All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · यान्तवर्गः (1/2)
इति मान्तवर्गः
यः सर्वनामानिलयोर्ज्या मौर्वीमातृभूमिषु ।द्युरग्नौ दिवसेऽपि स्याद् द्यौः स्वर्गसुरवर्त्मनोः ॥ १ ॥
1.25.1 · p. 114
अनुष्टुप्
जयो जयन्तौ विजये जया दुर्गाग्निमन्थयोः ।जयन्ती तिथिभेदोमासखीपथ्यासु च स्मृता ॥ २ ॥
1.25.2 · p. 115
अनुष्टुप्
चयः समूहे प्राकारे मूलबन्धे समाहृतौ ।नयो नीतौ द्यूतभेदे शयः शय्याहिपाणिषु ॥ ३ ॥
1.25.3 · p. 115
अनुष्टुप्
भयं प्रतिभये घोरे प्रसूने कुब्जकस्य च ।मयः शिल्पिनि दैत्यानां करभेऽश्वतरेऽपि च ॥ ४ ॥
1.25.4 · p. 115
अनुष्टुप्
लयो विनाशे संश्लेषे साम्ये तौर्य्यत्रिकस्य च ।स्मयो गर्वेऽद्भुते गेयो गातव्ये गायनेऽपि च ॥ ५ ॥
1.25.5 · p. 115
अनुष्टुप्
क्षयो रोगान्तरे वेश्मकल्पान्तापचयेष्वपि ।प्रियो धवे सौहृद्ये च वृद्धिनामौषधेऽपि च ॥ ६ ॥
1.25.6 · p. 115
अनुष्टुप्
कायः कदैवते मूर्त्तौ सङ्घे लक्ष्यस्वभावयोः ।कायो मनुष्यतीर्थेऽपि सायः काण्डापराह्णयोः ॥ ७ ॥
1.25.7 · p. 115
अनुष्टुप्
दायो दाने यौतकादिघने सोल्लुण्ठभाषणे ।विभक्तपितृद्रव्यञ्च दायमाहुर्मनीषिणः ॥ ८ ॥
1.25.8 · p. 115
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 तृ (wrong syllable)
प्रायश्चाऽनशने मृत्यौ तुल्यबाहुल्ययोरपि ।पेयं पातव्यपयसोः पेया श्राणोत्थमण्डयोः ॥ ९ ॥
1.25.9 · p. 115
अनुष्टुप्
स्थेयो विवादस्य पदनिर्णेतरि पुरोहिते ।पीयुः काले रवौ घूके ययुः क्रतुहये हये ॥ १० ॥
1.25.10 · p. 115
अनुष्टुप्
मयुस्तुरङ्गवदने मृगेऽपि मयुरुच्यते ।मन्युः क्रोधे क्रतौ दैन्ये मृत्युर्मरणदेवयोः ॥ ११ ॥
1.25.11 · p. 115
अनुष्टुप्
दस्युः स्तेने च शत्रौ च जन्युः प्राण्यग्निधातृषु ।वन्यं वनभवे वन्या वनवारिसमूहयोः ॥ १२ ॥
1.25.12 · p. 115
अनुष्टुप्
जन्यं हट्टे परीवादे संयुजे जनके पुनः ।जन्यः स्याच्छयनीये च जन्या मातृसखीमुदोः ॥ १३ ॥
1.25.13 · p. 115
अनुष्टुप्
जन्यो वरधूज्ञातिप्रियभृत्यहितेऽपि च ।शून्याख्या निर्ज्जने नल्यामन्यो भिन्नासमानयोः ॥ १४ ॥
1.25.14 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ज (syllables merged)
पश्यं पानीयकेऽलिन्दे पूज्यः श्वसुरवन्द्ययोः ।हार्यो बिभीतकतरौ हर्तव्ये हार्य्यमन्यवत् ॥ १५ ॥
1.25.15 · p. 116
अनुष्टुप्
वीर्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि ।आर्यः साधौ सौविदल्लेऽप्यार्योमावृत्तभेदयोः ॥ १६ ॥
1.25.16 · p. 116
अनुष्टुप्
