तु नील्या तूणौ निषङ्गके ॥ २५ ॥
1.14.25 · p. 49
अनुष्टुप्
घृणा जुगुणाकृपयोः फाणिर्गुडकरम्बयोः ।श्राणा यवाग्वां पक्वे तु श्राणं स्थूणाऽयसः स्मृता ॥ २६ ॥
1.14.26 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 गु (wrong syllable)
प्रतिमायां गृहस्तम्भे वीणा वल्लकिविद्युतोः ।वेणुर्भूपान्तरे वंशे स्थाणुः कीले स्थिरे हरे ॥ २७ ॥
1.14.27 · p. 49
अनुष्टुप्
निःशब्दे कपिले कुष्ठे द्रव्ये वाच्यवदिष्यते ।अरुणाऽतिविशाश्यामामञ्जिष्ठात्रिवृतासु च ॥ २९ ॥
1.14.29 · p. 49
अनुष्टुप्
करुणस्तु रसे वृक्षे कृपायां करुणा मता ।वरुणः सम्मतो नीरे स्वर्लोके परमेष्ठिनि ॥ ३० ॥
1.14.30 · p. 49
अनुष्टुप्
वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः ।वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृतौ ॥ ३१ ॥
1.14.31 · p. 50
अनुष्टुप्
तरुणः स्यान्नवे यूनि कुब्जपुष्पोरुबूकयोः ।चरणं बह्वृचादौ स्यान्मूले गोत्रे पदेऽपि च ॥ ३२ ॥
1.14.32 · p. 50
अनुष्टुप्
चरणं भ्रमणेऽत्तौ च चरण रासभध्वनौ ।लवणो रसरक्षोऽब्धिभेदेषु लवणान्विते ॥ ३३ ॥
1.14.33 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
करणं साधनक्षेत्रकाचकायस्थकर्म्मसु ।गीताङ्गहारसंवेशक्रियाभेदेन्द्रियेषु च ॥ ३४ ॥
1.14.34 · p. 50
अनुष्टुप्
बालवादौ च करणः स्मृतः शूद्राविशोः सुते ।जरणं जीरकाजाजिहिङ्गुसौवर्चलेष्वपि ॥ ३५ ॥
1.14.35 · p. 50
अनुष्टुप्
धरणं मानभेदेऽपि धारणे धरणीभुवि ।रमणं स्यात् पटोलस्य मूलेऽपि रमणः प्रिये ॥ ३६ ॥
1.14.36 · p. 50
अनुष्टुप्
शरणं वधरक्षित्रोः शरणं रक्षणे गृहे ।कत्तृणं तृणभेदेऽपि वारिपर्ण्याञ्च कत्तृणम् ॥ ३७ ॥
1.14.37 · p. 50
अनुष्टुप्
यन्त्रणं स्यान्नियमने बन्धने रक्षणेऽपि च ।प्रघणस्ताम्रकुम्भे स्यादलिन्दे लोहमुद्गरे ॥ ३८ ॥
1.14.38 · p. 50
अनुष्टुप्
द्रुघणो मुद्गरेऽपि स्याद् द्रुघणा च परश्वधे ।प्रवणः क्रमनिम्नोर्व्यामायत्ते च चतुष्पथे ॥ ३९ ॥
1.14.39 · p. 50
अनुष्टुप्
प्रगुणेऽपि क्षणेऽपि स्यादीरणं शून्य ऊषरे ।ग्रहणं तूपलब्धौ स्यादादरे ग्रहणं करे ॥ ४० ॥
1.14.40 · p. 50
अनुष्टुप्
ग्रहोपरागस्वीकारवन्दिषु ग्रहणं मतम् ।ईक्षणं दर्शने दृष्टौ प्रोक्षणं सेचने वधे ॥ ४१ ॥
1.14.41 · p. 50
अनुष्टुप्
लक्षणं नाम्नि चिह्ने च सौमित्रे चाऽपि लक्षणः ।लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः ॥ ४२ ॥
1.14.42 · p. 50
अनुष्टुप्
लक्ष्मणौषीधसारस्योः सश्रीके चाभिधेयवत् ।दक्षिणः सरलावामपरच्छन्दानुवर्त्तिषु ॥ ४३ ॥
