जन्तु
jantuपुं · masc.In 16 kośas: 15 synonym verses, 3 as a nānārtha head word, 33 as a meaning of another word.
क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी ।जीवः स्यादसुमान्सत्वं देहभृज्जन्युजन्तवः ॥ १३६६ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः ।ऊरुर्जन्तुर्वह्रिभूश्च
अनुष्टुप्metre not read in every line
genderपुंmasc.
प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वैतरण्यज्ञसुलभा प्रेतावासाग्निवाहिनी ।नारका जन्तवः प्रेता याम्या अप्यातिवाहिकाः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
वह्निपर्यायजन्मार्थो जन्तुरारोहकस्तरुः ।कारस्कर उरुर्द्वीपः पादपो विष्टर स्थिरः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः ।व्यष्टिर्जातिः स्त्रियां जातं क्लीबेऽथ व्यक्तिरित्यपि ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
कशिपुस्थाण्डजन्तूनां जीवातोश्च पलाण्डुना ।सिन्धुदोस्तितऊनां च कम्बुना सह सक्तुभिः ॥ १९४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
जन्तुः पुनर्भवी जन्युः सत्त्वं देहभृदप्यसौ ।उत्पत्तिरुद्भवो जन्म जननं जनिरुच्यते ॥ २५६ ॥
अनुष्टुप्
genderपुंmasc.
आत्मा जीवोंऽशुमाञ्जन्तुर्देही प्राणी च चेतनः ।जन्युः शरीरी पुरुषो हंसः सत्त्वं पुनर्भवा (?) ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
शाखी च शिखरी स्कन्धी क्षितिरुहश्च वह्निभूः ।अंह्रिपश्चाङ्घ्रिपो जन्तुर्जीर्णश्चरणपः कुजः ॥ १९५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
genderपुंmasc.
जीवो जन्तुस्तथा जन्युः देहभाक् देहभाग्भवी ॥ २४८३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
लोके विष्टपं पिष्टपं जगती, जगत्प्राणिनि ।जन्यु-जन्तू, उद्भवे षण् जन्म जन्मोऽस्त्रियां जनिः ॥ १ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 4 ग (syllables merged)
genderपुंmasc.
उद्भवो जातिरुत्पत्तिर्जनिर्जननजन्मनी ।जनुश्च चेतनो जन्मी जन्तुर्जन्युः शरीरभाक् ॥ १०५५ ॥
अनुष्टुप्
genderपुंmasc.
नारका जंतवः प्रेता यात्या अप्यातिवाहिकाः ।प्रेताः परेता वेताला गंधर्वाः सत्त्वका ग्रहाः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
भूतानि प्राणिनो जीवा जन्तवो जन्यवोऽङ्गिनः ।पुंसः प्राक् त्रिषु गुल्माद्यमुद्भिदुद्भिज्जमुद्भिदम् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
रोगराजेऽप्यथो जन्तुः प्राणिमात्रे नरे त्वपि ।उक्तो निरुक्तेऽथ ज्ञातिरिक्ष्वाकुकुलसंभवे ॥ ५३ ॥
अनुष्टुप्
स्त्री मौर्व्यामथ जन्तुः स्यात् प्राणिनि क्षत्रियान्तरे ।जम्बीरे दैत्यभेदे च जम्भो भूतान्तरेऽपि च ॥ १९२५ ॥
अनुष्टुप्
जन्तु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् सत्त्वद्रव्यासुव्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु ॥ २१३ ॥ Amarakośa 3.3.213