अर्यः स्वामिनि वैश्ये च कार्य हेतौ प्रयोजने ।सूर्यः सूरे तत्प्रियायां सूर्या स्यादोषधावपि ॥ १७ ॥
1.25.17 · p. 116
अनुष्टुप्
शौर्य्यं चारभटीशक्त्योर्वर्यः स्मरवरेण्ययोः ।गुह्यं रहस्युपस्थे च गुह्यः कमठदम्भयोः ॥ १८ ॥
1.25.18 · p. 116
अनुष्टुप्
सह्यः शैलान्तरारोग्यसोढव्येषु प्रचक्ष्यते ।गुह्यं पुरीषमार्गेऽपि भवेदस्वैरपक्षयोः ॥ १९ ॥
1.25.19 · p. 116
अनुष्टुप्
गृह्या च शाखानगरे गृह्यश्छेकेऽप्युदीरितः ।योग्यः प्रवीणे योग्यार्होपायशक्तेषु चान्यवत् ॥ २० ॥
1.25.20 · p. 116
अनुष्टुप्
योग्यमुद्व्याख्यभैषज्ये योग्याभ्यासार्कयोषितोः ।भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्मणि ॥ २१ ॥
1.25.21 · p. 116
अनुष्टुप्
पाठ्यं पिण्डाख्यलवणे यवक्षारेऽपि दृश्यते ।पथ्यं हिते हरीतक्यां पथ्यापथ्योरथोद्वहे ॥ २२ ॥
1.25.22 · p. 116
अनुष्टुप्
रथ्या रथौघे विशिखा वर्त्तनीचत्वरेषु च ।अर्थ्यं शिलाजतुन्यर्थे बुधे न्याय्ये तु वाच्यवत् ॥ २३ ॥
1.25.23 · p. 116
अनुष्टुप्
ग्राम्यो जनेऽन्यवद्ग्राम्यमश्लीलरथबन्धयोः ।सौम्यो बुधे मनोज्ञे स्यादनुग्रे सोमदैवते ॥ २४ ॥
1.25.24 · p. 116
अनुष्टुप्
इल्वलासु च सौम्याः स्युर्नीचे बोध्ये च वाच्यवत् ।रम्यं मनोरमे रम्या रात्रौ रम्यश्च चम्पके ॥ २५ ॥
1.25.25 · p. 116
अनुष्टुप्
सङ्ख्यं समिति सङ्ख्या स्यादेकत्वादिविचारयोः ।मध्यं न्याय्येऽवकाशे चावलग्ने लग्नकेऽधमे ॥ २६ ॥
1.25.26 · p. 117
अनुष्टुप्
मेध्यं शुचौ मेदुरे च वाच्यवन्मेध्यमाश्रमे ।साध्याऽभिख्या साधनीये योगे गणदैवतयोः ॥ २७ ॥
1.25.27 · p. 117
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 सा (syllables merged)
वन्ध्योऽफलद्रुमे वन्ध्या त्वप्रजातस्त्रियामपि ।हृद्यं धवलजीरे च हृत्प्रिये हृद्भवेऽपि च ॥ २८ ॥
1.25.28 · p. 117
अनुष्टुप्
वशकृद्वेदमन्त्रे च हृद्यं वृद्धाख्यभेषजे ।चोद्यं स्यादद्भुते प्रश्ने चोदनार्हे तु वाच्यवत् ॥ २९ ॥
1.25.29 · p. 117
अनुष्टुप्
पद्यं श्लोके सृतौ पद्या पद्युः शूद्रे निगद्यते ।पुण्यं मनोज्ञेऽभिहितं तया सुकृतधर्मयोः ॥ ३० ॥
1.25.30 · p. 117
अनुष्टुप्
धिष्ण्यं पद्मनि नक्षत्रे स्थाने शक्तौ च पावके ।धान्यं व्रीहिसुधान्याके धन्यो धनवति स्मृतः ॥ ३१ ॥
1.25.31 · p. 117
अनुष्टुप्
धन्या धात्र्यामलक्योश्च कुड्यं भित्तौ विलेपने ।काव्यं ग्रन्थे गृहे काव्यः काव्या स्यात् पूतनाधियोः ॥ ३२ ॥
1.25.32 · p. 117
अनुष्टुप्
चव्यन्तु चविके चव्या शतपर्वोग्रगन्धयोः ।गव्यञ्च गोहिते गव्यं तथा क्षीरादिकं गवाम् ॥ ३३ ॥
