All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · तान्तवर्गः (2/2)
कपोतः पारावते स्यात् कवकाख्यविहङ्गमे ।कापोतमञ्जनेऽपि स्यात् कपोतानाञ्च संहतौ ॥ ११७ ॥
1.15.117 · p. 66
अनुष्टुप्
व्यायतं व्यापृते दीर्घे दृढे चातिशयेऽन्यवत् ।व्याघातो योगभेदे स्यादन्वरायप्रहारयोः ॥ ११८ ॥
1.15.118 · p. 66
अनुष्टुप्
सङ्घातः संहतौ घाते सङ्घातो नरकान्तरे ।रैवतस्तु सुवर्णालौ शैलभेदेऽपि शूलिनि ॥ ११९ ॥
1.15.119 · p. 66
अनुष्टुप्
स्यात् किरातस्तु भूनिम्बे म्लेच्छे चाल्पतनावपि ।मन्दाकिन्यां किराती स्यात् कुट्टिन्यामपि दृश्यते ॥ १२० ॥
1.15.120 · p. 66
अनुष्टुप्
आस्फीतश्चार्कपर्णे स्यादास्फीतः कोविदारके ।आस्फीता गिरिकर्ण्यां स्याद्वनमल्ल्याञ्च विश्रुता ॥ १२१ ॥
1.15.121 · p. 66
अनुष्टुप्
उदात्तः स्वरभेदे स्यात् काव्यालङ्कारहृद्ययोः ।उदात्तो दातृमहतोर्निमित्तं हेतुलक्ष्मणोः ॥ १२२ ॥
1.15.122 · p. 66
अनुष्टुप्
उन्मत्त उन्मादवति धुत्तूरमुचुकुन्दयोः ।पर्वतः शैलदेवर्षौ प्रपातो निर्झरे भृगौ ॥ १२३ ॥
1.15.123 · p. 66
अनुष्टुप्
पर्याप्तन्तु यथेष्टे स्यात् तृप्तौ शक्ते निवारणे ।जीमूतः स्याद्धृतिकरे शक्रेऽद्रौ घोषके घने ॥ १२४ ॥
1.15.124 · p. 66
अनुष्टुप्
जीवातुर्जीविते भक्ते जीवातुर्जीवनौषधे ।एधतुः पुरुषे वह्नौ वाहेतुः पथिके वृषे ॥ १२५ ॥
1.15.125 · p. 66
अनुष्टुप्
विहस्तो विह्वले पण्डे पर्यस्तः पतिते हते ।आयस्तः स्तिमिते क्षिप्ते क्लेशिते कुपिते हते ॥ १२६ ॥
1.15.126 · p. 66
अनुष्टुप्
निरस्तः क्लेशितेषौ स्यान्निष्ठ्यूते त्वरितोदिते ।सन्त्यक्ते च प्रतिहते विश्वस्तो निभृते स्मृतः ॥ १२७ ॥
1.15.127 · p. 66
अनुष्टुप्
विश्वासयोगे विश्वस्तो विश्वस्ता विधवास्त्रियाम् ।निवातो दृढसन्नाहे वातान्ते चाश्रयेऽपि च ॥ १२८ ॥
1.15.128 · p. 66
अनुष्टुप्
अनन्तः शेषविष्ण्वोः स्यादनन्तः सुरवर्त्मनि ।अनन्तश्चाप्यनवधौ वाच्यवत् समुदाहृतः ॥ १२९ ॥
1.15.129 · p. 66
अनुष्टुप्
अनन्ता शारिवादूर्वाविशल्यालाङ्गलीषु च ।अनन्ता हैमवत्याञ्च गुडूच्याञ्च निरूप्यते ॥ १३० ॥
1.15.130 · p. 67
अनुष्टुप्
शकुन्तः पक्षिभेदे स्याद्भासपक्षिविहङ्गयोः ।दृष्टान्तः शास्त्र उभयोदाहरणे प्रकीर्त्तितः ॥ १३१ ॥
1.15.131 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
कृतान्तो यमसिद्धान्तदैवाकुशलकर्म्मसु ।निशान्तः कथितः शान्ते निशान्तं भवनोषसोः ॥ १३२ ॥
1.15.132 · p. 67
अनुष्टुप्
