शिखण्ड
śikhaṇḍaपुं · masc.In 12 kośas: 10 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.
शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
वाणी केका शिखा चूडा चन्द्रको मेचकः स्मृतः ।प्रचलाकः शिखण्डश्च कलापो वर्ह उच्यते ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
कलापो बर्हभारेस्य पिच्छबर्हे च न स्त्रियाम् ।शिखण्डी च शिखण्डो ना नेत्रं षण् चन्द्रिका स्त्रियाम् ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
करण्ड-कूष्माण्ड-वरण्ड-रुण्ड-भारुण्ड-गुण्डा लगुडः शिखण्डः ।गुडः पिचण्डोऽथ जपाप्रसून-निवाप-कोपेषु च पिण्ड उक्तः ॥ १५ ॥
उपजातिः
genderपुंmasc.
कलिञ्जगण्डौ लगुडः पिचण्डोवरण्डकूष्माण्डकरण्डरुण्डाः ।नाडीव्रणाङ्गुष्ठह[2]ठा गुणश्चघटो नरे भ्रूणशिखण्डचण्डाः ॥ १८ ॥
उपजातिः
genderपुंmasc.
मयूरे मेघनादी स्याद्बर्ही बर्हिण इत्यपि ।पिच्छः शिखण्डस्तद्बर्हे तच्चूडा पिण्डिका स्मृता ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
एतन्नामानि मन्यन्ते मयूरस्य बुधैरिह ।केकाऽस्य वाक् तथा पिच्छं शिखण्डश्च शिखण्डकः ॥ २३८९ ॥
अनुष्टुप्
genderपुंmasc.
शिखायान्तु शिखा चूडा मयूरस्य निगद्यते ।शिखण्डोऽस्त्री पिच्छबर्हे शिखिपुच्छशिखण्डके ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दोऽस्य केका बर्हस्तु प्रचलाककलापकौ ।शिखण्डः पिञ्छमप्यस्य मेचको बर्हचन्द्रकः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
चूडा केशी केशपाशी शिखण्डी कमुजा शिखा ।बालानां सा काकपक्षः शिखण्डश्च शिखण्डकः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
शिखण्डः कथितः सद्भिश्चूडायां शिखिपुच्छके ।कोदण्डं कार्मुकं प्रोक्तं कोदण्डो भ्रूलतापि च ॥
अनुष्टुप्
मयूरपिञ्छे स्त्री तु स्याच्छिखायां हि शिखण्ड्यसौ ।शिखण्डी तु द्वयोर्ज्ञेयो मयूरेऽपि च कुक्कुटे ॥ १८३३ ॥
अनुष्टुप्
meaningsमयूरपिञ्छ
न स्त्रियां श्रवणाक्ष्णोश्च मले च सेचपात्रके ।भेरुण्डी यक्षिणीभेददेवतान्तरयोः स्त्रियाम् ॥भयानके भिन्नलिङ्गं भेरुण्डं गर्भधारणे ।मार्तण्डो मिहिरे क्रोडे शिखण्डो वर्हचूडयोः ॥मारुण्डोऽपि च सर्पाण्डे पथगोमयमण्डले ।वण्डोशाविकाश(?) स्त्रीवर्त्तिभेदेषु च स्त्रियाम् ॥वितण्डा स्त्री वादभेदे कच्वी शाके शिफाद्वये ।सरण्डः सरटे धूर्ते कामुके भूषणान्तरे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 1 व (syllables merged)
शिखण्ड as a meaning in nānārtha verses
- कोषकल्पतरु जीरकपुंसि जीरकयवानिकाद्वये स्या[252b]च्छिखावलशिखण्डवाच्यपि । निर्धने हृतदयेऽपि कीटको भेद्यवत्समुदितो विचक्षणैः ॥ ७० ॥ Koṣakalpataru 6.1.70
- कोषकल्पतरु शिखाशङ्खो ललाटास्थनि कम्बुनख्यो- र्न स्त्री च तादृग्वलये निधौ ना । शिखण्डिचूडाग्रकनीनिशाखा- शिखण्डयात्रार्चिषु लाङ्गलिक्याम् ॥ ७९ ॥ Koṣakalpataru 6.2.79
- परमानन्दीयनाममाला प्रचलाकप्रचलाको भुजंगेऽपि शराघातशिखण्डयोः । चुचुके सेवने सूत्रे स्मृतं पिप्पलकं बुधैः ॥ ३२१ ॥ Paramānandīyanāmamālā 5.19.321
- शब्दरत्नावली प्रचलाकनिपुने क्षपणे हीने निर्ग्रन्थिक उदाहृतः । शिखण्डे भुजगे बाणे प्रचलाकः समीरितः ॥ Śabdaratnāvalī 7.1.178
- वैजयन्ती बर्हपोत्रं मुखाग्रदेशे स्यात्सूकरस्य हलस्य च । नवनीतं पयः पीथं बर्हं पर्णशिखण्डयोः ॥ २२ ॥ Vaijayantī 6.3.22