1.25.33 · p. 117
अनुष्टुप्
रागद्रव्ये च गव्या तु गोकुले कथिता बुधैः ।द्रव्यं स्याद्द्रविणे भव्ये पृथिव्यादै च पित्तले ॥ ३४ ॥
1.25.34 · p. 117
अनुष्टुप्
भेषजे च निवेद्ये च जतुद्रुमविकारयोः ।भव्यं सत्ये शुभे चाऽथ भेद्यवद्योग्यभाविनोः ॥ ३५ ॥
1.25.35 · p. 117
अनुष्टुप्
कर्मरङ्गतरौ भव्यो भव्या करिकणोमयोः ।दिव्यं लवङ्गके दिव्यं वल्गौ दिविभवेऽन्यवत् ॥ ३६ ॥
1.25.36 · p. 117
अनुष्टुप्
आमलक्यां स्मृता दिव्या सव्यं वामप्रतीकयोः ।सेव्यं प्रोक्तमुशीरे च सेवार्हे पुनरन्यवत ॥ ३७ ॥
1.25.37 · p. 117
अनुष्टुप्
गोप्यो दासीसुते गोप्यो रक्षणीयेऽभिधेयवत् ।रूप्यं स्यादाहते स्वर्णरजते रजतेऽपि च ॥ ३८ ॥
1.25.38 · p. 117
अनुष्टुप्
रूप्यं प्रशस्तरूपे तु वाच्यवत् समुदीरितम् ।इभ्य आव्ये करेण्वान्तु भवेदिभ्या तु शल्लकौ ॥ ३९ ॥
1.25.39 · p. 118
अनुष्टुप्
लभ्यं युक्ते च लब्धव्ये चार्ध्यमर्घार्थयोग्ययोः ।चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि ॥ ४० ॥
1.25.40 · p. 118
अनुष्टुप्
चैत्यमायतने बुद्धबिम्बे चोद्देशपादपे ।दैत्योऽसुरे सुरायान्तु दैत्या चण्डौषधावपि ॥ ४१ ॥
1.25.41 · p. 118
अनुष्टुप्
भृत्यो दासे भृतौ भृत्या दन्त्यो दन्तभवेऽधमे ।सत्यञ्च शपथे तथ्ये कृते तद्वति वाच्यवत् ॥ ४२ ॥
1.25.42 · p. 118
अनुष्टुप्
तपोलोकात् परे सत्यो नित्यन्तु सतते ध्रुवे ।मूल्यन्तु वेतने वस्त्रे माल्यं मालाप्रसूनयोः ॥ ४३ ॥
1.25.43 · p. 118
अनुष्टुप्
बल्यं प्रषाने धातौ स्याद् बल्यं बलकरेऽपि च ।कल्पं सज्जे प्रभाते च कल्पो नीरोगदक्षयोः ॥ ४४ ॥
1.25.44 · p. 118
अनुष्टुप्
कल्या कल्याणवाचि स्यात् कादम्बर्य्यामपि स्मृता ।शल्यं शङ्कौ शरे वंशकम्बिकायाञ्च तोमरे ॥ ४५ ॥
1.25.45 · p. 118
अनुष्टुप्
शल्यस्तु कथितः श्वाविन्मदनद्रुमयोरपि ।कुल्यः कुलोद्भवेऽमात्ये कुलस्यातिहितेऽपि च ॥ ४६ ॥
1.25.46 · p. 118
अनुष्टुप्
कुल्यं स्यात् कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च ।पयः प्रणालीसरितोः कुल्याजीवन्तिकौषषौ ॥ ४७ ॥
1.25.47 · p. 118
अनुष्टुप्
वेश्यं वेश्यागृहे वेश्या गणिकायामुदीरिता ।आस्यं वक्त्रे वक्त्रमध्ये स्थितावास्या च विश्रुता ॥ ४८ ॥
1.25.48 · p. 118
अनुष्टुप्
लास्यं तौर्यत्रिके नाट्ये शस्ये शस्ते फले गुणे ।कश्यं मध्ये तुरङ्गाणां कश्यं मध्यकशार्हयोः ॥ ४९ ॥
1.25.49 · p. 118
अनुष्टुप्
कांस्यन्तु तैजसद्रव्ये वाद्यभित्पानपात्रयोः ।मत्स्यो मीनान्तरे मीने विराटाभिख्ययादवे ॥ ५० ॥
