All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · घान्तवर्गः
इति गान्तवर्गः ॥
घो घर्घरे च घण्टायां काञ्चिकाघातयोरपि ॥
1.4.1 · p. 28
अघं तु व्यसने प्रोक्तमघं पातकदुःखयोः ॥ १ ॥
1.4.1 · p. 29
अर्घः पूजाविधौ मूल्येऽप्यङ्गिपादद्रुमूलयोः ।ओघो वृन्दे पयोवेगे द्रुतनृत्योपदेशयोः ॥ २ ॥
1.4.2 · p. 29
अनुष्टुप्
ओघः परम्परायाञ्च मेघः स्यान्मुस्तके घने ।लघुर्मनोज्ञनिःसारागुरुषु प्रथितो लघु ॥ ३ ॥
1.4.3 · p. 29
अनुष्टुप्
कृष्णागुरुणि शीघ्रे च स्पृक्कायाञ्च स्मृता लघुः ।उद्घः स्यात्पावके हस्तपुटके देहजानिले ॥ ४ ॥
1.4.4 · p. 29
अनुष्टुप्
मोघाऽपि पाटलायां स्यान्मोघो निष्फलहीनयोः ।मघा माघी च नक्षत्रे भेषजे च यथाक्रमम् ॥ ५ ॥
1.4.5 · p. 29
अनुष्टुप्
प्रतिघः प्रतिघाते च रोषे च प्रतिघो मतः ।काचिघः काञ्चने प्रोक्तोऽन्नमण्डे मूषकेऽपि च ॥ ८ ॥
1.4.8 · p. 29
अनुष्टुप्
महार्घस्तु महामूल्ये तथा लावकपक्षिणि ।निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि ॥ ९ ॥
1.4.9 · p. 29
अनुष्टुप्
उल्लाघस्तु शुचौ हृष्टे दक्षनीरोगयोरपि ।सर्वौघो गुरुवेगार्थसर्वसंहननार्थयोः ।अमोघः सफलेऽमोघा विडङ्गाभययोः स्मृता ॥ १० ॥
1.4.10 · p. 29
अनुष्टुप्