पिशङ्ग
piśaṅgaवि · adj.In 12 kośas: 14 synonym verses, 3 as a meaning of another word.
अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः ।कपिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ १३९६ ॥बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः ।स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः ॥ १३९७ ॥
अनुष्टुप्
genderविadj.
कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
पिङ्गः पिशङ्ग इत्युक्तो बभ्रुः कपिलः पिङ्गलः ।सारङ्गः शबलो वर्णः कल्माषः कृष्णपाण्डुरः ॥ ७३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 लः (wrong syllable)
genderविadj.
सर्वतः कृष्णवर्णोऽपि पिशङ्गो नीलकर्वुरौ ।गुदस्थलं कपीनां यत्तत्कप्यासमितीरितम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
बभ्रुः पिशङ्गः कपिलः कापिलः पीतलोहितः ।कडारः कपिशः पिङ्गः कद्रुश्चित्रस्तु कर्बुरः ॥ १६७ ॥
अनुष्टुप्
genderविadj.
हरित्पीतरक्तैर्युतः स्यात्पिशङ्गोभवेदेष गोरोचनातुल्यवर्णः ।कदुः कद्रु-बभ्रू हरिः पिङ्गलः स्यात्प्रदीपार्च्चिषा तुल्यवर्णश्च पिङ्गः ॥ ३५ ॥
भुजङ्गप्रयातम्
genderविadj.
कडारः कपिलः पिङ्गः पिशङ्ग-कदु-कद्रवः ।बभ्रुर्हरिः[31] पिङ्गलश्च तुल्यार्था इति केचन ॥ ३६ ॥
अनुष्टुप्
genderविadj.
पिञ्जरः कपिलः पिङ्गपिशङ्गौ कपिशो हरिः ।कडारः श्यावबभ्रू च कद्रुरेतस्तु कर्बुरे ॥ २९१ ॥
अनुष्टुप्
genderविadj.
कडारः कपिशः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ।चित्रकिर्मीरकल्माषशबलैतास्तु कर्बुरे ॥ १५५ ॥
अनुष्टुप्
genderविadj.
पिशङ्गः पिङ्गलः पिङ्गः श्यावो बभ्रुस्तथा हरिः ।कडारश्चेति नामानि कथ्यन्ते कपिलस्य वै ॥ २५३६ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णलोहितमिश्रस्तु धूम्रो धूमल उच्यते ।कपिलः पिङ्गलः पिङ्गः पिशङ्गः कापिलो हरिः ॥
अनुष्टुप्
genderपुंmasc.
कडारः कपिलः कद्रुः पिशङ्गः पिङ्गलश्च सः ।चित्रकर्बुरकिर्मीकल्माषैताः सशारकाः ॥ ८९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
हरितांशेऽधिकेऽसौ तु पिशङ्गः पद्मधूलिवत् ।पिशङ्गस्त्वसितावेशात् पिङ्गो दीपशिखादिषु ॥
अनुष्टुप्
genderपुंmasc.
बभ्रुः कडारः कपिलो विदग्धो दुष्टरक्तवत् ।श्यावे तु कपिशः पिंगे पिशंगः कद्रुपिंगलौ ॥ १८ ॥
अनुष्टुप्
genderविadj.doubtful
पिशङ्ग as a meaning in nānārtha verses
- कोषकल्पतरु पिङ्गपिङ्गः पिशङ्गे त्रिषु तद्वति स्या- द्ध्रीबेरकेऽन्त्येऽथ शमी च पिङ्गी । गो[263b]रोचनारामज्जनालिकोमा- संज्ञासु पिङ्गा समुदीरितात्र ॥ ५ ॥ Koṣakalpataru 6.3.5
- शब्दरत्नावली पिङ्गपिङ्गी शस्यां शिशौ क्लीबं पिशङ्गे तु पुमानयम् । पुगो बृन्दे गुवाके च भावे कण्टकिभूरुहे ॥ Śabdaratnāvalī 7.3.10
- शब्दरत्नावली कद्रुऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7