1.25.50 · p. 118
अनुष्टुप्
तिष्यः पुष्ये कलौ धात्र्यां तिष्या पुष्यवदिष्यते ।दूष्यन्तु दूषणीये स्याद् दूष्यं वस्त्रे च तद्ग्रहे ॥ ५१ ॥
1.25.51 · p. 119
अनुष्टुप्
वीक्ष्यन्तु विस्मये दृश्ये वीक्ष्यो लासकवाजिनोः ।तार्क्ष्यः स्यादश्वकर्णाख्यवृक्षे रथतुरङ्गयोः ॥ ५२ ॥
1.25.52 · p. 119
अनुष्टुप्
तार्क्ष्यं रसाञ्जने तार्क्ष्यो गरुडे गरुडाग्रजे ।लक्ष्यं शरव्ये सङ्ख्यायां लक्ष्यं छद्मनि सम्मतम् ॥ ५३ ॥
1.25.53 · p. 119
अनुष्टुप्
याम्याऽवाच्यां भरण्याञ्च याम्योऽगस्त्ये च चन्दने ।इज्या दानेऽध्वरेऽर्च्चायां सङ्गे चेज्यो गुरौ मतः ॥ ५४ ॥
1.25.54 · p. 119
अनुष्टुप्
व्रज्या पर्यटने प्रोक्ता वर्गप्रस्थानयोरपि ।शय्या तल्पे शब्दतल्पे स्यान्माया शाम्बरीधियोः ॥ ५५ ॥
1.25.55 · p. 119
अनुष्टुप्
कन्या कुमारिकानार्योरोषधीराशिभेदयोः ।कक्ष्या बृहन्तिकायां स्यात् कक्ष्या मध्येभबन्धने ॥ ५६ ॥
1.25.56 · p. 119
अनुष्टुप्
हर्म्यादीनां प्रकोष्ठे च कृत्यं विद्विष्टकार्ययोः ।कृत्याऽपि देवताभेदे कृत्या स्तव्यादिषु स्मृता ॥ ५७ ॥
1.25.57 · p. 119
अनुष्टुप्
विन्ध्या तु शैलवल्याञ्च विन्ध्यो रुक्शैलभेदयोः ।सन्ध्या नदीकालभिदोश्चिन्तामर्यादयोरपि ॥ ५८ ॥
1.25.58 · p. 119
अनुष्टुप्
प्रतिज्ञायाञ्च सन्धाने सन्ध्या तु कुसुमान्तरे ।छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः ॥ ५९ ॥
1.25.59 · p. 119
अनुष्टुप्
पालनोत्कोचयोः कान्तिसच्छोभापङ्क्तिषु स्मृता ।क्रिया कर्मणि चेष्टायां करणे सम्प्रधारणे ॥ ६० ॥
1.25.60 · p. 119
अनुष्टुप्
आरम्भोपायशिक्षार्यचिकित्सानिष्कृतिष्वपि ।माया दम्भे कृपायाञ्च मायः पीताम्बरेऽम्बरे ।त्रयी त्रिवेद्यां त्रितये पुरन्ध्र्यां सुमतावपि ॥ ६१ ॥
1.25.61 · p. 119
अनुष्टुप्
विजयस्तु जये पार्थे गौर्यान्तु विजया तिथौ ।विनयं प्रणतौ प्राहुः शिक्षायां विनया मता ॥ ६२ ॥
1.25.62 · p. 119
अनुष्टुप्
विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च ।गोचरे च प्रबन्धाद्ये यस्य ज्ञातस्तु तत्र च ॥ ६३ ॥
1.25.63 · p. 120
अनुष्टुप्
अनयो व्यसने दैवे अशुभे चापदि स्मृतः ।सन्नयः समवायेऽपि पृष्ठस्थायिबलेऽपि च ॥ ६४ ॥
1.25.64 · p. 120
अनुष्टुप्
प्रणयः प्रेम्णि विश्रम्भे याच्ञाप्रसरयोरपि ।वलयः कण्ठरोगे स्याद्वलयं कङ्कणेऽपि च ॥ ६५ ॥
1.25.65 · p. 120
अनुष्टुप्
मलयो देश आरामे शैलांशे पर्वतान्तरे ।मलया त्रिवृतायां स्याद्विस्मयोऽद्भुतगर्वयोः ॥ ६६ ॥
1.25.66 · p. 120
अनुष्टुप्