वृत्तान्तोऽवसरे भावकार्त्स्न्यवार्त्ताविशेषयोः ।वृत्तान्तः प्रक्रियायाञ्च क्वचिदेकान्तवाचकः ॥ १३३ ॥
1.15.133 · p. 67
अनुष्टुप्
उद्वान्तो निर्मदगजे समुद्गीर्णे च वाच्यवत् ।शुद्धान्तोऽन्तःपुरे राज्ञो रहःकक्षान्तरेऽपि च ॥ १३४ ॥
1.15.134 · p. 67
अनुष्टुप्
अस्वन्तमशुभे चुल्ल्यां मरणेऽनवधावपि ।क्षेत्रेऽपि कथ्यतेऽस्वन्तमुदन्तः साधुवार्त्तयोः ॥ १३५ ॥
1.15.135 · p. 67
अनुष्टुप्
जयन्तः शङ्करेऽपि स्याज्जयन्तः पाकशासनौ ।जयन्ती पादपे गौर्यामिन्द्रपुत्रीपताकयोः ॥ १३६ ॥
1.15.136 · p. 67
अनुष्टुप्
गोदन्तो हरिताले स्याद्दंशिते हरितेऽपि च ।भासन्तः सुन्दराकारे भासन्तो भासपक्षिणि ॥ १३७ ॥
1.15.137 · p. 67
अनुष्टुप्
महद्राज्ये विशाले च महती वल्लकीभिदि ।मरुद्देवे समीरे स्यादर्हन् पूज्ये जिनेऽपि च ॥ १३८ ॥
1.15.138 · p. 67
अनुष्टुप्
पित्सन्[त्] पिपतिषन्नेतौ[?] पतनेच्छुविहङ्गयोः ।हरित् ककुभि वर्णे च तृणवाजिविशेषयोः ॥ १४० ॥
1.15.140 · p. 67
अनुष्टुप्
हरितेऽपि च दूर्वायां हरिद्वर्णयुतेऽन्यवत् ।विद्युत् सौदामिनीसन्ध्योर्निष्प्रभे त्वभिधेयवत् ॥ १४१ ॥
1.15.141 · p. 67
अनुष्टुप्
गर्मुत् सुवर्णलतयो रोहित् सूर्यलताभिदोः ।भूभृन्नरेन्द्रे शैले च पतन् पातुकपक्षिणोः ॥ १४२ ॥
1.15.142 · p. 68
अनुष्टुप्
कुर्वन् कर्मकरे भृत्ये स्यादर्वन् कुक्षितेऽन्यवत् ।अर्वती कुम्भदास्याञ्च वाम्याञ्च परिकीर्त्तिता ॥ १४३ ॥
1.15.143 · p. 68
अनुष्टुप्
श्रीमांस्तिन्नकवृक्षे स्यान्मनोज्ञे धनकेऽपि च ।धीमान् वाचस्पतौ धीरे भास्वान् भास्वरसूर्ययोः ॥ १४४ ॥
1.15.144 · p. 68
अनुष्टुप्
सुव्रता पुङ्खसन्दोह्यसुरभ्यां शोभनव्रते ।वाच्यवद्विवृता क्षुद्ररोगे स्याद्विवृतं स्फुटे ॥ १४५ ॥
1.15.145 · p. 68
अनुष्टुप्
वनिता जनितात्यर्थानुरागायाञ्च योषिति ।वनितं याचितेऽपि स्याद्वनितं शोचितेऽपि च ॥ १४६ ॥
1.15.146 · p. 68
अनुष्टुप्
जामाता वल्लभे सूर्यावर्त्तेऽपि दुहितुः पतौ ।विनेता देशिके राज्ञि विधाता वेधसि स्मरे ॥ १४७ ॥
1.15.147 · p. 68
अनुष्टुप्
विनता पिटकाभेदे विनता तार्क्ष्यमातरि ।विनतः प्रणते भुग्ने शिक्षितेऽप्यभिधेयवत् ॥ १४८ ॥
1.15.148 · p. 68
अनुष्टुप्
पञ्चता पञ्चभावे स्यात् पञ्चता मरणेऽपि च ।विजाताख्या प्रसूतायां जनिते विकृतेऽपि च ॥ १४९ ॥
1.15.149 · p. 68
अनुष्टुप्
सिकता वालुकायां स्युः सिकताऽप्यामयान्तरे ।सिकतान्वितदेशे च शर्करायाञ्च कीर्त्तिता ॥ १५० ॥
1.15.150 · p. 68
अनुष्टुप्
