दारुण
dāruṇaवि · adj.In 16 kośas: 19 synonym verses, 2 as a nānārtha head word, 7 as a meaning of another word.
भयंकरं प्रतिभयं भीमं भीष्मं भयानकम् ॥ ३०२ ॥भीषणं भैरवं घोरं दारुणं च भयावहम् ।
अनुष्टुप्
genderविadj.
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ।भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥
अनुष्टुप्
genderविadj.
घोरं प्रतिभयं भीमं दारुणं स्याद्भयानकम् ।आभीलं भीषणं भीष्मं भैरवं च भयावहम् ॥ ७०५ ॥
अनुष्टुप्
genderविadj.
घोरं दारुणमाभीलं भयङ्करमितीर्यते ।स्थायिसञ्चारिभेदेन द्विधा भावो व्यवस्थितः ॥ १३० ॥
अनुष्टुप्
genderविadj.
वल्ली च कोलवल्ली स्याद्वशिरः कृकरः पुमान् ।तीक्ष्णोथ पालका पाठी ज्योतिष्कः शूरदारुणौ ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गः कलिङ्गो धूम्याटोऽप्यथ स्याद्दारुणोऽस्त्रियाम् ।काष्ठकूटः कर्वुराङ्गो दार्वाघाटोऽथ खञ्जनः ॥ १४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
भयानकः प्रतिभयो दारुणश्च भयावहः ।आभीरश्चाथ रौद्रः स्यादुग्रस्तद्वत्स्वमी त्रिषु ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
जीवनाख्यं पञ्चमूलं चित्रकस्त्वग्निनामकः ।पाठी पाली च पाठीनो दारुणः पाचकोऽरुणः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कुष्ठोऽस्त्री त्वग्गदोऽथ स्यात्किलासं श्वि[154b]त्रदारुणे ।अपरिस्रावि तद्भेदाः कापालं मण्डलादि च ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
चित्रके वल्लरी व्यालः पाठीनो दारुणः कुटः ।ज्योतिष्को जरणोऽग्न्याख्यो वलिनद्विपिपाठिनः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
उल्बणं दारुणं तिग्मं घोरं तीव्रोग्रमुत्कटम् ।शीतलं तिमिरं याथं मन्दं विद्धि विलम्बितम् ॥ १८४ ॥
अनुष्टुप्
genderविadj.
भयं दरः साध्वसं भीराशङ्कातङ्कभीतयः ।भीषणं दारुणं रौद्रं भीष्मं प्रतिभयं तथा ॥ २१२ ॥
अनुष्टुप्
genderविadj.
आश्चर्यमद्भुते चित्रं चाथ दिव्ये भयानके ।स्याद्दारुणं प्रतिभयं भीष्मं घोरं भयकरम् ॥ १६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 य (wrong syllable)
genderविadj.
तीव्रोग्रौ दारुणं घोरं दृढमुद्दाममुत्कटम् ।सुकुमारः सुखस्पर्शः कोमलो मृदुलो मृदु ॥ ९५ ॥
अनुष्टुप्
genderविadj.
स्वपरचक्रजं दृष्टं ज्ञेयं भीमं च भैरवम् ।दारुणं भीषणं घोरं भयानकं भयावहम् ॥ ४४२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 न (wrong syllable)
genderविadj.
दारुणो भीषणो भीष्मो भीमो घोरश्च भैरवः ।भयङ्करः प्रतिभयं त्रिष्वेते च भयानके ॥
अनुष्टुप्
genderविadj.
रौद्रमुग्रं प्रतिभयं भीमं भीष्मं भयानकम् ।भीषणं दारुणं घोरं भैरवं च भयंकरम् ॥ ९७० ॥
अनुष्टुप्
genderविadj.
भैरवं भीषणं घोरमाभीलं दारुणञ्च तत् ।करुणः सकृपो रौद्रस्तूग्रोऽमी विंशतिस्त्रिषु ॥ ७९ ॥
अनुष्टुप्
genderविadj.
कठोरनिष्ठुरक्रूरदृढदारुणकक्खटाः ।खरश्च सुकुमारे तु कोमलो मृदुलो मृदुः ॥ ५ ॥
अनुष्टुप्
genderविadj.
मञ्जिष्ठातिविषात्रिवृत्सु वनिता तद्रागवत्स्वन्यव-द्वृक्षे पुंसि रसान्तरे च करुणः प्रोक्तो दयायां स्त्रियाम् ।सूर्ये वारिपतौ तरौ च वरुणोऽथो कुब्जपुष्पे भवे-देरण्डे तरुणः स यूनि परवत्स्याद्दारुणो ना रसे ॥ १८ ॥
शार्दूलविक्रीडितम्
meaningsरस
दारुण as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् आक्रन्दआरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥ Amarakośa 3.3.90
- कोषकल्पतरु भीषणस्याद्भीषणो दारुणगाढवाची त्रये रसे कु[282a]न्दुरुकीभवेऽन्त्ये । कल्याणमक्षय्यहिरण्यभद्रे खड्गे कृपाणश्छुरिकादिषु स्त्री ॥ २८ ॥ Koṣakalpataru 6.15.28
- कोषकल्पतरु प्रधनकुले विनाशे प्रधनं तु युद्धे स्यादारुणेऽथो पवनोऽनिले स्यात् । कुलालपाकस्थलवल्लयोश्च बीजाहितौ स्याद्वपनं च वापे ॥ १७ ॥ Koṣakalpataru 6.21.17
- कोषकल्पतरु भीष्मभीष्मः शंतनुनन्दने स्मरहरे रात्रिंचरे दारुणे भेद्ये क्षीरखयोः सुमस्तु [न] युगे पुष्पे पुनः स्यात्सुमम् । धर्मोऽस्त्री सुकृतेऽथ पुंसि च यमे न्याये स्वभावे क्रता- वाचारोपमयोस्तथोपनिषदि स्यात्कार्मुकोपाधिगः ॥ ६७ ॥ Koṣakalpataru 6.25.67
- नानार्थार्णवसंक्षेप आक्रन्दमित्रे च रभसस्त्रातर्याह्वाने रुदिते युधि । आरावेऽन्ये दारुणे च स्यादाकल्पस्तु कल्पने ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 3.2.17
- शब्दरत्नावली भीषणभरणं पोषणादौ च क्लीबं स्याद्वेतने भृतौ । भीषणो रसशल्लक्योः प्रघाढे दारुणे त्रिषु ॥ Śabdaratnāvalī 7.15.55
- शब्दरत्नावली प्रधनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57