- धरणिकोश भूतभूतं क्ष्मादौ पिशाचादौ न्याय्ये जन्तूपमानयोः । भूतं प्राप्तेऽपि वृत्ते च देवयोन्यन्तरेऽपि च ॥ Dharaṇikośa 15.3.4
- धरणिकोश जम्बीरकूर्परौ जानुकफणी तित्तिरौ मुनिपक्षिणौ । जम्बीरौ जन्तुपर्णासौ महेन्द्राविन्द्रपर्वतौ ॥ Dharaṇikośa 26.1.17
- धरणिकोश सत्त्वसत्त्वं द्रव्ये स्वभावेऽपि पिशाचादौ गुणे रसे । आयुधे व्यवसाये च वृद्धौ प्राणेषु जन्तुषु ॥ Dharaṇikośa 28.3.3
- कोषकल्पतरु ईहामृगईहामृगो रूपकभेद उक्तो जन्तौ वृके स्यादथ मल्लनागः । वात्स्यायनैरावतयोरथोप- रागः परीवादरविग्रहादौ ॥ २८ ॥ Koṣakalpataru 6.3.28
- कोषकल्पतरु बन्धनस्याद्वन्धनं बन्धवधानजन्तौ ने च पुंसि । भवेद्वचक्नुर्द्विजवाग्मिवाची फले तु पुष्पे गदितं प्रसूनम् ॥ ६३ ॥ Koṣakalpataru 6.21.63
- कोषकल्पतरु भावबृहस्पतौ प्राणभृति त्रिषु स्यात् स्त्रियां तु मौर्वीक्षितिजीवनीषु । तथा वचायामपि शिञ्जितेऽथ भावस्तु जन्तौ विबुधेऽथ शीले ॥ ९७ ॥ Koṣakalpataru 6.29.97
- कोषकल्पतरु सत्त्वस्त्री तेजनीस्पृक्क्षितिपाङ्गनासु सत्त्वोऽस्त्रियां जन्तुपिशाचयोश्च । गुणेऽसुषु क्लीबमिहात्मतायां द्रव्ये स्वभावे व्यवसायधाम्नोः ॥ ९९ ॥ Koṣakalpataru 6.29.99
- नानार्थार्णवसंक्षेप जीवजीवो ना गीष्पतौ जन्तौ क्षेत्रज्ञे त्रि तु जीवति । त्रये प्राणे स्त्री तु मौर्व्यां जीवन्त्याख्यलतान्तरे ॥ ४८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.482
- नानार्थार्णवसंक्षेप भावआस्ये तु क्लीबमाचार्याः केचिदेनं प्रचक्षते । भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु ॥ ८९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.892
- नानार्थार्णवसंक्षेप सत्त्वमाहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुषु । प्राणे चाथ समं तुल्ये साधौ च त्रिषु स त्वयम् ॥ १४४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1441
- नानार्थार्णवसंक्षेप प्रकृतिप्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । कारणे शिश्नयोन्योश्च जन्त्वमात्यादिमातृषु ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 3.1.47
- नानार्थार्णवसंक्षेप जाह्नवस्त्री गङ्गायामपत्ये तु द्वे जह्नोर्जाह्नवः स्मृतः । धनञ्जयेन तु क्लीबं जाह्नवं जन्तुनि स्मृतम् ॥ ७८९ ॥ Nānārthārṇavasaṃkṣepa 4.789
- नानार्थार्णवसंक्षेप मरतना त्वग्नौ मरतो जन्तौ द्वे मन्दाक्ष पुनर्नपि । लज्जायां मन्ददृष्टो तु त्रिषु ----- च ॥ १३८१ ॥ Nānārthārṇavasaṃkṣepa 4.1381
- शब्दरत्नावली शङ्कुशल्कन्तु वल्कले शकले शको जात्यन्तरे नृपे । शङ्कर्ना शङ्करे कीले संख्यास्त्रपापजन्तुषु ॥ Śabdaratnāvalī 7.1.21
- शब्दरत्नावली भूतभूतिः स्यात्कुम्भिशृङ्गारभस्मसम्पत्त्रिषु स्त्रियाम् । अथ भूतं पृथिव्यादौ पिशाचादिषु जन्तुषु ॥ Śabdaratnāvalī 7.16.34
