निर्यास
niryāsaपुं · masc.In 12 kośas: 8 synonym verses, 25 as a meaning of another word.
निर्यासगुल्फकेशानां पतद्ग्रहकुठारयोः ।रथाशनिश्वेतकण्टकफासीनामरेरपि ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
निर्यासांसोपवासानां मांसवीतंसयोरपि ।चमसांसयोश्च गेहस्य निवहस्य गृहस्य च ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
पेशी कर्कटकी च स्त्री पक्वं तत्तु पचेलिमम् ।निर्यासोऽस्त्री वृक्षरसो बीजं त्वङ्कुरकारणम् ।परु-ग्रन्थी ग्रन्थव(गु ?)ल्माः स्तः पर्व-परुषी समे ।* * * * * * * * बीजकोशी शमी शिमिः ।शिम्बिः शिम्बा चाथ सर्वं मूले पुष्पे फले भवेत् ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
हैमाशनी कुठारोऽपि दिनसर्तुविषाकवः ।निर्यासकण्ठकोष्ठाब्दा एते नरि सनामकाः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
माषाम्बरीषयूषाः प्रत्यूषोष्णीषकोषनिर्यासाः ।आमिषवर्षकर्षमांसा मासः पनसावतंसौ च ॥ १६२ ॥
metre not recognised
genderपुंक्लीm. n.
बहुधूपः सर्वरसो निर्यासः सज्जकोऽपि च ।रसोऽपि स्यात्सज्जु(र्ज?)रसे चाथ पिण्डकयावकौ(नौ?) ॥ १८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderपुंmasc.
पुंसि च्छदश्छदनपत्रपलाशपर्ण-बर्हं दलं रजसि पुष्पभवे परागः ।निर्यासलग्नखपुरास्तु समाः प्रसून-बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥
वसन्ततिलका
genderपुंmasc.
प्ररोहश्चाथ वंशः स्याद्योंऽकुरः पर्वसूत्थितः ।परुः पर्व पुमान् ग्रंथिर्निर्यासः खपुरो लशः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
निर्यास as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कषायनिर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः ॥ १५३ ॥ Amarakośa 3.3.153
- हलायुधकोशः (अभिधानरत्नमाला) रसशृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे । निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥ Abhidhānaratnamālā (Halāyudha) 5.861
- धरणिकोश द्रवद्रवो [97] नर्मणि निर्यासे गतौ पलायनेऽपि च । सवो यज्ञे च संधाने सवं तोयं सवं मृतम् ॥ Dharaṇikośa 28.2.4
- कोषकल्पतरु कषायआहुः पुंसि निकायमप्यथ गृहे पद्मे निकाय्यो व्रजे तार्क्ष्ये किं च परात्मनीह कथितोऽथ क्षेत्रियः सम्मतः । क्षेत्रोद्भूततृणेऽन्यदारनिरते साध्येतरस्मिन्गदे निर्यासे तु विलेपने च तुवरेऽप्यस्त्री कषायोऽपि च ॥ ६३ ॥ Koṣakalpataru 6.26.63
- कोषकल्पतरु घनरसघनरस उक्तो नीरे निर्यासे मोरटे सान्द्रे । कर्पूरे सिद्धरसेऽस्त्रियां भवेत्पीलुपर्ण्यर्थे ॥ १६ ॥ Koṣakalpataru 6.31.16
- नानार्थार्णवसंक्षेप द्रवपुंसि वह्नौ च वज्रे च त्रि तूपक्षयकारिणि । द्रवो नर्मणि निर्यासे द्रवणे च पलायने ॥ ५७४ ॥ Nānārthārṇavasaṃkṣepa 2.5.574
- नानार्थार्णवसंक्षेप रसरेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः । देहधातुविशेषे च शृङ्गारादौ फले जले ॥ १०७८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1078
- नानार्थार्णवसंक्षेप वेष्टवेटी स्त्री नावि वेटस्तु ना शब्दे वेष्टवाक् तु ना । श्रीवेष्टसंज्ञे निर्यासे वेष्टने तु नरस्त्रियोः ॥ १२९६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1296