प्रलयो मृत्युकल्पान्तमूर्च्छार्थेषु प्रयुज्यते ।अभयं स्यादुशीरे च पथ्यायामभयं स्त्रियाम् ॥ ६७ ॥
1.25.67 · p. 120
अनुष्टुप्
निर्भये वाच्यवत् प्रोक्तं हृदयं मानसोरसोः ।सृक्कायामुदयः पूर्वपर्वते चोन्नतावपि ॥ ६८ ॥
1.25.68 · p. 120
अनुष्टुप्
प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु ।प्रथितत्वे सनादौ चाऽप्यधीनज्ञानयोरपि ॥ ६९ ॥
1.25.69 · p. 120
अनुष्टुप्
अतिक्रमे च दण्डे च विनाशे दोषकृच्छ्रयोः ।आशयः स्यादभिप्राये मानसाधारयोरपि ॥ ७० ॥
1.25.70 · p. 120
अनुष्टुप्
निकायो निलये लक्ष्ये संहतानां समुच्चये ।एकार्थभाजि निवहे परमात्मनि चेष्यते ॥ ७१ ॥
1.25.71 · p. 120
अनुष्टुप्
क्षेत्रियं क्षेत्रजतृणे परदाररतेऽपि च ।अन्यदेहचिकित्स्ये चाऽसाध्यरोगे च जानते ॥ ७२ ॥
1.25.72 · p. 120
अनुष्टुप्
कषायो रसभेदे स्यादङ्गरागे विलेपने ।निर्यासेऽपि कषायोऽथ सुरभौ लोहितेश्ववत् ॥ ७३ ॥
1.25.73 · p. 120
अनुष्टुप्
कुलायः पक्षिनिलयस्थानयोर्नीडवन्मतः ।उपायः सामभेदादादुपायः स्यादुपागतौ ॥ ७४ ॥
1.25.74 · p. 120
अनुष्टुप्
पर्यायस्तु प्रकारे स्यान्निर्माणेऽवसरे क्रमे ।संस्त्यायः सन्निवेशे च संस्थाने विश्रुतावपि ॥ ७५ ॥
1.25.75 · p. 121
अनुष्टुप्
व्यवायः सुरतेऽन्तर्द्धौ व्यवायं तेजसि स्मृतम् ।शोलयं शतपुष्पायामाहुः शाल्युद्भवोचिते ॥ ७६ ॥
1.25.76 · p. 121
अनुष्टुप्
शैलेयं सिन्धुलवणे तालपर्ण्याञ्च सिन्धुजे ।चञ्चरीके तु शैलेयी गाङ्गेयो जाह्नवीसुते ॥ ७७ ॥
1.25.77 · p. 121
अनुष्टुप्
कशेरुस्वर्णमुस्तेषु गाङ्गेयमिति कथ्यते ।चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेशरे ॥ ७८ ॥
1.25.78 · p. 121
अनुष्टुप्
कालेयो दैत्यभेदे स्यात् कालेयं कालखण्डके ।बालेयोऽङ्गारवल्लर्य्यां स्वरे बालहिते मृदौ ॥ ७९ ॥
1.25.79 · p. 121
अनुष्टुप्
आत्रेयो मुनिभेदे स्यादात्रेयी सरिदन्तरे ।आत्रेयी पुष्पवत्याञ्च पानीयं पेयवारिणोः ॥ ८० ॥
1.25.80 · p. 121
अनुष्टुप्
ऐणेयमेणचर्मादौ रतबन्धान्तरे स्त्रियाः ।अश्वीयमश्वसङ्घातेऽश्वीयमश्वहितेऽन्यवत् ॥ ८१ ॥
1.25.81 · p. 121
अनुष्टुप्
इन्द्रियञ्च हृषीके स्यादिन्द्रियं रेतसि स्मृतम् ।जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत् ॥ ८२ ॥
1.25.82 · p. 121
अनुष्टुप्
वदान्यो दानशौण्डे स्याद्वदान्यश्चारुभाषिणि ।पर्जन्यो मेघशब्दे स्याद्धनदम्बुदशक्रयोः ॥ ८३ ॥
1.25.83 · p. 121
अनुष्टुप्
ब्रह्मण्यो ब्रह्मसाधौ स्याद्ब्रह्मण्यश्च शनैश्चरे ।ब्राह्मण्यं ब्राह्मणत्वे स्यात् समूहेऽपि द्विजन्मनाम् ॥ ८४ ॥
