All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · धान्तवर्गः
इति दान्तवर्गः ॥
राधो वैशाखमासे स्याद्राधा गोप्याञ्च विद्युति ।विष्णुक्रान्तामलक्योश्च चित्रवेधे च धन्विनाम् ॥ १ ॥
1.18.1 · p. 81
अनुष्टुप्
गाधः स्थाने च लिप्सायां व्याधो मृगयुदुष्टयोः ।मेधः क्रतुर्धियां मेधा मेधः स्यात् खलदारुणे ॥ २ ॥
1.18.2 · p. 82
अनुष्टुप्
बुधः कवौ रौहिणेये मिद्धमालस्यनिद्रयोः ।तथा चित्ताभिसंक्षेपे नद्धमुद्वृत्तबद्धयोः ॥ ३ ॥
1.18.3 · p. 82
अनुष्टुप्
सिद्धो व्यासादिषु ख्यातः सिद्धाः स्युर्दैवयोनिषु ।नित्ये प्रसिद्धे निष्पन्नेऽपीद्धमातप्तदीस्तयोः ॥ ४ ॥
1.18.4 · p. 82
अनुष्टुप्
ऋद्धं त्वतिसमृद्धे स्यात् सम्यग्वाते तु वाच्यवत् ।वृद्धन्तु शैलजे सूरिजीर्णरूढेषु भेद्यवत् ॥ ५ ॥
1.18.5 · p. 82
अनुष्टुप्
विद्धं स्याद्वेदिते क्षिप्ते सादृश्येऽपि निगद्यते ।बुद्धो जिने च धीरे च सौम्ये च बुधितेऽपि च ॥ ६ ॥
1.18.6 · p. 82
अनुष्टुप्
अर्द्धः खण्डे समांशेऽर्द्धं लुब्धो मृगयुकाङ्खिणोः ।अन्धं स्यात्तिमिरे दृष्टिहीनेऽन्धः समुदाहृतः ॥ ७ ॥
1.18.7 · p. 82
अनुष्टुप्
गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः ।स्कन्धः प्रकाण्डे सैन्यांशे बाहुमूलसमूहयोः ॥ ८ ॥
1.18.8 · p. 82
अनुष्टुप्
समीकनृपयोश्चाऽपि बन्धस्त्वाधौ च वन्धने ।दग्धं प्लुष्टेऽन्यवद्दग्धा स्थितार्कदिशि दर्शिता ॥ ९ ॥
1.18.9 · p. 82
अनुष्टुप्
दिग्धं विषाक्तवाणे स्याद्दिग्धं लिप्तार्थकेऽन्यवत् ।दुग्धं प्रपूरणे क्षीरे मुग्धः सुन्दरमूढयोः ॥ १० ॥
1.18.10 · p. 82
अनुष्टुप्
मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः ।दैत्ये चैत्रे वसन्ते च जीवाशाके मधुद्रुमे ॥ ११ ॥
1.18.11 · p. 82
अनुष्टुप्
विधुः शशाङ्के कर्पूरे हृषीकेशेऽपि राक्षसे ।साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत् ॥ १२ ॥
1.18.12 · p. 82
अनुष्टुप्
सिन्धुः समुद्रे नद्याञ्च नदे देशेभदानयोःबन्धुर्वन्धूकपुष्पे स्याद्बन्धुर्भ्रातरि बान्धवे ॥ १३ ॥
1.18.13 · p. 82
अनुष्टुप्
आधिर्मानसपीडायां प्रत्याशायाश्च[ञ्च] बन्धके ॥
1.18.14 · p. 82
व्यसने चापधिष्ठाने व्याधिरामयवाक्ययोः ॥ १४ ॥
1.18.14 · p. 83
बोधिः समाधिभेदे स्याद्बोधिः पिप्पलपादपे ।सन्धिर्भेदे सुरुङ्गायां भगे सङ्घटनेऽपि च ॥ १५ ॥
1.18.15 · p. 83
अनुष्टुप्
अब्धिः समुद्रे सरसि सिद्धिर्निष्पत्तियोगयोः ।वृद्धिरानन्दने ऋद्धौ वर्द्धनेऽपि कलान्तरे ॥ १६ ॥
1.18.16 · p. 83
अनुष्टुप्
दोग्धा गोपालके वत्से कवौ वार्त्तोपजीविनि ।विधा गजान्ने ऋद्धौ च प्रकारे वेतने विधौ ॥ १७ ॥
1.18.17 · p. 83
अनुष्टुप्
गोधा तले निहाकायां बाधा दुःखनिषेधयोः ।सुधाऽमृते स्नुहीमूर्वालेपगाङ्गेष्टिकासु च ॥ १८ ॥
1.18.18 · p. 83
अनुष्टुप्
सन्धा स्थितौ प्रतिज्ञायां श्रद्धा श्राद्धत्वकाङ्क्षयोः ।स्पर्द्धा संघर्षणे साम्ये स्पर्द्धा क्रमसमुन्नतौ ॥ १९ ॥
1.18.19 · p. 83
अनुष्टुप्
वधूः स्नुषानवोढास्त्रीभार्यास्पृक्काङ्गनासु च ।शट्याञ्च शारिवायां स्यात् सृधूर्बुद्धौ गुदेऽपि च ॥ २० ॥
