कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किर्मीर

kirmīraवि · adj.

In 13 kośas: 12 synonym verses, 4 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1398 · p. 53
रक्तश्यामे पुनर्धूम्रधूमलावथ कर्बुरः ।किर्मीर एतः शबलश्चित्रकल्माषचित्रलाः ॥ १३९८ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.17
चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ।गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.741 · p. 85
चित्रकिर्मीरकल्माषशबलोन्मिश्रकर्बुराः ।करम्बः कवरः शारः सम्पृक्तः खचितः समाः ॥ ७४१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.168 · p. 435
एतकल्माषशबलकिर्मीराश्चित्रलः पुनः ।गुणे शुक्लादिकाः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १६८ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.39 · p. 57
चित्रल एतः शबलः कर्बुर-किर्मीर-कल्माषाः ।स्यात्सारङ्गश्चित्रः शार-करम्बौ तथा कबरः ॥ ३९ ॥
metre not recognised
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.292 · p. 88
कल्माषशबलौ चित्रकिर्मीरौ चित्रलश्च सः ।[49] ध्वनिः स्वानो रवो नादः शब्दो निर्घोषनिःस्वनौ ॥ २९२ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.155 · p. 21
कडारः कपिशः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ।चित्रकिर्मीरकल्माषशबलैतास्तु कर्बुरे ॥ १५५ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2539 · p. 411
एतः कर्मीरकिर्मीरौ पनश्च शबलो भवेत् ।श्वेताच्छबलपर्यन्तं सर्वे शब्दाश्च पुंसि स्युः ॥ २५३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 सि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.345 · p. 24
एतः कवरकिर्मीरकल्माषचित्रला अपि ।किर्मीरः चित्रवर्णस्य पर्यायः परिकीर्तितः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.242 · p. 208
इन्द्रसुते वालिर्वाली, मारुतो हनुमानिति ।हनूमान्, भीमशत्रौ किर्मीरः कर्मीर-कीर्मिरौ ॥ २४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न्द्र (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.12 · p. 38
स्यात्पिच्छलदला स्वादुफलाऽथो नागरङ्गकः ।चक्राधिवासी नारङ्गः किर्मीरस्त्वक्सुगन्धकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.23 · p. 197
तारावतारकिर्मीरशबलैतास्तु चित्रके ।स चान्योन्यानवष्टंभान्नानावर्णसमुन्नयः ॥ २३ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.65 · p. 175
किर्मीरः कर्बुरो ज्ञेयः किर्मीरो राक्षसान्तरम् ।अभिमरो वधे युद्धे सहायसाध्वसेऽपि च ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.55 · p. 325
पुमान्करीरः कलशे द्रुभेदेस्त्री चीरिकायां करिदन्तमूले ।शौटीर उक्तः सुभटे वदान्येकिर्मीरमाहुर्नरि नागरङ्गे ॥ ५५ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.56 · p. 325
निशाचरे कर्बुरके[58a]ऽन्यवत्स्या-च्छोणान्तरस्थे पुलिने शणीरम् ।भवेत्तथा दुर्दुरिकातटेऽथस्यात्प्रस्थपुष्पे नरि जम्बुवृक्षे ॥ ५६ ॥
उपजातिःmetre not read in every line
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.63 · p. 270
कान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने ।किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे ।किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः ।कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते ।कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 फो (wrong syllable)

किर्मीर as a meaning in nānārtha verses

  • धरणिकोश कर्बूरपङ्खरः कठिने वास इड्डिपर्णी च मार्जरी ? । कर्बूरं हेम्नि किर्मीरे कर्बूरस्तु निशाचरः ॥ Dharaṇikośa 26.2.40
  • कोषकल्पतरु एतशङ्खौषधौ [संस्तु] सदस्यपूज्य- साधुप्रशस्येष्वपि विद्यमाने । स्त्रियां त्वपर्णाकुलयोषितोः स्या- देतस्तु किर्मीर उपागते च ॥ ११ ॥ Koṣakalpataru 6.16.11
  • कोषकल्पतरु चित्रपोत्रं तु वस्त्रे किटिलाङ्गलस्या- ग्रकेऽथ चित्रं तिलकेऽन्तरिक्षे । आलेख्यकिर्मीरकविस्मयेषु त्रये तु किर्मीरिणि विस्मिते च ॥ २८ ॥ Koṣakalpataru 6.27.28
  • कोषकल्पतरु मञ्जुलशृङ्गारे नरि विशदे त्रिषूज्ज्वलः स्या- दुद्दीप्ते भवति विकासिनि स्मृतश्च । स्यात्कुञ्जे मिथुनविवर्जितं परस्मि- न्किर्मीरे जलहरिणे तु मञ्जुलो ना ॥ २३ ॥ Koṣakalpataru 6.28.23