All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · ढान्तवर्गः
इति डान्तवर्गः ॥
दृढः स्थूले मृशे शक्ते प्रगाढेऽपि दृढो मतः ।बाढं दृढे प्रतिज्ञायां मूढस्तन्द्रितबालयोः ॥ १ ॥
1.13.1 · p. 46
अनुष्टुप्
गूढं रहसि गुह्ये च संवृते पुनरन्यवत् ।व्यूढः संहतविन्यस्तपृथुलेषु च भेद्यवत् ॥ २ ॥
1.13.2 · p. 46
अनुष्टुप्
षण्ढो वर्षधरे क्लीबे गोपतौ बन्ध्यपूरुषे ।वोढा स्याद्भारिते सूते सोढा मर्षणशक्तयोः ॥ ३ ॥
1.13.3 · p. 46
अनुष्टुप्
राढा सूक्ष्मे च शोभायां दाढा दंष्ट्राभिलाषयोः ।माढिः पत्रादिभङ्गौ स्यान्माढिर्दैन्यप्रकाशने ॥ ४ ॥
1.13.4 · p. 46
अनुष्टुप्
आषाढो व्रतिनां दण्डे मासे मलयपर्वते ॥
1.13.5 · p. 46
वारूढः शम्बलेऽपि स्याद्वस्त्राञ्चलकपाटयोः ॥ ५ ॥
1.13.5 · p. 47
पञ्जरे पावके वाथ प्ररूढो ज[ठ]रे स्मृतः ।बद्धमूले विरूढस्तु सञ्जातेऽङ्कुरितेऽन्यवत् ॥ ६ ॥
1.13.6 · p. 47
अनुष्टुप्
समूढः पुञ्जिते भुग्ने सद्योजातेऽनुपप्लुते ।उदूढ ऊढे स्थूले स्यादुपोढो निकटोढयोः ॥ ७ ॥
1.13.7 · p. 47
अनुष्टुप्
निगूढो गर्हिते गुप्ते प्रमीढो मूत्रिते घने ।सरूढोऽङ्कुरिते प्रौढे प्रगाढो दृढपृच्छयोः ॥ ८ ॥
1.13.8 · p. 47
अनुष्टुप्