1.25.84 · p. 121
अनुष्टुप्
शीर्षण्यमाहुर्विशदकेशशीर्षकयोरपि ।हिरण्यमक्षयद्रव्ये वराटे स्वर्णरेतसोः ॥ ८५ ॥
1.25.85 · p. 121
अनुष्टुप्
सौकर्य्यं स्यादनायासे क्रियायां सूकरस्य च ।श्वशुर्य्यौ देवरे श्यालेऽप्यहार्य्यः स्थिरशैलयोः ॥ ८६ ॥
1.25.86 · p. 121
अनुष्टुप्
प्रकीर्य्यः पूतिकरजे विनिकीर्णे तु वाच्यवत् ।सौरभ्यमाहुः सौगन्ध्ये चारुत्वे गुणगौरवे ॥ ८७ ॥
1.25.87 · p. 121
अनुष्टुप्
नेपथ्यं रङ्गभूमौ स्यान्नेपथ्यञ्च प्रसाधने ।आतिथ्यमातिथेये स्यादातिथ्यश्चातिथावपि ॥ ८८ ॥
1.25.88 · p. 122
अनुष्टुप्
सामर्थ्यं योग्यताशक्त्योरपत्यं पुत्रयोर्मतम् ।कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ ८९ ॥
1.25.89 · p. 122
अनुष्टुप्
लौहित्यः सागरे व्रीहावादित्यस्त्रिदशे रवौ ।पौलस्त्यो रावणे श्रीदेऽप्यौचित्यं सत्ययोग्ययोः ॥ ९० ॥
1.25.90 · p. 122
अनुष्टुप्
प्रसव्यमनुकूले स्यात् प्रतिकूले च वाच्यवत् ।अवध्यमवधारर्ये स्यादनर्थकवचस्यपि ॥ ९१ ॥
1.25.91 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रणाय्योऽसम्मते प्रोक्तोऽप्यभिलाषविवर्ज्जिते ।शाण्डिल्यो मुनिभेदे स्यान्मालूरे पावकान्तरे ॥ ९२ ॥
1.25.92 · p. 122
अनुष्टुप्
मङ्गल्यस्त्रायमाणे स्याद्बिल्वेऽश्वत्थे मसूरके ।मङ्गल्यं दध्नि मङ्गल्यो मनोज्ञे त्वभिधेयवद् ॥ ९३ ॥
1.25.93 · p. 122
अनुष्टुप्
मङ्गल्या रोचनायाञ्च प्रियङ्गुशतपुष्पयोः ।अधः पुष्पीशङ्खपुष्पीशमीशुक्लवचासु च ॥ ९४ ॥
1.25.94 · p. 122
अनुष्टुप्
अधृष्यस्तु प्रगल्भे स्यादधृष्या निम्नगाभिदि ।पारुष्यं परुषत्वे स्याद्वने शक्रस्य गीष्पतौ ॥ ९५ ॥
1.25.95 · p. 122
अनुष्टुप्
पारुष्योऽथ भुजिष्यः स्यात् सहाये हस्तसूत्रके ।स्वतन्त्रे च भुजिष्या तु दासीगणिकयोर्मता ॥ ९६ ॥
1.25.96 · p. 122
अनुष्टुप्
चक्षुष्यः केतके पुण्डरीकवृक्षे रसाञ्जने ।कुलत्थिकासुभगयोश्चक्षुष्योऽक्षिहितेऽन्यवत ॥ ९७ ॥
1.25.97 · p. 122
अनुष्टुप्
जटायुर्गुग्गुलुतरौ जटायुर्विहगान्तरे ।ऊर्णायुः क्षणभङ्गे स्यान्मेषकम्बलमेषयोः ॥ ९८ ॥
1.25.98 · p. 122
अनुष्टुप्
भुवन्युर्ज्वलने भानौ भुवन्युः शशलाञ्छने ।शरण्युर्वारिदे वाते क्षिपन्युः सुरभौ तनौ ॥ १०० ॥
1.25.100 · p. 123
अनुष्टुप्
तपस्या व्रतचर्यायां तपस्यो मासि फाल्गुने ।रहस्या निम्नगाभेदे गोपनीये तु वाच्यवत् ॥ १०१ ॥
1.25.101 · p. 123
अनुष्टुप्
पयस्या क्षीरकाकोल्यां पयोहितभवेऽन्यवत् ।पयस्या दुग्धिकायाञ्च स्वर्णक्षीर्याञ्च कथ्यते ॥ १०२ ॥