- नानार्थार्णवसंक्षेप निर्यूहद्वारे क्वाथे च निर्यासे नागदन्त्याख्यशङ्कुषु । निष्क्रमो बुद्धिसामर्थ्ये निर्गतौ दुष्कुले तथा ॥ १०९ ॥ Nānārthārṇavasaṃkṣepa 3.2.109
- नानार्थार्णवसंक्षेप श्रीवासश्रीवत्सः श्रीपतौ तस्य लाञ्छनेऽप्यथ शार्ङ्गिणि । श्रीपिष्टाख्ये च निर्यासे श्रीवासो वसतौ श्रियः ॥ २१० ॥ Nānārthārṇavasaṃkṣepa 3.2.210
- नानार्थार्णवसंक्षेप कषायकषायस्तुवराभिख्यरसे क्वाथरसे तथा । निर्यासे सौरभे च स्यादनुरागाङ्गरागयोः ॥ ३४७ ॥ Nānārthārṇavasaṃkṣepa 4.347
- नानार्थार्णवसंक्षेप कृत्रिमकृन्तत्रो द्वे कृत्रिमस्तु वृकधूपाह्वये पुमान् । तुरुष्काख्ये च निर्यासे लवणे च विडाह्वये ॥ ५६५ ॥ Nānārthārṇavasaṃkṣepa 4.565
- नानार्थार्णवसंक्षेप चपलतुरुष्काख्ये च निर्यासे मर्कटे तु द्वयोरथ । पिप्पलीविद्युतोस्तु स्त्री लक्ष्म्यां तु रभसेरिता ॥ ७०७ ॥ Nānārthārṇavasaṃkṣepa 4.707
- नानार्थार्णवसंक्षेप तुरुष्कना सिल्हसंज्ञे निर्यासे राजभेदे च तस्य तु । स्त्र्यपत्ये स्यात् तुरुष्की स्त्री देशे त्वस्य नृभूमनि ॥ ८८० ॥ Nānārthārṇavasaṃkṣepa 4.880
- नानार्थार्णवसंक्षेप पण्डितरभसस्तु नरि प्राह निर्यासे सिल्हकाह्वये । त्रि तु स्याद्विदुषि स्त्री तु पतिघ्नी कन्यकान्तरे ॥ १०८४ ॥ Nānārthārṇavasaṃkṣepa 4.1084
- नानार्थार्णवसंक्षेप रसनत्रिस्त्वात्मीयेऽथ रसनं क्ली कषायद्रवान्नयोः । स्नेहे विषे फले चापि निर्यासे हेमरूप्ययोः ॥ १४७९ ॥ Nānārthārṇavasaṃkṣepa 4.1479
- परमानन्दीयनाममाला निर्यूहनिर्वातस्तु गते वाते गाढसंनाहसद्यनोः । निर्यूहः शेखरे नागदन्तनिर्यासयोरपि ॥ २७१ ॥ Paramānandīyanāmamālā 5.18.271
- शब्दरत्नावली कषायऔचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके । कषायः पुंसि निर्यासे रसभेदे विलेपने ॥ अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु । कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥ क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् । क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥ गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके । चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥ Śabdaratnāvalī 7.26.39
- शब्दरत्नावली निर्व्यूहनिग्रहो भर्त्सने बन्धमर्यादाभङ्गयोरपि । निर्व्यूहः शेखरे द्वारे निर्यासनागदन्तयोः ॥ Śabdaratnāvalī 7.33.20
- शब्दरत्नाकर कषायकाञ्चनं हेम्नि वृक्षे तु काञ्चनः काञ्चनी निशा । क्वाथे कुथे कषायोऽस्त्री निर्यासे सौरभे रसे ॥ २०७३ ॥ Śabdaratnākara 4.1.2073
- शब्दार्णव रसशृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ ॥ Śabdārṇava 254
- वैजयन्ती रसरसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥ ४९ ॥ Vaijayantī 6.1.49
- वैजयन्ती खपुरकिंखिरौ क्रोष्टुखट्वाङ्गौ खेचरः पवनेऽपि च । खपुरः पूगवेष्टेऽपि पूगनिर्यासयोरपि ॥ २२ ॥ Vaijayantī 7.1.22
- वैजयन्ती कषायरागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे । कान्तार इक्षुभेदे ना न स्त्री व्यध्वे महावने ॥ २२ ॥ Vaijayantī 7.5.22
- वैजयन्ती रसननिर्यासे हेम्नि रूप्ये च जिह्वास्वादनयोर्न ना । रेवटं दक्षिणावर्तशंखे रेणौ तु रेवटः ॥ ६९ ॥ Vaijayantī 7.5.69