कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

षान्ताः · षश्लोकः

॥ षश्लोकः ॥

वृषः श्रेष्ठाखुधर्मेषु प्राह्यदे ? शुक्रले गवि ।वृषः कोवालिभेदे ? च वृषा मूषिकपर्णिका ॥
30.3.1 · p. 217
अनुष्टुप्
शेषं हलायुधेऽनन्ते उपयुक्तेतरे विदुः ।प्रसादे निजनिर्माल्यदत्तिः शेषेति कीर्तिता ॥
30.3.2 · p. 218
अनुष्टुप्
कोषो दिव्ये धने पेश्यां कुड्मलासिपिधानयोः ।पनसादिफलस्यान्तः कोषः शब्दादिसंग्रहः ॥
30.3.3 · p. 218
अनुष्टुप्
आकर्षः शारिफलके द्यूतपाशकयोरपि ।स्यादाकर्षणमाकर्षो धनुरभ्यासवस्तु च ॥
30.3.4 · p. 218
अनुष्टुप्
गण्डूषो मुखपूर्तौ स्यात्करिहस्ताङ्गुलावपि ।गण्डुषोऽपि च गण्डूषोऽप्यङ्गुल्यर्धत एव च ॥
30.3.5 · p. 218
अनुष्टुप्
पौरुषं पुरुषस्योक्तं भावे कर्मणि रेतसि ।ऊर्ध्वबाहुद्वयोर्माने पुंसः पौरुषमुच्यते ॥
30.3.6 · p. 218
अनुष्टुप्
आमिषः स्याद्भोग्यवस्तु भोजने पलले[103]ऽपि च ।… ॥
30.3.7 · p. 218
metre not recognised