कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवट

avaṭaपुं · masc.

In 16 kośas: 23 synonym verses, 8 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.931 · p. 37
पाशस्तु बन्धनग्रन्थिरवपातावटौ समौ ॥ ९३१ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य नरककाण्डः Abhidhānacintāmaṇi 5.1364 · p. 52
गर्तश्वभ्रावटागाधदरास्तु विवरे भुवः ॥ १३६४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.2
गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.782 · p. 89
उन्माथः कूटयन्त्रं स्यादवपातोऽवटः स्मृतः ।धर्मः स्वभावः आत्मा स्यादवेक्षा प्रतिजागरः ॥ ७८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.164 · p. 38
कम्बुपर्यायग्रीवार्था स्त्रियां घाटा कृकाटिका ।अवटुश्चावटोऽपि स्यादस्त्रियां च कृकः पुमान् ॥ १६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.133 · p. 358
अवघट्टावटौ तुल्यावथ पुष्करिणीत्यपि ।दीर्घी स्त्री यष्टिका वापी वापिश्चापि स्त्रियामुभे ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.9 · p. 362
भुवि श्वभ्रे द्वयोर्गर्त्ताऽवटिः स्यादवटोऽवटु ।कालेया दनुजा दैत्या ये चाप्यन्ये सुरद्विषः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.53 · p. 467
मुञ्जवाजाजावटानां तथा पट्टप्रकोष्ठयोः ।कोष्ठाङ्गुष्ठघटानां च प्रगण्डस्य गुडस्य च ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.33 · p. 297
उन्माथः कूटयन्त्रं स्याद्वागुरा मृगजालिका ।जालिकः स्याद्वागुरिकोऽथावपातावटौ समौ ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.5 · p. 302
शुषिरं सुषिरं चास्त्री पुंस्यगाधो वपा-शुषी ।द्वयोर्गर्ता दरस्त्रय्यामवटो युजि भूबिले ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.14 · p. 95
अवटो विटोऽपि * पटोललाटभूषार्थलोध्रान्यः ।कोष्ठो हठः प्रकोष्ठो-ऽङ्गुष्ठो गण्डः प्रगण्डश्च ॥ १४ ॥
metre not recognised
genderपुंmasc.
अन अन्ते यस्य तदिदमनान्तं अकर्त्तरि अन्प्रत्ययान्तं यत्प्रातिपदिकं तन्नपुंसके विद्धि जानीहि । "नपुंसकाद्भावे क्त" इत्यत्र "वर्तमाने ल्युट् चे"ति ल्युट् । "युवोरनामि"त्यनादेशः । वचनं भजनं भाजनं पानं आसनं प्रयाणं शासनम् । अधिकरणमित्यादि । अकर्त्तरीति किम् । "नन्द्यादिभ्यो ल्युट्" । नन्दनः मरणः मदनः कुलनः शतनः दमनः सङ्कर्षणः मधुसूदनः जनार्दन इत्यादि । अनिः स्त्रियामेव ।एवकारोऽवधारणार्थः । "आक्रोशे नञ्यनिः" । यथा इयमम्भोजनिः अकारणिः अहरणिः अखादनिः अशरणिरित्येवमादिः । अण च अप्च अणापौ यौ तौ पुंस्युक्तौ । णौ अण् चेत्यण् प्रत्ययः । त्यागः उपदेशः उपसर्गः इत्यण्प्रत्ययः । निघः पर्वतः । किञ्चान्यौ मन्युमृत्यू पुंसि भवतः । अयं मन्युर्दया शोकश्च । मृत्युर्नाशः ।पटपुटकटघटचण्टवाटजूटवटा हि पुंस्युक्ताः ।अवटखटपट्टकिराटकीटाश्च कूटतटयोश्च नपुंसकता ॥ २८ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.254 · p. 83
रोकं बिलं निर्व्यथनं तथा निम्नं वपान्तरे ।श्वभ्रागाधावटा गर्तः पातालाख्येऽयमुच्यते ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.92 · p. 43
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1578 · p. 253
अवटो ह्यवपातश्च मृगादिपातखातकम् ॥ १५७८ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि पञ्चमः काण्डः Śabdaratnākara 5.4 · p. 249
तालव्यदन्त्यः शुषिरम्, गर्ते गर्ता दरस्त्रिषु ।स्वभ्रं तालव्यदन्त्याद्यमवटोऽवटिरित्युभौ ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.296 · p. 40
कुहरं तु रन्ध्रविवरछिद्रबिलश्वभ्ररोकनिर्व्यथनम् ।अपि सुषिवपे स्त्रियौ स्यादवटो गर्तश्च भूतलश्वभ्रे ॥ २९६ ॥
गीतिःmetre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1701 · p. 205
संतोषणे हलहलो दाहचूर्णेऽवचूर्णनम् ।अवटे स्यादुपशयो मृगग्रहणनिर्मिते ॥ १७०१ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.3 · p. 269
अवटव्रातसङ्केतपोतगर्तगरुच्छदाः ।श्लेमोष्मपापयक्ष्माश्मात्मानो वातायनः स्तनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.4 · p. 26
शलको विकिरस्तुण्डी नीडजो वातगाम्यपि ।पक्षिपोतस्तु चिल्लाकश्चंपुकः पीलुकावटौ ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.54 · p. 39
किप्कुः स्यादवटो हस्तश्चतुर्विंशतिरंगुलाः ।बद्धेन मुष्टिना हस्तः स्याद्रत्निर्मुष्टिको वसुः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.3 · p. 148
गर्तः पतेरो भूश्वभ्रमवखातोऽवटोऽवधिः ।शेषोऽनन्तो नागराजः सर्पराजस्तु वासुकिः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.81 · p. 179
तर्जन्यादिभिरंगुष्ठे वितते विततैःसह ।अवटोमनहस्तः स्यात् सप्रकोष्ठं ततांगुलिः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास टपादः Dharaṇikośa 10.1.6 · p. 36
लटौ प्रमादवाग्दोषौ पटो वस्त्रप्रियाल[21]योः ।उरोष्टः प्रणवे क्षीरे कृपीटमुदरे जले ।अवटौ खिलभूगर्तौ पर्पटौ पिष्टकौषधी ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ टान्ताः Koṣakalpataru 6.10.24 · p. 181
अवटः कपटोपजीविगर्ता-न्धुखिलेषु प्रथितोऽथ पर्पटः स्यात् ।नरि पिष्टविकारचर्मनाम्नो(?)-ऽथ विशाले विकलाङ्गके मनोज्ञे ॥ २४ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.6 · p. 43
अगुरुण्ययसो गुन्द्रे शरस्य मकरे त्वसोः ।पिण्डारे त्ववटोः पाणेर्बर्हिष्ठे मुस्तकेऽप्यपम् ॥ ६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.111 · p. 56
तत्रापि च स्त्रियां वृत्तिर्यदा स्यादपटा तदा ।अवटस्तु पुमान् गर्ते कूपे मानान्तरेऽपि च ॥ १११ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.112 · p. 56
चतुर्विंशत्यङ्गुलके वटहीने तु स त्रिषु ।अगमस्तु गिरौ वृक्षे गतिहीने तु भेद्यवत् ॥ ११२ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.19 · p. 163
अनूकमन्वयेऽनूको गतजन्मावटो बिले ।महारण्येऽखिले कूपे दम्भजीविन्यपि स्मृतः ॥ १९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश टान्ताः Śabdaratnāvalī 7.11.33 · p. 201
अवटः कूपकुहकजीविगर्त्राखिलेषु च ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.91 · p. 122
काके निम्बे च लशुने गर्त्ते कूपे खलेऽवटः ।अत्यर्थक्षौमयोरट्टः कृताविष्टं प्रिये त्रिषु ॥ ९१ ॥
अनुष्टुप्