- शब्दरत्नावली जगन्नुजननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56
- शब्दरत्नावली भावपदार्थाभिनयभिदोर्माल्यजन्तुविभूतिषु । रेवा रतौ नदीभेदे तथा नील्योषधौ स्त्रियाम् ॥ Śabdaratnāvalī 7.29.17
- शब्दरत्नावली सत्त्वशिवाभयामलक्याञ्च दुर्गाक्रोष्टीशमीषु च । सत्त्वं बले गुणे द्रव्ये पिशाचादिस्वभावयोः । व्यवसायधनप्राणात्मतास्वस्त्री तु जन्तुषु ॥ Śabdaratnāvalī 7.29.22
- शब्दरत्नाकर जीवगवाक्षानाययोर्जालं क्षारके कपटे गणे । जरठे देशभेदे च जीनो बुद्धार्हतोर्जिनः प्राणिनि त्रिषु जीवः स्यात् पुंसि जन्तौ बृहस्पतौ ॥ १९२४ ॥ Śabdaratnākara 4.1.1924
- शब्दरत्नाकर भूतभूतं खादौ च जन्तौ च न स्त्रियां गणसत्त्वयोः । भागोंऽशे भागधेये च भानुः किरणभास्करौ ॥ १९७० ॥ Śabdaratnākara 4.1.1970
- शब्दरत्नाकर भावभावश्चेष्टाक्रियालीलासत्ताभिप्रायजन्तुषु । आत्मभावेन्द्रियज्ञानमनोविकृतिभूतिषु ॥ १९७१ ॥ Śabdaratnākara 4.1.1971
- शब्दरत्नाकर सत्त्वद्रव्ये बलेऽन्तःकरणे व्यवसायात्मभावयोः । स्वभावे निर्मलज्ञाने सत्त्वमस्त्री तु जन्तुषु ॥ २०२१ ॥ Śabdaratnākara 4.1.2021
- शब्दरत्नाकर प्रकृतिस्वभावजन्त्वमात्यादिच्छन्दोभूतेषु मातरि । पक्षतिः पक्षमूले स्याद् द्वयोः प्रतिपदोरपि ॥ २१३० ॥ Śabdaratnākara 4.1.2130
- त्रिकाण्डशेष जीवकेशवः केशवी विष्णुर्गालवो मुनिलोध्रयोः । जीवोऽस्त्री जीविते पुंसि गुरुजन्त्वोः स्त्रियां गुणे ॥ ४१५ ॥ Trikāṇḍaśeṣa 3.3.415
- त्रिकाण्डशेष भावदूर्वा गौरी च भार्गव्यौ सत्तासंसारयोर्भवः । भावो गौरविते जन्तौ पदार्थेऽभिनयान्तरे ॥ ४२० ॥ Trikāṇḍaśeṣa 3.3.420
- वैजयन्ती भावभावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु । पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः ॥ ४३ ॥ Vaijayantī 6.1.43
- वैजयन्ती जीवज्ञातिभृत्या नवोढाया जन्याः स्निग्धा वरस्य च । जीवः प्राणे त्रयी ना तु जन्तावात्मनि गीष्पतौ ॥ ३३ ॥ Vaijayantī 6.5.33
- वैजयन्ती भूतखादौ जन्तौ च भूतं क्ली समातीतोचिते त्रिषु । भास्वानिंदौ भास्वरेऽर्के भेको वर्षाभ्वि कातरे ॥ ५९ ॥ Vaijayantī 6.5.59
- वैजयन्ती राष्ट्रराष्ट्रोऽस्त्री विषये जन्तौ लोहोऽस्त्री तैजसायसोः । लक्षं नपुं शरव्ये ना स्त्री व्याजे नियुते न ना ॥ ६९ ॥ Vaijayantī 6.5.69
- वैजयन्ती सत्त्वशीतो ना वेतसे शेलौ शैत्ये क्ली तद्वति त्रिषु । सत्त्वोऽस्त्री जन्तुषु क्ली तु व्यवसाये पराक्रमे ॥ ९३ ॥ Vaijayantī 6.5.93
- वैजयन्ती प्रकृतिछन्दःकारणगुह्येषु जन्त्वमात्यादिमातृषु । पक्षतिर्गरुतो मूले द्वयोः प्रतिपदोरपि ॥ १३ ॥ Vaijayantī 7.2.13
- वैजयन्ती जीवकजृंभितं जृंभणोत्फुल्लविवृद्धेषु विचेष्टिते । जीवकः प्रवरे जन्तौ श्रमणे वृद्धिजीविनि ॥ ४० ॥ Vaijayantī 7.5.40