1.25.102 · p. 123
अनुष्टुप्
स्यादहल्याऽप्सरोभेदे गौतमस्य च योषिति ।विशल्या लाङ्गलीदन्तीगुदूचीत्रिपुटासु च ॥ १०३ ॥
1.25.103 · p. 123
अनुष्टुप्
अभिख्या कीर्त्तियशसोरभिख्यानामशोभयोः ।द्वितीया तिथिभित्पत्न्योः पूरण्यामपि च द्वयोः ॥ १०४ ॥
1.25.104 · p. 123
अनुष्टुप्
नादेयी नागरङ्गे स्याज्जयायां जलवेतसे ।भूमिजम्ब्वां जवायां च काङ्गुष्ठे च समीक्ष्यते ॥ १०५ ॥
1.25.105 · p. 123
अनुष्टुप्
भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः ।स्मृतः समुदयो वृन्दे संयुगे समुपक्रमे ॥ १०६ ॥
1.25.106 · p. 123
अनुष्टुप्
प्रतिश्रयः सभायां स्यादाश्रयेऽपि प्रतिश्रयः ।समुच्छ्रयः समुत्सेधे विरोधेऽपि समुच्छ्रयः ॥ १०७ ॥
1.25.107 · p. 123
अनुष्टुप्
हिरण्मयो लोकधातौ स्यात सुवर्णमयेऽन्यवत् ।अवश्यायो हिमे गर्वे समुदायो गणे युधि ॥ १०८ ॥
1.25.108 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परिधायो जलस्थाने परिच्छदनितम्बयोः ।सम्परायः समीके स्यादापदुत्तरकालयोः ॥ १०९ ॥
1.25.109 · p. 123
अनुष्टुप्
निरामयोऽन्यवत् कल्ये स्यादिडिक्के निरामयः ।समाह्वयः स्यात् सङ्ग्रामे द्यूते च पशुपक्षिभिः ॥ ११० ॥
1.25.110 · p. 123
अनुष्टुप्
महालयो विहारे स्यात्तीर्थे च परमात्मनि ।रौहिणेयो भवेद्वत्से रेवतीरमणे बुधे ॥ १११ ॥
1.25.111 · p. 123
अनुष्टुप्
पौरुषेयो विकारे स्यात् पुरुषस्य पदान्तरे ।पुंसः समूहवधयोः पुरुषेण कृतेऽपि च ॥ ११२ ॥
1.25.112 · p. 124
अनुष्टुप्
भागधेयं स्मृतं भाग्ये भागप्रत्यययोरपि ।बिलेशयो मूषिके स्याद् भुजङ्गेऽपि बिलेशयः ॥ ११३ ॥
1.25.113 · p. 124
अनुष्टुप्
जलाशयमुशीरे च जलाधारे जलाशयः ।चन्द्रोदयो विताने स्यात्तथा चन्द्रोदयोषधौ ॥ ११४ ॥
1.25.114 · p. 124
अनुष्टुप्
फलोदयः स्यात् त्रिदिवे लाभेऽपि च फलोदयः ।महोदयः कान्यकुब्जेऽप्याधिपत्यापवर्गयोः ॥ ११५ ॥
1.25.115 · p. 124
अनुष्टुप्
स्थूलोच्चयस्त्वऽसाकल्ये गण्डोपलकरण्डयोः ।गजानां मध्यमगतौ स्थूलोच्चय उदाहृतः ॥ ११६ ॥
1.25.116 · p. 124
अनुष्टुप्
धनञ्जयोऽर्ज्जुने वह्नौ ककुभे देहमारुते ।नागान्तरे चाऽपसव्यं दक्षिणप्रतिकूलयोः ॥ ११७ ॥
1.25.117 · p. 124
अनुष्टुप्
मार्ज्जारीयः स्मृतः शूद्रे बिडाले कायशोधने ।तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ॥ ११८ ॥
1.25.118 · p. 124
अनुष्टुप्
तृणशून्यं मल्लिकायां केतक्याश्च फले मतम् ।महामूल्यं महार्घे स्यात् पद्मरागमणावपि ॥ ११९ ॥
1.25.119 · p. 124
अनुष्टुप्