1.14.43 · p. 50
अनुष्टुप्
वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयोः ।द्रविणं काञ्चने वित्ते द्रविणञ्च पराक्रमे ॥ ४४ ॥
1.14.44 · p. 51
अनुष्टुप्
मसृणः कर्कशे स्निग्धे क्षुमायां मसृणा भवेत् ।ऊषणं मरिचे ख्यातं कणायामूषणा भवेत् ॥ ४५ ॥
1.14.45 · p. 51
अनुष्टुप्
धिषणस्त्रिदशाचार्य्ये धिषणा धियि सम्मता ।धर्षणं स्यात् परिभवे रतेऽसत्यां तु धर्षणी ॥ ४६ ॥
1.14.46 · p. 51
अनुष्टुप्
भीषणो दारुणे रुद्रे भीषणं सल्लकीरसे ।हरणं यौतुकद्रव्ये भुजेऽपि हरणं हृतौ ॥ ४७ ॥
1.14.47 · p. 51
अनुष्टुप्
हिरणं रेतसि स्वर्णे वराटे च हिरण्यवत् ।हरिणः स्यात् कुरङ्गेऽपि हरिणः पाण्डुरेऽन्यवत् ॥ ४८ ॥
1.14.48 · p. 51
अनुष्टुप्
हरिणी हरितायाञ्च चारुस्त्रीवृत्तभेदयोः ।सुवर्णप्रतिभायाञ्च हर्षणोऽक्षिरुगन्तरे ॥ ४९ ॥
1.14.49 · p. 51
अनुष्टुप्
हर्षके योगभेदे च श्राद्धदेवेऽपि क्वचित् ।श्रवणं स्याद्वृक्षभेदे श्रवणं श्रुतिकर्णयोः ॥ ५० ॥
1.14.50 · p. 51
metre not recognisednearly अनुष्टुप्
श्रावणो मासपाषण्डे दध्याल्यां श्रावणी मता ।श्रमणो यतिभेदेऽपि श्रमणो निन्द्यजीविनि ॥ ५१ ॥
1.14.51 · p. 51
अनुष्टुप्
सुदर्शनामुण्डतिकामांसीषु श्रमणां विदुः ।कल्याणमक्षये स्वर्णे कल्याणं मङ्गलेऽपि च ॥ ५२ ॥
1.14.52 · p. 51
अनुष्टुप्
कृपाणोऽसौः कृपाणी तु छुरिकायां च कर्तरौ ।सिंहाणं काचपात्रे च लोहनासिकयोर्मले ॥ ५३ ॥
1.14.53 · p. 51
अनुष्टुप्
पुराणं वाच्यवत् प्रत्ने पुराणं पञ्चलक्षणे ।प्रमाणं नित्यमर्यादासत्यवादिप्रमातृषु ॥ ५४ ॥
1.14.54 · p. 51
अनुष्टुप्
एकतायामियत्तायां हेतुशास्त्रेषु च स्मृतम् ।निर्याणं वानरापाङ्गदेशे मोक्षे च निर्गमे ॥ ५५ ॥
1.14.55 · p. 51
अनुष्टुप्
निर्माणं निर्मितौ सारे निर्माणञ्च समञ्जसे ।निर्वाणमस्तङ्गमने निर्वृतौ गजमज्जने ॥ ५६ ॥
1.14.56 · p. 52
अनुष्टुप्
अपवर्गे च कुर्वाणे भृत्यकारकयोरपि ।दौर्वाणं नष्टपर्णे स्याद् दूर्वायाः स्वरसेऽपि च ॥ ५७ ॥
1.14.57 · p. 52
अनुष्टुप्
वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे ।कारणं करणे हेतुबन्धयोरपि कारणम् ॥ ५८ ॥
1.14.58 · p. 52
अनुष्टुप्
कारणा यातनायाञ्च कृपणः कुत्सिते कृमौ ।कार्म्मणं मन्त्रतन्त्रादियोजने कर्मकारके ॥ ५९ ॥
1.14.59 · p. 52
अनुष्टुप्
मार्गणं प्रार्थनेऽन्वेषे मार्गणो याचके सरे ।मत्कुणो निर्विषाणेभे निःश्मश्रुपुरुषेऽपि च ॥ ६० ॥
1.14.60 · p. 52
अनुष्टुप्