अवट as a meaning in nānārtha verses

  • हलायुधकोशः (अभिधानरत्नमाला) अवधिपत्न्यामपि द्वितीया दर्भेऽपि पवित्रमवधिरवटेऽपि । प्रकृतावपि प्रधानं विवक्षितं शोभनेऽपि स्यात् ॥ ८०२ ॥ Abhidhānaratnamālā (Halāyudha) 5.802
  • कोषकल्पतरु अवटुवसनादिना विशुद्धे संसृष्टं संगते च स्यात् । अवटुस्त्ववटे कूपे कृकाटिकायां परीष्टिस्तु । परिचर्यामार्गणयोः प्राकाम्येऽन्वेषणे च स्त्री । गन्धोल्यामपि हंस्यां वरटा त्रिपुटा त्रुटित्रिवृतोः ॥ ४० ॥ Koṣakalpataru 6.10.40
  • कोषकल्पतरु गुप्तिआतिः शरार्यां गमनेऽपि योषित् वित्तिस्तु संभूतिविचारयोः स्त्री । ज्ञानेऽथ लाभेऽप्यथ गुप्तिरुक्ता कारागृहे स्यादवनेऽवटेऽपि ॥ ६० ॥ Koṣakalpataru 6.16.60
  • नानार्थार्णवसंक्षेप गर्तइत्येवं तस्य याथात्म्यं समूलत्वं च चिन्त्यताम् । गर्तस्तु स्यात् सभास्थाणौ मन्दिरेऽप्यवटेऽपि च ॥ ४३ ॥ Nānārthārṇavasaṃkṣepa 2.2.43
  • शब्दरत्नावली गर्तकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9