कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पूरुष

pūruṣaपुं · masc.

In 15 kośas: 16 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.337 · p. 17
मर्त्यः पञ्चजनो भूस्पृक्पुरुषः पूरुषो नरः ।मनुष्यो मानुषो ना विट् मनुजो मानवः पुमान् ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.1
मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ।स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.331 · p. 39
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।पुमान्पञ्चजनो ना च पुरुषः पूरुषश्च विट् ॥ ३३१ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.327 · p. 96
मनुष्या मानवा मर्त्याः पुरुषाः पूरुषा नराः ।प्रातः पञ्चजनो गोधा द्विपादो नहुषो नरः ॥ ३२७ ॥
अनुष्टुप्
genderपुंmasc.
पुरुषः पूरुषश्च स्याद् योषित् योषितया सह ।योषा जोषा च महिला महेलाऽपि निगद्यते ॥ १५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.94 · p. 416
क्षेत्रज्ञ आत्मा पुरुषः पूरुषश्चाक्षरः कविः ।अन्तर्यामीश्वरो देही जीवोऽजो बहुलोऽतनुः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 200
स्यान्मानवो मानुष-भूस्पृशौ विट् ।नरः पुमान्पञ्चजनोऽङ्गनेष्टःस्यात्पूरुषो ना पुरुषैधतू च ॥ १ ॥
उपजातिः
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.2 · p. 101
मनुष्यो मानवो मर्त्यो मनुजः पुरुषो नरः ।भूस्पृक्पूरुषो विट् स्यात्पुमानन्पञ्चजनो नरि ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षो (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.13 · p. 1
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।ना पुमान् पुरुषो गोध्मः पाञ्चजन्यजपूरुषौ? ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.1 · p. 20
मनुष्यो मानवो मर्त्यो मनुजो मानुषो नरः ।ना विट् पञ्चजनो भूस्पृक् पुरुषः पूरुषः पुमान् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.496 · p. 63
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।भूस्पृक् पञ्चजनो ना विट् पूरुषः पुरुषः पुमान् ॥ ४९६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.111 · p. 91
मनुष्यो मानवो मर्त्यो नरो ना मानुषः पुमान् ।मनुर्मन्तुः पञ्चजनः पूरुषः पुरुषोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.112 · p. 91
स्यात् पुमान् पुरुषो ना च पूरुषः पुंसि कीर्तितः ।मानुषी मनुषी नारी मानवी मानुषस्त्रियाम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.1 · p. 188
पुंसि पूरुष-पुरुषौ पुलषो ना नरोऽपि च ।मुनुष्यो मानुषो मर्त्यो मर्तोऽपि बालिशः शिशौ ॥ १ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 रु (wrong syllable); pāda 4, syllable 3 पि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1031 · p. 128
मानवा मनुजा मर्त्या मनुष्या मानुषा नराः ।पुरुषाः स्युः पञ्चजनाः पुमांसः पूरुषा नरः ॥ १०३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.3 · p. 173
पूरुषो नाप्यथ क्लीबः पण्डः षण्डो नपुंसकम् ।तृतीयाप्रकृतिश्चाथ पोटा स्त्रीपुंसलक्षणा ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.

पूरुष as a meaning in nānārtha verses

  • कोषकल्पतरु पुरुषस्यात्सूक्ष्मकाले परुषं तु रूक्षे चित्रेऽन्यवन्निष्ठुरभाषके च । स्यात्पूरुषाभः पुरुषो नरे च क्षेत्रज्ञपुंनागकवृक्षयोश्च ॥ ४७ ॥ Koṣakalpataru 6.30.47
  • वैजयन्ती अण्डीरअलसौ पादरुङ्मन्दावण्डीरौ शक्तपूरुषौ । विद्युत्पव्योरक्ल्यशनिरनीकोऽस्त्री चमूयुधोः ॥ १५ ॥ Vaijayantī 7.5.15