उद्दशे नारिकेले च धरर्म्मणोऽहिद्रुभेदयोः ।कोङ्कणो देशभेदे स्याच्छस्त्रभेदे तु कोङ्कणम् ॥ ६१ ॥
1.14.61 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि ।पूरणः पूरके पिष्टभेदे पूरणमिष्यते ॥ ६२ ॥
1.14.62 · p. 52
अनुष्टुप्
पटारम्भकसूत्रे च शाल्मली पूरणी मता ।सुषेणः करमर्द्देऽपि विष्णुसुग्रीववैद्ययोः ॥ ६३ ॥
1.14.63 · p. 52
अनुष्टुप्
रोषणः पारदे हेमघर्षणोपलयोस्तथा ।रोषणेऽपि विषाणन्तु क्रोडद्विरदन्तयोः ॥ ६४ ॥
1.14.64 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पशोः शृङ्गे विषाणा तु मेषशङ्ग्यां प्रकीर्त्तिता ।करेणुर्गजहस्तिन्योः कर्णिकारेऽपि च क्वचित् ॥ ६५ ॥
1.14.65 · p. 52
अनुष्टुप्
हरेणुस्तु सतीले स्याद्रेणुकाकुलयोषितोः ।सुवर्णं स्वर्णमात्रे स्यात् सुवर्णं कर्षबिस्तयोः ॥ ६६ ॥
1.14.66 · p. 52
अनुष्टुप्
सुवर्णश्च सुवर्णालुकृष्णागुरुमखान्तरे ।सुपर्णस्ताम्रचूडे स्याद्गरुडे कृतमालके ॥ ६७ ॥
1.14.67 · p. 52
अनुष्टुप्
सुपर्णा कमलिन्याञ्च सुपर्णा तार्क्ष्यमातरि ॥
1.14.70 · p. 52
श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे ॥ ६८ ॥
1.14.68 · p. 53
दुर्वर्णञ्च कुवर्णे स्याद्वास्तुके रजतेऽपि च ।पत्रोर्णं धौतकौषेये पत्रोर्णः शोणकेऽपि च ॥ ६९ ॥
1.14.69 · p. 53
अनुष्टुप्
सङ्कीर्णं निचिते प्रोक्तमशुद्धे चापि भेद्यवत् ।गोकर्णोऽश्वतरे सर्पे सारङ्गे प्रमथान्तरे ॥ ७० ॥
1.14.70 · p. 53
अनुष्टुप्
अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ ।अरणिर्वह्निमन्थेऽपि स्मृतो निर्म्मन्थ्यदारुणि ॥ ७१ ॥
1.14.71 · p. 53
अनुष्टुप्
तरणिस्तरणे भानौ कुमार्योषधिनौकयोः ।विपणिः पण्यवीथ्याञ्च भवेदापणपण्ययोः ॥ ७२ ॥
1.14.72 · p. 53
अनुष्टुप्
प्रवेणिर्वेणिकुथयोः सरणिः पङ्क्तिवर्त्मनोः ।निःश्रेणिस्त्वधिरोहिण्यां खर्ज्जूरीपादपेऽपि च ॥ ७३ ॥
1.14.73 · p. 53
अनुष्टुप्
भरणी शोणके ऋक्षे भरणं वेतने भृतौ ।भ्रमणी कारुण्डिकायां क्रीडाद्यायामधीशितुः ॥ ७४ ॥
1.14.74 · p. 53
अनुष्टुप्
ग्रामणीर्भोगिके पत्यौ प्रधाने नापितेऽपि च ।ग्रामणी नीलिकायाञ्च ग्रामेयीपण्ययोषितोः ॥ ७५ ॥
1.14.75 · p. 53
अनुष्टुप्
धारणी नाडिकायां स्याद्बुद्धोक्तमन्त्रभिद्यपि ।इन्द्राणी करणे स्त्रीणां पौलोमीसिन्धुवारयोः ॥ ७६ ॥
1.14.76 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्त (wrong syllable)
एषणी व्रणमार्गानुसारिण्याञ्च तुलाभिदि ।क्षेपणी जालभेदे स्यान्नौकादण्डे च कथ्यते ॥ ७७ ॥
1.14.77 · p. 53
