कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आकाश

ākāśaक्ली · neut.

In 22 kośas: 24 synonym verses, 29 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.163 · p. 10
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह व्योमवर्गः Amarakośa 1.2.1
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.32 · p. 68
आकाशश्च नभो व्योम गगनं सुरवर्त्म खम् ।महाबिलं शब्दगुणं तारकापथमित्यपि ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.27 · p. 2
आकाश नाम यत्रैव तत्र शून्यमुदाहृतम् ।ककुपदिक्काष्ठा च दशसंज्ञा सदैव हि ॥ २७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.47 · p. 3
त्रिकोणं च तथाकाशं व्यापारं दशमं विपत् ।कर्माम्बराख्यं व्योमं च गगनं पुष्करं नभः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.22 · p. 3
पुंस्याकाशः क्लीबपुंसोर्विहायाः षण्नभोम्बरम् ।पुष्करं व्योम गगनमनन्तं खं दिवं वियत् ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.189 · p. 482
कुलिशाकाशकोशानां तथा कणिशकाशयोः ।पाशाङ्कुशोष्णीषवेषाम्बरीषाणां विषस्य च ॥ १८९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.2 · p. 26
अवपुर्वृजनं दिवं मुरा-रिपदं देवपथो घनाश्रयः ।भपथो द्युरिसाव्ययं [?] भुवर्-नरि चाकाशविहायसी उभे ॥ २ ॥
वियोगिनी
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.70 · p. 115
भावारावशरावपल्लवशवक्लीवा अपूर्वं तथानिष्ठीवं च सदैवमर्थविषये स्वं सत्त्वमङ्गिन्यपि ।नल्वः स्याल्लवणे च सैन्धवमधो लोके तथा वाडवःपाशः कर्कशकोशवच्च कुलिशं चाकाश-काशाङ्कुशाः ॥ ७० ॥
शार्दूलविक्रीडितम्
genderपुंक्लीm. n.
चतुष्पथादीनां नपुंसकत्वं विद्धि जानीहि । इदं चतुष्पथम् । युगलं युग्मम् । छलं व्याजः । चेलं वस्त्रजातिः । खोलं भग्नभाण्ड[ड]म् । धिष्ण्यं गृहम् । अर्गलं द्वारपिधानम् । शफं खुरः । पण्यं विक्रेतव्यम् । पिच्छं मयूरस्य । पलं चतुःपलिपरिमाणम् ।रयमण्डपनरककपालगुडमणिमेढ्रदर्दुरकुसूलाः ।युग्माकाशव्रतशृङ्गवर्जिताः मञ्चः सदा पुंसि ॥ ६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चे (wrong syllable)
genderक्लीneut.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.1 · p. 6
आकाशं शब्दगुणकं नक्षत्रपदमच्युतम् ।विद्याधराप्सरोयक्षरक्षोगन्धर्वमन्दिरम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 53 · p. 28
खं विहायो वियद्व्योम गगनाकाशमम्बरम् ।द्यौर्नभोऽभ्रोऽन्तरीक्षं च मेघवायुपथोऽप्यथ ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.152 · p. 24
आकाशोऽस्त्री नभो व्योमान्तरीक्षं खं मरुत्पथः ।पुष्कराभ्रे तथा विष्णुपदं मेघाश्रयोऽपि च ॥ १५२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.163 · p. 231
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.249 · p. 17
रङ्गं चङ्गं त्रपुः शीतं नागं सर्पाह्वसीसके ।अभ्रकं गगनाकाशौ गन्धकं शक्तिशुक्रकम् ॥ २४९ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.331 · p. 23
आकाशो गगनं नाकः स्वर्गस्त्रिदिवमम्बरम् ॥ ३३१ ॥
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.1 · p. 36
आकाशः शब्दगुणकं मेघद्वारं महापथम् ।तारापथोऽन्तरिक्षं च निराधारमितीरितम् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.59 · p. 7
आकाशमभ्रं गगनं व्योम विष्णुपदं नभः ।अम्बरं पुष्करं खं द्यौरन्तरिक्षं मरुत्पथः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.163 · p. 23
आकाशमम्बरं चाऽभ्रमन्तरिक्षं घनाश्रयः ॥ १६३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.168 · p. 12
सुरवर्त्म मरुद्वर्त्म मेघवर्त्म वियन्नभः ।द्वे स्त्रियौ द्यो-दिवौ वा तु पुंस्याकाश-विहायसी ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.160 · p. 21
स्यादाकाशं विहायश्च दिव्यं दिवि भवे त्रिषु ।लोकबान्धव उष्णांशुर्मार्ताण्डोऽरुणसारथिः ॥ १६० ॥
अनुष्टुप्
genderपुंक्लीm. n.
खः प्रचण्डो दक्षबाहुः शून्यश्चाकाश एव च ।कपाली दन्तजातीशः श्रीखण्डी कामरूपिणः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.12 · p. 276
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.2 · p. 17
तारावर्त्मांबरं मेघवर्त्म चाकाशमस्त्रियाम् ।दिग्दिशाशा ककुब्दीर्णी हरिद्देववधूः सरिः ॥ २ ॥
अनुष्टुप्
genderपुंक्लीm. n.

आकाश as a meaning in nānārtha verses