उपवास
upavāsaपुं · masc.In 13 kośas: 14 synonym verses, 4 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
निर्यासांसोपवासानां मांसवीतंसयोरपि ।चमसांसयोश्च गेहस्य निवहस्य गृहस्य च ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
उपवासोऽथ कृच्छ्रं स्याद्व्रतं सांतप[103a]नादिकम् ।संसि(शि)तं तु व्रतं सम्यक्तया निष्पादितं हि यत् ॥व्रते तु यत्नवान्नो(न्यो)हि संशितो भेद्यलिङ्गकः ।शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ९१ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कार्पास-कांस-चमसाः पनसोपवासौस्यादिष्वसः सदिवसोऽपि रसो बुसोऽपि ।दोर्वद्विहाय उदितं हृदये तु वत्संमाघे तपोऽथ नृपनाम्नि तथैव कंसः ॥ ७३ ॥
वसन्ततिलका
genderपुंक्लीm. n.
प्राजापत्यं तु गोकृच्छ्रं कृतं गोमूत्रयावकैः ।उपवासस्तूपवस्तं संन्यासः स्यादनाशनम् ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
वीतंसमासं चमसांसकांसाःकर्पासमाकाशमथोपवासः ।बुसेत्थुसेचिक्कसगेहचाटुतनूरुहं देहगृहेऽथ बर्हः ॥ १६३ ॥
उपजातिः
genderपुंक्लीm. n.
उपवासश्चोपवस्तं व्रतं नियमपालनम् ।समाधिर्धारणा ध्यानं प्रणिधानं च चिन्तनम् ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
उपवासो निगद्येत व्रते भोजनरोधके ।कृच्छ्रं चान्द्रायणं सान्तपनं पापविनाशके ॥ १४०५ ॥
अनुष्टुप्
genderपुंmasc.
उपवासादिकं यत्तु व्रतं स्यादिह पुण्यकम् ।उपवासस्त्वनशनमुपारम्भमुपोषणम् ॥
अनुष्टुप्
genderपुंmasc.
उवावासस्त्वौपवस्त्रं ब्रह्मयज्ञादयस्तु ये ।एते पञ्च महायज्ञाः स्वाध्यायस्तु जपः श्रुतेः ॥ ११९२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कौशली कुशलप्रश्नः समीची वन्दना मता ।उपोषणन्तूपवासो रोगाद्यैर्लङ्घनं च तत् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कुलिशध्वजकार्षापणपिनाकमुस्तान्धकारशृङ्गवलयाः ।पटलप्रवालचषकोपवासकासारकटकसन्तानाः ॥ ११ ॥
गीतिःmetre not read in every line
genderपुंक्लीm. n.
उपवासस्तूपवस्तुःसन्यासः स्यादनाशकम् ।द्वादशाहे पराको ना षोडशाहे तुरायणम् ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
उपवास as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप लङ्गनवस्त्रलम्बनदण्डे स्यात् तिरश्चीने गृहादिषु । लङ्गनं तूपवासे स्यान्न नातिक्रमणेऽपि च ॥ १५५८ ॥ Nānārthārṇavasaṃkṣepa 4.1558
- नानार्थार्णवसंक्षेप उपवसथध्वनिपावके भास्करे च स्यादथोपवसथध्वनिः । ग्रामोपवासयोः कव्यवाहनस्त्वग्निमात्रके ॥ ४ ॥ Nānārthārṇavasaṃkṣepa 7.4
- शब्दरत्नावली लङ्घनरोचना स्त्री तु गोपित्ते रक्तकह्लारयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु ॥ रोही वटद्रुमेऽश्वत्थे तया रोहितके पुमान् । लङ्घनं क्रमणे चोपवासे प्लवनेऽपि च ॥ ललना स्त्री शिवाभेदरसनाकामिनीषु च । लेखनन्तु लिपिन्यासे भूर्जे च छर्दनेऽपि च ॥ वर्जनं हिंसने दाने तथा त्यागविशेषके । वपनं मुण्डने क्लीबं वीजाधानेऽपि तत्स्मृतम् ॥ Śabdaratnāvalī 7.20.70
- शब्दरत्नाकर लङ्घनलवणस्तु रसे दैत्ये लवणं सैन्धवादिके । गमने चोपवासे च लङ्घनं लालसा द्वयोः ॥ २१५७ ॥ Śabdaratnākara 4.1.2157