कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · हान्तवर्गः

इति सान्तवर्गः ॥

सहो बले सहा मुद्गपर्ण्याञ्च नखभेषजे ।सहा देवीकुमार्योश्च सहः कान्ते सहा भुवि ॥ १ ॥
1.32.1 · p. 179
अनुष्टुप्
ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे ।सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ॥ २ ॥
1.32.2 · p. 179
अनुष्टुप्
वहः स्याद्वृषभस्कन्धदेशे गन्धवहेऽपि च ।बर्हं दले केकिपिच्छे गृहा पत्न्यां गृहे स्मृताः ॥ ३ ॥
1.32.3 · p. 179
अनुष्टुप्
ग्राहो ग्रहेऽवहारे च नासे बन्धनकूटयोः ।स्नेहस्तैलादिकरसद्रव्ये स्यात् सौहृदेऽपि च ॥ ४ ॥
1.32.4 · p. 179
अनुष्टुप्
प्रोहो निपुणतर्के स्यात् प्रोहो हस्त्यण्घ्रिपर्वणोः ।मोहमिच्छन्ति मूर्च्छायामविद्यायाञ्च सूरयः ॥ ५ ॥
1.32.5 · p. 179
अनुष्टुप्
लोहस्तु शस्त्रकं लोहं जोङ्गके सर्वतैजसे ।व्यूहः स्याद्बलविन्यासे निर्माणे वृन्दतर्कयोः ॥ ६ ॥
1.32.6 · p. 180
अनुष्टुप्
सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः ।सिंही क्षुद्राबृहत्योः स्याद्वासके राहुमातरि ॥ ७ ॥
1.32.7 · p. 180
अनुष्टुप्
बहुः स्याद्विपुले त्र्यादि सङ्ख्यासु त्वभिधेयवत् ।अहिर्वृत्रासुरे सर्पेऽपीहा तूद्यमवाञ्छयोः ॥ ८ ॥
1.32.8 · p. 180
अनुष्टुप्
गुहा तु गह्वरे सिंहपुच्छ्यां स्कन्दे गुहो मतः ।वाहो भुजायां वाहस्तु मानभेदे वृषे हये ॥ ९ ॥
1.32.9 · p. 180
अनुष्टुप्
मही भूमौ मही नद्यां मह उत्सवतेजसोः ।कुहूः स्यात् कोकिलारावनष्टेन्दुकरदर्शयोः ॥ १० ॥
1.32.10 · p. 180
अनुष्टुप्
पटहस्तु समारम्भ आनकं पटहं मतम् ।कलहः खड्गकोशे स्याद्भण्डने युद्धराढयोः ॥ ११ ॥
1.32.11 · p. 180
अनुष्टुप्
प्रग्राहस्तु तुलासूत्रे बन्द्यां नियमने भुजे ।हयादिरश्मौ रश्मौ च सुवर्णहलिपादपे ॥ १२ ॥
1.32.12 · p. 180
अनुष्टुप्
निग्रहो भर्त्सने प्रोक्तो मर्यादायाञ्च बन्धके ।विग्रहः समरे काये विस्तारप्रविभागयोः ॥ १३ ॥
1.32.13 · p. 180
अनुष्टुप्
सङ्ग्राहो बृहदुत्तुङ्गे मुष्टिसंक्षेपयोरपि ।आग्रहोऽनुग्रहाशक्त्योराक्रमे ग्रहणेऽपि च ॥ १४ ॥
1.32.14 · p. 180
अनुष्टुप्
नवाहः स्यान्नवदिने नवाहः प्रतिपत्तिथौ ।प्रवाहो व्यवहारे स्यादपि स्रोतसि वारिणः ॥ १५ ॥
1.32.15 · p. 180
अनुष्टुप्
कटाहो घृततैलादिपाकपात्रे च खर्परे ।कटाहः कूर्मपृष्ठे च स्तूपे च महिषीशिशौ ॥ १६ ॥
1.32.16 · p. 180
