बर्हिन्
barhinपुं · masc.In 15 kośas: 13 synonym verses, 6 as a meaning of another word.
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् ।शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
मयूरो बर्हिणो बर्ही चित्रपत्रस्तु चन्द्रकी ।वर्षामतिर्भुजङ्गारिः श्यापटिश्चित्रपिङ्गलः ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
प्रचलाकी बर्हिणोऽपि बर्ही तिलशिखीति च ।मेघनादानुलासी स्याच्चित्रमेखल इत्यपि ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
वनप्रियः परभृतो रवणो रवथः पिकः ।मयूरो बर्हिणो बर्ही प्रचलाकी च चन्द्रकी ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
नीलकण्ठः शिखी बर्ही शुक्लापाङ्गोऽस्य वाक्पुनः ।केका बर्हं तु पिच्छे स्यात्प्रचलाककलापकौ ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
मयूरे मेघनादी स्याद्बर्ही बर्हिण इत्यपि ।पिच्छः शिखण्डस्तद्बर्हे तच्चूडा पिण्डिका स्मृता ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
काकपुष्टो वनसखः कोकिलः पिकप[पा]ञ्चमौ ।शिखी मयूरोऽभ्रसखः केकी बर्ही भुजङ्गभुक् ॥ ३७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शिखण्डी बर्हिणो बर्ही कलापी च भुजंगभुक् ।परपुष्टा परभृता ताम्राक्षी कोकिला पिकी ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
मयूरो मयुकश्चैव मयूको मरुकः पुनः ।बर्ही मार्जारकण्ठश्च मेघनादानुलासकः ॥ २३८६ ॥
अनुष्टुप्
genderपुंmasc.
बर्ही गरव्रतश्चित्रमेखलो बर्हिणोऽपि च ॥
genderपुंmasc.
बर्ही च बर्हिणः शिखावलः शिखी, पिके पुनः ।घोषयित्नुः पोषयित्नुः कोकिलः कौकिलान्वितः ॥ ३४९ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
शिखण्डी बर्हिणो बर्ही मयूरो भुजगाशनः ।मेघनादानुलासी द्वौ समौ चन्द्रकमेचकौ ॥ ७८८ ॥
अनुष्टुप्
genderपुंmasc.
कृकरे त्वथ्यैकृणौ दात्यूहे कालकण्ठकः ।मयूरो बर्हिणी बर्ही शुक्लापांगः शिखावलः ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 थ्यै (syllables merged)
genderपुंmasc.
बर्हिन् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् शिखिन्तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥ Amarakośa 3.3.106
- धरणिकोश नीलकण्ठश्रीकण्ठः स्यान्महादेवे श्रीकण्ठः कुरुजाङ्गले । नीलकण्ठः शिवो बर्ही चाटकैरश्च खञ्जनः ॥ Dharaṇikośa 11.2.9
- नानार्थार्णवसंक्षेप मयूरज्वालादीप्त्योः रथस्याक्षे शङ्कौ चाथ द्वयोरयम् । मयूरो बर्हिणे ना तु स्यादपामार्गसंज्ञके ॥ १३७३ ॥ Nānārthārṇavasaṃkṣepa 4.1373
- शब्दरत्नावली कुण्डलिन्आत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥ उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि ॥ कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥ कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥ कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥ कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ Śabdaratnāvalī 7.20.105
- शब्दरत्नावली हरिस्वैरं पुमांस्तु स्वच्छन्दमन्दयोः क्वापि वाच्यवत् । हरिरिन्द्रांशुब्रह्मेन्दुमण्डूकयमबर्हिषु ॥ Śabdaratnāvalī 7.27.49
- शब्दरत्नावली मयूरमन्थरः पुंसि मत्थानवाधकोषफलेषु च । पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥ मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः । मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥ महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः । मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥ Śabdaratnāvalī 7.27.95