वासिता करिणीनार्योर्वासितं सुरभीकृते ।ज्ञानमात्रे खगारावे वासितं वस्त्रवेष्टिते ॥ १५१ ॥
1.15.151 · p. 68
अनुष्टुप्
पिशिता मांसिकायां स्यादामिषे पिशितं मतम् ।तृणताऽपि तृणत्वे स्यात्तृणता कार्मुकेऽपि च ॥ १५२ ॥
1.15.152 · p. 68
अनुष्टुप्
द्विजातिरण्डजे विप्रे श्रीपतिः क्ष्मापतौ हरौ ।गोपतिः शङ्करे षण्डे पार्थिवेऽपि विकर्त्तने ॥ १५३ ॥
1.15.153 · p. 68
अनुष्टुप्
स्थपतिः शिल्पिभेदेऽपि स्थपतिः कञ्चुकिन्यपि ।जीवेष्टियाजके सूतेऽप्यमतिः कालचन्द्रयोः ॥ १५४ ॥
1.15.154 · p. 68
अनुष्टुप्
अङ्कति स्यादग्निहोत्रे ज्वलनाम्बुजयोनिषु ।रमतिर्नायके स्वर्गेऽप्यहतिस्त्यागरागयोः ॥ १५५ ॥
1.15.155 · p. 69
अनुष्टुप्
निरृतिः स्यादलक्ष्म्याञ्च दिक्पाले निरुपद्रवे ।अगस्तिर्वङ्गसेने स्यादगदस्तिः कुम्भसम्भवे ॥ १५६ ॥
1.15.156 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 दग (syllable split)
गभस्तिः किरणे सूर्ये स्वाहायाञ्च विलोक्यते ।सङ्गतिः सङ्गमे ज्ञाने सन्नतिः प्रणतौ ध्वनौ ॥ १५७ ॥
1.15.157 · p. 69
अनुष्टुप्
आयतिः सङ्गमे दैर्घ्ये प्रभावागामिकालयोः ।आपत्तिः स्याद्बले स्नेहे वशित्वे वासरेऽपि च ॥ १५८ ॥
1.15.158 · p. 69
अनुष्टुप्
मर्यादायां तथाऽऽपत्तिर्विपत्तिर्यातनापदोः ।नियतिर्नियमे दैवे पद्धतिः पङ्क्तिवर्त्मनोः ॥ १५९ ॥
1.15.159 · p. 69
अनुष्टुप्
सन्ततिः पङ्क्तिविस्तारगोत्रेषु कविभिः स्मृता ।परम्पराभवेऽपि स्यात् सन्ततिः पुत्रकन्ययोः ॥ १६० ॥
1.15.160 · p. 69
अनुष्टुप्
सम्मतिः स्यादनुज्ञानेऽप्यभिलाषेऽपि सम्मतिः ।समितिः सङ्गरे साम्ये सभायामपि सङ्गमे ॥ १६१ ॥
1.15.161 · p. 69
अनुष्टुप्
अदितिर्वसुधायां स्याददितिर्देवमातरि ।वसतिः स्यादवस्थाने यामिन्याञ्च निकेतने ॥ १६२ ॥
1.15.162 · p. 69
अनुष्टुप्
पक्षतिः पक्षमूले स्यात् पक्षतिः प्रतिपत्तिथौ ।उन्नतिस्तार्क्ष्यदारेषु समृद्धावुदयेऽपि च ॥ १६३ ॥
1.15.163 · p. 69
अनुष्टुप्
प्रसूतिस्तनयोत्पत्तौ तथा दुहितरि स्मृता ।व्रततिर्विस्तृतौ वल्ल्यां वहतिः सचिवे गवि ॥ १६४ ॥
1.15.164 · p. 69
अनुष्टुप्
दुर्गतिर्नरके नैःस्वे विकृतिर्डिम्बरोगयोः ।निकृतिर्भर्त्सने क्षेपे वदन्ति शठशाट्ययोः ॥ १६५ ॥
1.15.165 · p. 69
अनुष्टुप्
आकृतिः कथितारूपसामान्यवपुषोरपि ।प्रकृतिः सहजे योनावमात्ये परमात्मनि ॥ १६६ ॥
1.15.166 · p. 69
अनुष्टुप्
निर्वृत्तिः स्वस्थतायां स्यादस्तङ्गमनसौख्ययोः ।सुनीतिः शोभननये सुनीतिर्ध्रुवमातरि ॥ १६७ ॥