1.18.20 · p. 83
अनुष्टुप्
विवधो वीवधश्चापि पर्याहारेऽध्वभारयोः ।विबुधः पण्डिते देव सम्बाधः सङ्कटे भगे ॥ २१ ॥
1.18.21 · p. 83
अनुष्टुप्
निषधः कठिने देशे तद्राजे च नगान्तरे ।संरोधो रोधने क्षेपे निरोधो रोधनाशयोः ॥ २२ ॥
1.18.22 · p. 83
अनुष्टुप्
उत्सेधश्चोच्छ्रये काये दुर्विधो दुर्गते खले ।विश्रब्धोऽऽनुद्भटेऽत्यर्थे शातविश्वस्तयोरपि ॥ २३ ॥
1.18.23 · p. 83
अनुष्टुप्
न्यग्रोधी व्यामवटयोर्न्यग्रोधश्च शमीतरौ ।न्यग्रोधे वृषपर्ण्याञ्च मोहनाख्यौषधावपि ॥ २४ ॥
1.18.24 · p. 83
अनुष्टुप्
अगाधो विवरे स्थाने प्रसिद्धोऽलङ्कृतेऽपि च ।विख्यातेऽपि च सन्नद्धे वर्मितव्यूढयोरपि ॥ २५ ॥
1.18.25 · p. 83
अनुष्टुप्
आनद्धं बद्धमात्रे स्यादानद्धं मुरुजादिके ।आविद्धो वाच्यवज्ञेयः कुटिले च पराहते ॥ २६ ॥
1.18.26 · p. 83
अनुष्टुप्
कबन्धस्तूदरे रक्षोविशेषेऽपि विधुन्तुदे ।आबन्धो दृढबन्धे स्यात् प्रेमालङ्कारयोरपि ॥ २७ ॥
1.18.27 · p. 84
अनुष्टुप्
सुगन्धिः स्यादिष्टगन्धे सुगन्धि हरिवालुके ।उपाधिर्धर्मचिन्तायां कैतवेऽपि विशेषणे ॥ २८ ॥
1.18.28 · p. 84
अनुष्टुप्
कुटुम्वव्यापृतेऽपि स्यादुपधिर्व्याधिचक्रयोः ।परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ २९ ॥
1.18.29 · p. 84
अनुष्टुप्
अवधिस्त्ववधाने स्यात् सीम्नि काले बिलेऽपि च ।समाधिर्नियमे ध्याने नीवाके च समर्थने ॥ ३० ॥
1.18.30 · p. 84
अनुष्टुप्
सन्निधिः सन्निधानेऽपि भवेदिन्द्रयगोचरे ।संसिद्धिः सहजे सिद्धौ मदोग्रायामपि स्मृता ॥ ३१ ॥
1.18.31 · p. 84
अनुष्टुप्
प्रणिधिश्चरे याच्ञायां वीरुद्विटपशाखयोः ।मागधी पिप्पलीयूथ्योर्मागधो मगधोद्भवे ॥ ३२ ॥
1.18.32 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
महौषधं शृङ्गवे[बे]रे विषायां लशुनेऽपि च ।परिव्याधो वेतसे स्यात् परिव्याधो द्रुमोत्पले ॥ ३४ ॥
1.18.34 · p. 84
metre not recognisednearly अनुष्टुप्
अवष्टब्धमदूरे स्यादाक्रान्ते च विलम्बिते ।समुन्नद्धः समुद्भूते पण्डितम्पन्यपृष्टयोः ॥ ३५ ॥
1.18.35 · p. 84
अनुष्टुप्
अनिरुद्ध उषानाथे चरे चानर्गलेऽन्यवत् ।अनुबन्धः प्रकृत्यादेर्दोषोत्पादे विनश्वरे ॥ ३६ ॥
1.18.36 · p. 84
अनुष्टुप्
मुख्यानुयायिनि शिशौ प्रवृत्तस्य निवर्त्तने ।अनुबन्धी च हिक्कायां तृष्णायामपि कथ्यते ॥ ३७ ॥
1.18.37 · p. 84
अनुष्टुप्
कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे ।आशावन्धः समाश्वासे तया मर्कटजालके ॥ ३८ ॥
1.18.38 · p. 84
अनुष्टुप्
ब्रह्मबन्धुरधिक्षेपे निर्देशे च द्विजन्मनाम् ।उग्रगन्धाजमोदायां वचायां छिक्ककौषधौ ॥ ३९ ॥
1.18.39 · p. 85
अनुष्टुप्
तीक्ष्णगन्धा वचायाञ्च शिग्रुराजिकयोरपि ।इक्षुगन्धा कोकिलाक्षे क्रोष्ट्र्यां काशे च गोक्षुरे ॥ ४० ॥
1.18.40 · p. 85
अनुष्टुप्
तृणगोधा चित्रकोले कृकलासे च लक्ष्यते ।उपलब्धिर्मतौ प्राप्तौ ज्ञाने चाऽपि प्रयुज्यते ।
1.18.43 · p. 85
अनुष्टुप्metre not read in every line
योजनगन्धा कस्तूर्य्यां सीतायां व्यासमातरि ॥ ४१ ॥
1.18.41 · p. 85
अनुष्टुप्metre not read in every line