अनुष्टुप्
वारुणी गण्डदूर्वायां प्रतीचीसुरयोरपि ।सारणी स्वल्पसरिते प्रसारण्याञ्च सारणी ॥ ७८ ॥
1.14.78 · p. 53
अनुष्टुप्
सारणः स्यादतीसारे सचिवे रावणस्य च ।काकिणी पणतुर्यांशे मानदण्डे च काकिणी ॥ ७९ ॥
1.14.79 · p. 53
अनुष्टुप्
कृष्णलैकवराट्योः स्यादुदमानांशकेऽपि च ।ब्राह्मणी पञ्जिकास्पृक्काद्विजपत्नीषु विश्रुता ॥ ८० ॥
1.14.80 · p. 53
अनुष्टुप्
विप्रे तु ब्राह्मणो वेदे ब्राह्मणं द्विजसंहतौ ।पक्षिणी पूर्णिमायां स्यात् पक्षिणी शाकिनीभिदि ॥ ८१ ॥
1.14.81 · p. 54
अनुष्टुप्
आगामिवर्त्तमानाहर्युक्तायां निशि पक्षिणी ।रोहिणी कटुरोहिण्यां रोहिणी लोहितागवोः ॥ ८२ ॥
1.14.82 · p. 54
अनुष्टुप्
आथर्वणोऽप्यथर्वज्ञे ब्राह्मणेऽपि पुरोधसि ।आरोहणं स्यात् सोपाने समारोहे प्ररोहणे ॥ ८४ ॥
1.14.84 · p. 54
अनुष्टुप्
रक्तरेणुस्तु सिन्दूरे पलाशकलिकोद्गमे ।उत्क्षेपणन्तु व्यजने धान्यमर्द्दनवस्तुनि ॥ ८५ ॥
1.14.85 · p. 54
अनुष्टुप्
उद्धरणं समुद्धारवान्तान्नोन्मूलनेष्वपि ।निगरणं भोजनेऽपि गले निगरणो मतः ॥ ८६ ॥
1.14.86 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 3, syllable 3 र (wrong syllable)
निःशरणं स्यान्मरणोपायनिर्याणमुक्तिषु ।संसरणं रणारम्भे पुरनिर्गमगोपुरे ॥ ८७ ॥
1.14.87 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable); pāda 3, syllable 3 र (wrong syllable)
घण्टापथे च ससारेऽप्यसम्बाधचमूगतौ ।निस्तरणं स्यादुपाये निस्तारे निर्गमेऽपि च ॥ ८८ ॥
1.14.88 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable); pāda 3, syllable 3 र (wrong syllable)
विदारणं रणे भेदे विडम्बे च विदारणम् ।निरूपणं स्यादालोके विचारे च निदर्शने ॥ ८९ ॥
1.14.89 · p. 54
अनुष्टुप्
नारायणोऽच्युतेऽभीरुगौर्य्योर्नारायणी विदुः ।परायणमभीष्टे स्यात् तत्पराश्रययोरपि ॥ ९० ॥
1.14.90 · p. 54
अनुष्टुप्
पारायणं समासङ्गे कार्त्स्न्ये पारगतावपि ।कार्षापणः कार्षिके स्यात् पणषोडशकेऽपि च ॥ ९१ ॥
1.14.91 · p. 54
अनुष्टुप्
कामगुणः स्मृतो रागे विषयाभोगयोरपि ।परीरणः स्यात् कमठे दण्डे च पट्टशाटके ॥ ९२ ॥
1.14.92 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 गु (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
समीरणः स्यात् पवने पथिके च फणिज्झके ।पर्वरीणस्तु पर्णस्य शिरायां द्यूतकम्बले ॥ ९३ ॥
1.14.93 · p. 55
अनुष्टुप्
पर्णवृन्तरसेऽपि स्यात् पर्वरीणञ्च पर्वणि ।तण्डुरीणः कीटमात्रे वर्वरे तण्डुलोदके ॥ ९४ ॥
