चटक
caṭakaपुं · masc.In 12 kośas: 14 synonym verses, 10 as a meaning of another word.
चटको गृहबलिभुक्कलविङ्कः कुलिङ्ककः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 गृ (wrong syllable)
genderपुंmasc.
चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः ।पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
अन्यभृतः परपुष्टः कलकण्ठः कोकिलः पिकः प्रोक्तः ।कलविङ्कश्चटकः स्याद्गृहबलिभुक् नीलकण्ठश्च ॥ २४३ ॥
आर्या
genderपुंmasc.
मणिकण्ठो महायोगी नीलाङ्गः पुण्यदर्शनः ।कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
वर्तका वर्तिका च स्त्री गिरीका गिरिवर्तिका ।चटकः कलविङ्कः स्याद्गृहनीडः कुलिङ्गकः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
निघृष्वो वर्तकस्त्वश्वशफश्च चटकोऽपि च ।खुरप्रान्ते[116b] नखशिखा खुराधस्तलमस्त्रियाम् ॥ ५२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
धूम्याटस्तु तथा भृङ्गः कलिङ्गोऽपि निगद्यते ।कुलिङ्ककः कलविङ्कश्चटकस्त्वस्य वल्लभा ॥ २३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
शिञ्जितं भूषणानां स्यादायुधानां तु बर्बरम् ।शरीराणां विशेषः स्याद्दारूणां चटकं स्मृतम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
चटकस्तु कुलिङ्गश्च कलविङ्कः कुलिङ्ककः ॥ २४१३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कृकवाकुर्विवृताक्षः काहंसश्चरणायुधः ।चटकः कलविङ्कः स्यात् कलाविकल इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वृ (wrong syllable)
genderपुंmasc.
चटकः कलविङ्कः स्यात् सेव्यस्तिलककण्टकः ।आटको बलिभुक् तस्य चटका बल्लभा तयोः ॥ ८०३ ॥
अनुष्टुप्
genderपुंmasc.
हारीतः कोकिलो लट्वा कपोतशुकशारिकाः ।जीवंजीवकदात्यूहौ चटको भृङ्ग इत्यमी ॥ ८१४ ॥
अनुष्टुप्
genderपुंmasc.
मयूरश्चटकः शौण्डः पादायुधनखायुधौ ।पारावतः कलरवो रक्तदृष्टिर्मदोत्कटः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
धूंक्ष्णा तु श्वेतकाकोऽथ चटको वर आटकः ।बलिभुक्कलविंकश्च सेव्यस्तिलककण्टकः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
चटक as a meaning in nānārtha verses
- कोषकल्पतरु कलविङ्कसौगन्धिकं कत्तृणपद्मरागे कल्हारगन्धोपलवाचि षण्ढे । ना गन्धिकेऽथो कलविङ्क उक्तः कलिङ्गके स्याच्चटके गृहोत्थे ॥ ५४ ॥ Koṣakalpataru 6.1.54
- कोषकल्पतरु नीलकण्ठस्या[275a]न्नीलकण्ठोऽपि च कालकण्ठो हरे मयूरे चटकेऽञ्जनाक्षे । दात्यूहके स्यादपि पीतसारे स्याद्धारिकण्ठः पिकवाचको ना ॥ ६६ ॥ Koṣakalpataru 6.11.66
- कोषकल्पतरु कामचारिन्स्याद्व्योमचा[25a]री सुरपक्षिवाची स्यात्कामचारी चटके च कम्रे । स्वच्छन्दचारिण्यथ पृष्ठशृङ्गी भीमे च षण्ढे चलिते च दंशे । कारंधमी तु धातूक्तितत्परे कांस्यकारे च । अन्तेवासी शिष्ये चाण्डाले प्रान्तगे परवत् ॥ ६८ ॥ Koṣakalpataru 6.21.68
- नानार्थार्णवसंक्षेप जीर्विमद्गौ च चटके चाथ जीवन् स्यात् प्राणति त्रिषु । जीवन्ती तु स्त्रियां जीवासंज्ञशाकलतान्तरे ॥ ४८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.485
- नानार्थार्णवसंक्षेप वरलतामारिष इत्युक्ते चटके तु द्वयोरयम् । अथोत्तरेषु षट्सु क्ली तक्कोले कुङ्कुमेऽपि च ॥ ११५१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1151
- नानार्थार्णवसंक्षेप सेव्यमद्यभेदे स्त्रियां तु स्यात् सेव्या नीवारधान्यके । वन्दाकेऽप्यज्झटासंज्ञस्तम्बेऽथ चटके द्वयोः ॥ १५५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1555
- नानार्थार्णवसंक्षेप कलविङ्ककलविङ्कस्तु चटके तद्भेदे पीतमुण्डके । द्वयोः स्यात् कमनीयस्तु चम्पकाख्यमहीरुहे ॥ १४३ ॥ Nānārthārṇavasaṃkṣepa 6.143
- नानार्थार्णवसंक्षेप गृहवलिभुज्द्वयोस्तु गृहवलिभुग् वायसे चटकेऽपि च । चन्द्रिकाप्रिय इत्येष चकोराख्यखगे द्वयोः ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 7.50
- शब्दरत्नावली कामिन्कामी पारावते चक्रवाके चटककामुके । कानीनः कन्यकाजातसुते च व्यासकर्णयोः ॥ Śabdaratnāvalī 7.20.44
- शब्दरत्नावली कामचारिन्धातुवादरते कांश्यकारे कारन्धमी पुमान् । स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् ॥ इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् । अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते ॥ कपिभिद्गन्धकभृङ्गे पुंसि स्याद्गन्धमादनः । पर्वते न स्त्रियामेष सुरायां गन्धमादनी ॥ मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् । यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥ Śabdaratnāvalī 7.20.133