1.15.167 · p. 70
अनुष्टुप्
प्रवृत्तिः कथिता वृत्तौ प्रवाहोदन्तयोरपि ।विच्छित्तिरङ्गरागे स्याद्धावविच्छेदयोरपि ॥ १६८ ॥
1.15.168 · p. 70
अनुष्टुप्
संवित्तिः प्रतिपत्तौ स्यादविवादे जनस्य च ।आपत्तिः प्रापणे दोषे चासत्तिः सङ्घलाभयोः ॥ १६९ ॥
1.15.169 · p. 70
अनुष्टुप्
पर्याप्तिः स्यात् प्रकामेऽपि प्राप्तौ च परिरक्षणे ।समाप्तिश्चावसाने स्यात् समाप्तिश्च समर्थने ॥ १७० ॥
1.15.170 · p. 70
अनुष्टुप्
बृहती क्षुद्रवार्त्ताक्यां कण्टकार्याञ्च वाचि च ।वारिधान्यां महत्याञ्च छन्दोवसनभेदयोः ॥ १७१ ॥
1.15.171 · p. 70
अनुष्टुप्
मालती जातियुवतीज्योत्स्नासु सरिदन्तरे ।काकमाच्यां विशालायां विभावर्यामपीष्यते ॥ १७२ ॥
1.15.172 · p. 70
अनुष्टुप्
भवती बाणभेदे स्यादन्यवद्वत्सदर्थ[?]योः ।रेवती हलिपत्न्यां स्यात् ताराभेदेऽपि मातृषु ॥ १७३ ॥
1.15.173 · p. 70
अनुष्टुप्
पार्वती शल्लकीदुर्गाज्रोपदीजीविनीषु च ।स्रवन्ती च द्रवन्ती च सरिदोषधिभेदयोः ॥ १७४ ॥
1.15.174 · p. 70
अनुष्टुप्
जीवन्ती जीविनीशम्योर्गुडूचीवृन्दयोरपि ।हसन्त्यङ्गारधान्याञ्च मल्लिकाशाकिनीभिदोः ॥ १७५ ॥
1.15.175 · p. 70
अनुष्टुप्
वासन्ती माधवीयूथ्योः पाटलायां क्रमेलके ।वासन्ती कोकिलेऽपि स्याद्वासन्तोऽविहिते विटे ॥ १७६ ॥
1.15.176 · p. 70
अनुष्टुप्
भवेदवसितं ज्ञाते गतौ रुद्धावसानयोः ।अवदातं सिते पीते विशुद्धे प्रवरेऽपि च ॥ १७७ ॥
1.15.177 · p. 70
अनुष्टुप्
अवगीतन्तु निर्वादे मुहुर्दृष्टे विगर्हिते ।अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च कथ्यते ॥ १७८ ॥
1.15.178 · p. 70
अनुष्टुप्
अङ्गारितं पलाशीयकलिकोद्गमदग्धयोः ।अपावृतः स्वतन्त्रे स्यात् पिहिते चाऽप्यपावृतः ॥ १७९ ॥
1.15.179 · p. 71
अनुष्टुप्
अत्याहितं महाभीतौ जीवनोपेक्षकर्मणि ।उपाहितोऽनलोत्पात आहिते चाप्युपाहितः ॥ १८० ॥
1.15.180 · p. 71
अनुष्टुप्
उपाकृतोऽध्वरहतपशूपद्रुतयोर्मतः ।उदास्थितः प्रतीहारेऽध्यक्षे च प्रणिधौ चरे ॥ १८१ ॥
1.15.181 · p. 71
अनुष्टुप्
अभिनीतो भवेन्न्याय्ये संस्कृतामर्षिणोरपि ।अभिजातः स्मृतो न्याय्ये कुलीनप्राप्तरूपयोः ॥ १८२ ॥
1.15.182 · p. 71
अनुष्टुप्
पारिजातः सुरतरौ मन्दारे पारिभद्रके ।भवेत्परिगतं लाभे प्रयाते वेष्टितेऽपि च ॥ १८३ ॥
1.15.183 · p. 71
अनुष्टुप्
ख्यातं प्रणिहितं लब्धे विन्यस्ते च समाहिते ।भवेत् प्रतिहितोऽद्विष्टे प्रतिस्खलितरुद्धयोः ॥ १८४ ॥
1.15.184 · p. 71
अनुष्टुप्