अनुष्टुप्
उत्साहस्तूद्यमे सूत्रेऽप्यारोहे दैर्घ्यमानयोः ।आरोहणे नितम्बे च समुच्छ्रयनिषादिनोः ॥ १७ ॥
1.32.17 · p. 180
अनुष्टुप्
निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके ।विदेहो देहशून्ये स्याद्विदेहो मिथिले स्मृतः ॥ १८ ॥
1.32.18 · p. 181
अनुष्टुप्
निरूहो वस्तिभेदे स्यात् तर्कनिश्चितयोरपि ।दात्यूहः कालकण्ठे स्याद्दात्यूश्चातकेऽपि च ॥ १९ ॥
1.32.19 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अत्यूहा नीलिकायां स्यादत्यूहश्चित्रमेखले ।सुवहा सल्लकीगोधापदीशेफालिकासु च ॥ २० ॥
1.32.20 · p. 181
अनुष्टुप्
एलापर्ण्याञ्च सुवहा वल्लकीरास्नयोरपि ।सम्यग्वाहे तु सुवहो वाच्यवत् समुदाहृतः ॥ २१ ॥
1.32.21 · p. 181
अनुष्टुप्
वैदेही रोचनासीतावणिक्स्त्रीपिप्यलीष्वपि ।वाराही मातृभेदे स्याद् गृष्टिनामौषधेऽपि च ॥ २२ ॥
1.32.22 · p. 181
अनुष्टुप्
अवग्रहा इति ख्यातो दृष्टिरोमे गजालिके ।स्वतन्त्रतानिषेधेऽपि प्रतिबन्धेऽप्यवग्रहः ॥ २३ ॥
1.32.23 · p. 181
अनुष्टुप्
प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे ।द्विजेभ्यो विधिवद्देये तद्ग्रहे च ग्रहान्तरे ॥ २४ ॥
1.32.24 · p. 181
अनुष्टुप्
परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः ।शापेऽप्युपग्रहो वन्द्यामुपयोगेऽनुकूलने ॥ २५ ॥
1.32.25 · p. 181
अनुष्टुप्
अभिग्रहोऽभियोगेऽभिग्रहणे गौरवेऽपि च ।परिवर्हन्तु राजार्हवस्तुन्यऽपि परिच्छदे ॥ २६ ॥
1.32.26 · p. 181
अनुष्टुप्
पितामहो विरिञ्चौ स्यात्तातस्य जनकेऽपि च ।तमोऽपहः सहस्रांशुमृगाङ्कजिनवह्निषु ॥ २७ ॥
1.32.27 · p. 181
अनुष्टुप्
उपनाहो व्रणालेपपिण्डे वीणानिबन्धने ।परीवाहो जलोच्छ्वासे महीभृद्भोग्यवस्तुनि ॥ २८ ॥
1.32.28 · p. 181
अनुष्टुप्
तनूरुहं गरुल्लोम्नोर्वरारोहाकटावपि ।वरारोहस्तु कथितो हस्त्यारोहावरोहयोः ॥ २९ ॥
1.32.29 · p. 182
अनुष्टुप्
अवरोहोऽवतरणे तरोरङ्गे लतोद्गमे ।अश्वारोहाऽश्वगन्द्यायामश्वारोहोऽश्ववारके ॥ ३० ॥
1.32.30 · p. 182
अनुष्टुप्
महासहा माषपर्ण्यामम्लानकुसुमेऽपि च ।गन्यवहा तु नासायां वायौ गन्धवहो मतः ॥ ३१ ॥
1.32.31 · p. 182
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 व (wrong syllable)
भवेदेकसहाभिख्या सूते दण्डोत्पलौषधौ ।
1.32.32 · p. 182
अनुष्टुप्
प्रपितामह इत्येष विधौ पितृपितामहे ॥ ३२ ॥
1.32.32 · p. 182
अनुष्टुप्