1.14.94 · p. 55
अनुष्टुप्
मीनाम्रीणो दर्दुराम्रे मीनाम्रीणश्च खञ्जने ।प्रवारणं निषेधे स्यात् काम्यदाने प्रवारणम् ॥ ९५ ॥
1.14.95 · p. 55
अनुष्टुप्
जुहुराणोऽनलेऽध्वर्यौ रेरिहाणो हरेऽम्बरे ।देवमणिः शिवेऽश्वस्य कण्ठावर्त्ते च कौस्तुभे ॥ ९६ ॥
1.14.96 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
चूडामणिः शिरोरत्ने काकचिञ्चाफलेऽपि च ।परवाणिः स्मृतो धर्म्माध्यक्षवत्सरयोरपि ॥ ९७ ॥
1.14.97 · p. 55
अनुष्टुप्
शरवाणिः शरमुखे षाण्डकषे शरजीविनि ।लम्बकर्णः स्मृतः कोलपादपे छगलेऽपि च ॥ ९८ ॥
1.14.98 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ण्डक (syllable split)
रागचूर्णः स्मरे दन्तधावने रक्तवालुके ।हस्तिकर्णोऽरुबूके स्यात् पलाशगणभेदयोः ॥ ९९ ॥
1.14.99 · p. 55
अनुष्टुप्
चीर्णपर्णस्तु निम्बे स्यात् खर्ज्जूरीभूरुहेऽपि च ।तैलपर्णी मलयजे श्रीवासे सिंहकेऽपि च ॥ १०० ॥
1.14.100 · p. 55
अनुष्टुप्
पीलुपर्णी तु बिम्बायां मूर्वायामोषधीभिदि ।दाक्षायणी त्वपर्णायां रोहिण्यां तारकासु च ॥ १०१ ॥
1.14.101 · p. 55
अनुष्टुप्
पुष्करिणी सरोजिन्यां हस्तिन्याञ्च जलाशये ।शिखरिणी स्याद्रोमाल्यां रसालावृत्तभेदयोः ॥ १०२ ॥
1.14.102 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable); pāda 3, syllable 2 ख (wrong syllable)
स्त्रीरत्ने मल्लिकायाञ्च प्रोक्ता शिखरिणी बुधैः ।अङ्गारिणी हसन्त्याञ्च भास्करत्यक्तदिश्यपि ॥ १०३ ॥
1.14.103 · p. 55
अनुष्टुप्
प्रविदारणमाख्यातं सङ्गरे च विदारणे ।अवतारणं भूतादिग्रहे वस्त्राञ्चलेऽर्च्चने ॥ १०५ ॥
1.14.105 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
रोमहर्षणमित्येतद् रोमाञ्चेऽपि बिभीतके ।परिभाषणमालापे नियमे परिभाषणम् ॥ १०६ ॥
1.14.106 · p. 56
अनुष्टुप्
निन्दोपालम्भवचने परिभाषणमिष्यते ।मत्तवारणमिच्छन्ति दानक्लिन्नकटद्विपे ॥ १०७ ॥
1.14.107 · p. 56
अनुष्टुप्
महाप्रासादवीथीनां वरण्डे चाप्यपाश्रये ।वातरायणमुन्मत्ते निष्प्रयोजनपूरुषे ॥ १०८ ॥
1.14.108 · p. 56
अनुष्टुप्
काण्डे च करपत्रे च कूटे च शरसङ्क्रमे ।मण्दूकपर्णोऽरलुके शोणके च कपीतने ॥ १०९ ॥
1.14.109 · p. 56
अनुष्टुप्
मण्डूकपर्णी मञ्जिष्ठाब्राह्मीगोजिह्वकासु च ।
1.14.115 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
दोहदलक्षणं गर्भे वयःसन्धौ च दृश्यते ।यौवनलक्षणाऽभिख्या[ ]लावण्ये च पयोधरे ॥ ११०
1.14.116 · p. 56
अनुष्टुप्metre not read in every line