उल्लिखितं समुत्कीर्णे वाच्यवच्च तनूकृते ।विद्यादुपचितं दिग्धे समृद्धे च समाहिते ॥ १८५ ॥
1.15.185 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 खि (wrong syllable)
समुद्धतः समुद्गीर्णेऽप्यविनीते समुद्धतः ।कुहरितं पिकालापे रटिते रतनिस्वने ॥ १८६ ॥
1.15.186 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
भवेत् पल्लवितं लाक्षारक्ते सप्रसवे तते ।उज्जृम्भितन्तु चेष्टायामुत्फुल्ले चाभिधेयवत् ॥ १८७ ॥
1.15.187 · p. 71
अनुष्टुप्
उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि ।निस्तुषितं निस्त्वचि स्याद्वर्ज्जिते च लघूकृते ॥ १८८ ॥
1.15.188 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 षि (wrong syllable)
ऐरावतोऽभ्रमातङ्गनारङ्गलिकुचाहिषु ।ऐरावतं महेन्द्रस्य ऋजुदीर्घशरासने ॥ १८९ ॥
1.15.189 · p. 71
अनुष्टुप्
ऐरावती स्यात्तडिति सरिद्भेदेऽपि लक्ष्यते ।कलधौतं रूप्यहेम्नोः कलधौतं कलध्वनौ ॥ १९० ॥
1.15.190 · p. 71
अनुष्टुप्
दिवाभीतः कुम्भिले स्यादुलूके कुमुदाकरे ॥
1.15.196 · p. 71
पाशुपतो वकपुष्पे पशुपत्यधिदैवते ॥ १९१ ॥
1.15.191 · p. 72
निष्कासितो निर्गमितेऽप्यूहिते धिक्कृतेऽपि च ।व्यतीपातो महोत्पाते योगभेदापयानयोः ॥ १९२ ॥
1.15.192 · p. 72
अनुष्टुप्
समाघातो वधे युद्धेपरिघातोऽस्त्रघातयोः ।विनिपातोऽवपाते स्याद्दैवादिव्यसनेऽपि च ॥ १९३ ॥
1.15.193 · p. 72
अनुष्टुप्
समाहितः प्रतिज्ञाते समाधिस्थे यतात्मनि ।वाच्यवन्निहिते सिद्धे समाधाने समाहितम् ॥ १९४ ॥
1.15.194 · p. 72
अनुष्टुप्
नन्द्यावर्त्तः स्मृतो वेश्मप्रभेदे तगरद्रुमे ।परिवर्त्तो विनिमये कूर्मराजे पलायने ॥ १९५ ॥
1.15.195 · p. 72
अनुष्टुप्
अभियुक्तः परै रुद्धे तथा स्यादतितत्परे ।अतिमुक्तस्तु वासन्त्यां तिनिशे निष्कलेऽपि च ॥ १९६ ॥
1.15.196 · p. 72
अनुष्टुप्
उपरक्तः सैहिकेये तद्ग्रहे व्यसनातुरे ।सूर्य्यभक्तो बन्धुजीवे तथा भास्करपूजके ॥ १९७ ॥
1.15.197 · p. 72
अनुष्टुप्
नदीकान्तः समुद्रे स्यात् सिन्दुवारेऽपि हिज्जले ।नदीकान्ता स्मृता जम्बूकाकजङ्घालतासु च ॥ १९८ ॥
1.15.198 · p. 72
अनुष्टुप्
नागदन्तो द्विपरदे गृहान्नितदारुणि ।नागदन्ती तु कुम्भायां श्रीहस्तिन्यामपीष्यते ॥ १९९ ॥
1.15.199 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुष्पदन्तस्तु दिङ्नागे नागविद्याधरान्तरे ।चन्द्रकान्तोऽश्मभेदे स्याच्चन्द्रकान्तश्च कैरवे ॥ २०० ॥
1.15.200 · p. 72
अनुष्टुप्
