कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तनूरुह

tanūruhaक्ली · neut.

In 10 kośas: 23 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.375 · p. 27
शुक्रं रेतो बलं वीर्यं बीजं मज्जसमुद्भवम् ।आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ॥ ६२९ ॥पौरुषं प्रधानधातुर्लोम रोम तनूरुहम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.138 · p. 50
विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तिशकुनौ विवयः शकुन्ताः ।नभसंगमो विकिरपत्त्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ ॥पित्सन्नीडाण्डजोगौकाश्चञ्चुश्चञ्चू सृपाटिका ।त्रोटिश्च पत्त्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः ।
metre not recognised
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.50
गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.175
तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.239 · p. 29
तनूरुहं गरुत्पत्त्रं पतत्रं छदनं छदः ।पिच्छं वाजस्तथा पक्षः पक्षमूलं तु पक्षतिः ॥ २३९ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.524 · p. 60
रोम तनूरुहमुक्तं नयनगतं पक्ष्म मुखगतं श्मश्रु ।अधरो दन्तच्छद ओष्ठ उच्यते दन्तवासश्च ॥ ५२४ ॥
आर्याmetre not read in every line
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.240 · p. 47
क्लीबेऽजिनं देहवर्म चर्म पुंसि महापटः ।रक्ताधारोऽप्यथमलः किट्टेऽस्त्र्यथ तनूरुहम् ॥ २४० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.199 · p. 339
वाजः पक्षः पतत्रं स्यात्पिच्छं पत्रं तनूरुहम् ।गरुत्स्यादथ संप्रोद्भ्यो डीनान्येषां गतिक्रिया ॥ १९९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.193 · p. 482
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.66 · p. 195
पत्रं पतत्रं च ** पक्ष-पिच्छे तनूरुहम् ।स्त्री पक्षतिः पक्षमूलं कुलायो नीडकस्त्रिषु ॥ ६६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्रं (syllables merged)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 221
तनूरुहं लोम रोम न स्त्री तु श्मश्रु दाढिका ।दंष्ट्रिका मासुरी नव्या कूर्चोऽस्त्री चिबुकस्थिते ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.75 · p. 116
तनूरुहश्च पुण्या[234b]हो लक्षं तु व्याजवाचकम् ।उकारान्तेषु तितउ एक एव तथाविधः ॥ ७५ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.219 · p. 79
शकुन्तशकुनौ तुल्यौ चञ्चूस्त्रोटिः सृपाटिका ।पक्षः पत्रं पतत्रं च वाजः पिच्छं तनूरुहम् ॥ २१९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.284 · p. 136
पुंस्त्वं मज्जसमुद्भूतमिन्द्रियानन्दसंभवे ।तनूरुहं लोम रोम चर्म कृत्तिस्तथाजिनम् ॥ २८४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.163 · p. 231
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.100 · p. 11
पक्षश्छदो गरुत्पत्रं पतत्रं च तनूरुहम् ।वाजोऽस्य पक्षतिर्मूलं चञ्चुस्त्रोटिः सृपाटिका ॥ १०० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.27 · p. 22
मुखकेशाः श्मश्रु कूर्चो लोम रोम तनूरुहम् ।रोमावली रोमलता रोमराजी हृदूदरे ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1016 · p. 156
रोम लोम परित्राणं तनुरुहं तनूरुहम् ।कूपजो मांसनिर्यासः त्वग्मलं बालपुत्रकः ॥ १०१६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2382 · p. 384
चञ्चुश्चञ्चूस्तथा त्रोटिः सृपाटी च सृपाटिका ।पत्रं पिच्छं पतत्रञ्च वाजः तथा तनूरुहम् ॥ २३८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.97 · p. 89
तथा तनूरुहञ्चैव पक्षिपक्षे निगद्यते ।स्त्री पक्षतिः पक्षती स्यात् पक्षमूले तु पक्षिणाम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.331 · p. 104
तनूरुहं तनुरुहं तनुरुट् लोम रोम च ।छेङि (?) श्मश्रू व्यञ्जनञ्च लोमबृद्धौ तु पुंमुखे ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.49 · p. 30
छदः पक्षो गरुद्वाजश्छदनं च तनूरुहम् ।पतत्रं च कुलायस्तु पञ्जरं नीडमस्त्रियाम् ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.97 · p. 181
जटुले कालकः पिप्लुस्तिलके तिलकालकः ।तनूरुहं रोम लोम केशाः शिरसिजाः कचाः ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ हान्ताः Koṣakalpataru 6.32.61 · p. 389
पितामहो ब्रह्मणि ताततातेतमोपहोऽर्केन्दुजिनेषु वह्नौ ।तनूरुहोऽस्त्री गरुतीह लोम्निसमीरणे गन्धवहो नसि स्त्री ॥ ६१ ॥
उपेन्द्रवज्रा
शब्दरत्नावली Śabdaratnāvalī · मथुरेश हान्ताः Śabdaratnāvalī 7.33.31 · p. 299
गन्धवहः समीरे स्यान्नासिकायां भवेत्स्त्रियाम् ।तनूरुहं भवेल्लोम्नि पतत्रे च नपुंसकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)