वैजयन्तो गृहे शक्रप्रासादध्वजयोरपि ।वैजयन्ती पताकायां जयन्ती[ ]वह्निमन्थयोः ॥ २०१ ॥
1.15.201 · p. 72
अनुष्टुप्
पुरस्कृतं स्कीकृताभिशस्तयोऽरभिधेयवत् ।अग्रे कृताभ्यर्च्चितयोः सिक्ते चापि पुरस्कृतम् ॥ २०२ ॥
1.15.202 · p. 72
अनुष्टुप्
अवध्वस्तं परित्यक्ते निन्दितेऽप्यवचूर्णिते ।धूमकेतुः स्मृतो वह्नावुत्पातग्रहभेदयोः ॥ २०३ ॥
1.15.203 · p. 72
अनुष्टुप्
चित्रगुप्तः कृतान्ते स्याल्लेखके चास्य सम्मतः ।पञ्चगुप्तस्तु चार्वाकदर्शने कमठेऽपि च ॥ २०४ ॥
1.15.204 · p. 73
अनुष्टुप्
अधिक्षिप्तः प्रणिहिते तथा निर्भर्त्सितेऽपि च ।प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते ॥ २०५ ॥
1.15.205 · p. 73
अनुष्टुप्
आयुष्मान् योगभेदे स्यादायुष्मांश्चिरजीविनि ।विवस्वान् विबुधे भानौ भगवान् बुद्धपूज्ययोः ॥ २०६ ॥
1.15.206 · p. 73
अनुष्टुप्
द्वीपवान् सिन्धुनदयोर्द्वीपवत्यापगाभुवोः ।गरुत्मान् विहगे तार्क्ष्ये सङ्ख्यावान् पण्डिते मिते ॥ २०७ ॥
1.15.207 · p. 73
अनुष्टुप्
अंशुमान् भास्करे शालपर्ण्यामंशुमती मता ।अर्थपतिः कुवेरे स्यादीश्वरेऽर्थपतिस्तथा ॥ २०८ ॥
1.15.208 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
गृहपतिर्गृहस्थे स्यादत्याधाने च सत्रिणि ।सेनापतिः कार्त्तिकेयेऽप्यनीकाधिकृतेऽपि च ॥ २०९ ॥
1.15.209 · p. 73
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
लक्ष्मीपतिर्वासुदेवे लवङ्गद्रुमपूगयोः ।प्रजापतिर्विधौ भूपे हिमारातिः खगेऽनले ॥ २१० ॥
1.15.210 · p. 73
अनुष्टुप्
वनस्पतिर्वृक्षभात्रे विना पुष्पं फलद्रुमे ।सदागतिः स्यात् पवने निर्वाणे च सदीश्वरे ॥ २११ ॥
1.15.211 · p. 73
अनुष्टुप्
दिवाकीर्त्तिस्तु चाण्डाले नापितोलूकयोरपि ।शतधृतिर्धातरीऽन्द्रे सुधासूतिर्मखे विधौ ॥ २१२ ॥
1.15.212 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 धृ (wrong syllable)
भवेदऽपचितिः पूजाक्षयहानिषु निष्कृतौ ।अनुमतिः स्यादूनेन्दुपूर्णिमाऽनुज्ञयोरपि ॥ २१३ ॥
1.15.213 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 नु (wrong syllable)
प्रतिकृतिः प्रतीकारे प्रतिमायाश्च पूजने ।निराकृतिः प्रतिक्षेपेऽप्यस्वाध्यायेऽप्यनाकृतौ ॥ २१४ ॥
1.15.214 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कृ (wrong syllable)
प्रतिपत्तिः पदप्राप्तौ प्रवृत्तौ गौरवेऽपि च ।प्रागल्भ्ये च प्रबोधे च प्रतिपत्तिः प्रयुज्यते ॥ २१५ ॥
1.15.215 · p. 73
अनुष्टुप्
उपसत्तिः सङ्गमे च सेवायां प्रतिपादने ॥
1.15.222 · p. 73
अभिशस्तिः स्मृता लोकापवादे प्रार्थनेऽपि च ॥ २१६ ॥
1.15.216 · p. 74
भोगवती भुजङ्गानां नगरीसरितोरपि ।गन्धवती सुराभूम्योः पुरीयोजनगन्धयोः ॥ २१८ ॥
1.15.218 · p. 74
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable); pāda 3, syllable 3 व (wrong syllable)
हैमवत्यऽभयास्वर्णक्षीर्योः श्वेतवचोमयोः ।चर्मण्वती नदीभेदे कदलीपादपेऽपि च ॥ २१९ ॥
1.15.219 · p. 74
अनुष्टुप्
कुमुद्वती कुमुदिन्यां कुशपत्न्यां कुमुद्वती ।शुभ्रदन्ती सुदन्त्यां स्यात् पुष्पदन्तेभयोषिति ॥ २२० ॥
1.15.220 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable)
सरस्वती सरिद्भेदे गोवाग्देवतयोर्गिरि ।स्त्रीरत्ने चापगायाञ्च सरस्वान् सिन्धुकेऽम्बुधौ ॥ २२१ ॥
1.15.221 · p. 74
अनुष्टुप्
रागमाताऽपि कुट्टन्यां स्मृता भूमिरुहामये ।प्रभूमिता क्लेशितायां सूर्यगन्तव्यदिश्यऽपि ॥ २२२ ॥
1.15.222 · p. 74
अनुष्टुप्
प्रव्रजिता तपस्विन्यां मुण्डीर्यामांसिकौषधौ ।ऋष्यप्रोक्ता शतावर्य्यां शूकशिम्ब्यां बलाभिदि ॥ २२३ ॥
1.15.223 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 जि (wrong syllable)
कृष्णवृन्ता पाटलायां माषपर्ण्याञ्च भाविता ।समुद्रान्ता तु कार्पासीस्पृक्कादुरालभासु च ॥ २२४ ॥
1.15.224 · p. 74
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 दु (wrong syllable)
स्यादऽवलोकितो बुद्धे प्रक्षिप्ते त्वविलोकितम् ।उपधूपित आसन्नमरणे परिधूपिते ॥ २२५ ॥
1.15.225 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
स्यादऽपराजितो विष्णौ श्रीकण्डे चाऽपराजिता ।श्वेताजयन्तीदुर्गास्वऽनिर्ज्जिते त्वऽभिधेयवत् ॥ २२६ ॥
1.15.226 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
गणाधिपतिर्विख्यातः शङ्करेऽपि गजानने ।यादसाम्पतिरम्भोधौ प्रतीचीदिक्पतावपि ॥ २२७ ॥
1.15.227 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
स्यात् पृथिवीपतिर्भूपे ऋषभाख्यौषधेऽपि च ॥
1.15.235 · p. 74
मूर्द्धाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च ॥ २२८ ॥
1.15.228 · p. 75
वसन्तदूतश्चूते स्यात् पिकपञ्चमरागयोः ।वसन्तदूती पाटल्यां प्रतीच्यामतिमुक्तके ॥ २२९ ॥
1.15.229 · p. 75
अनुष्टुप्
अर्द्धपारावतश्चित्रकण्ठे तित्तिरपक्षिणि ।
1.15.238 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 र (wrong syllable)