कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वाणि

vāṇiस्त्री · fem.

In 11 kośas: 12 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.913 · p. 36
वाणिर्व्यूतिर्वानदण्डो वेमा सूत्राणि तन्तवः ॥ ९१३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.28
वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.57 · p. 208
करणी लेपनी वेमा वायदण्डश्च पुंस्युभौ ।सूत्राणि तन्तवः पुंसि वाणिर्व्यूतिरुभे स्त्रियौ ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.26 · p. 441
लिड्गीर्भाषा वाणिगाथे जिह्वा वाणी द्वयोः पुमान् ।घोषः स्वरः स्वनोऽपि स्याद्गणो धेनाऽपि कारिका ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.13 · p. 296
स्यात्पिञ्जनं विहननं तूलस्फोटनकार्मुकम् ।वाणिर्व्यूतिः स्त्रियौ न स्त्री पुस्तं लेप्यादिकर्म च ॥न स्त्री वेमा वानदण्डस्तन्तुकाष्ठं तुरी स्त्रियाम् ।तुन्नवायस्तन्तुवायः सौचिकश्च स्थविश्च सः ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.425 · p. 154
कुविन्दस्तन्तुवायः स्यास्त्रसरः सूत्रवेष्टने ।व्यूतिर्वाणिर्वानदण्डो वेमा सूत्राणि तन्तवः ॥ ४२५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.602 · p. 104
उद्घाटनं चोद्घटनं घटीयन्त्रे तु घट्ठणम् ।वेमा वयनदण्डेऽस्मिन्व्यूतिर्वाणिरपि स्मृता ॥ ६०२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1541 · p. 245
व्यूतिर्वाणिस्तथा वानं चेति वानस्य कथ्यते ।वानदण्डो वापदण्डो वेमो वेमा च मन्यते ॥ १५४१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.47 · p. 156
तत्त्रञ्च तन्त्रवापोऽस्त्री तच्छलाका प्रवाणिका ।वाणिक्रियायां वाणिः स्त्री वाणी च व्यूतिरित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.100 · p. 185
दैत्येऽसुर आसुरश्च सरस्वत्यां गिरा गिरौ ।वाग्-वाचे वाणि-वाण्यौ च तालव्याद्या च शारदा ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1534 · p. 185
वाणिर्व्यूतं तु वानं स्यात् पिचुर्ना तूलमस्त्रियाम् ।धाराः कार्पासतूलाः स्युस्तेषां तु प्रविसारणम् ॥ १५३४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.8 · p. 136
कला शिल्पं च कर्माथ तंतुवायः कुविन्दकः ।वाणिर्व्यूतिश्च वानं स्याद्वेमा ना वानदण्डकः ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.16 · p. 196
भेद्याभः कुकरे गुवाकुभिदि तु झूणिः स्त्रियां दुःसुर-स्तुत्यां चाथ कपर्दकीयशतके भाष्येऽपि चूर्णिः स्त्रियाम् ।भूर्णिः स्त्री भुवि पोषके तु परवज्जूर्णिस्तु कान्ता ज्वरेसंतापिन्यपरोपमोऽथ जलदे मूल्ये च वाणिः पुमान् ॥ १६ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 12 तु (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.16 · p. 196
व्यूतौ स्त्री च निषङ्गके त्रिषु भवेत्तूणोऽथ नील्यां स्त्रियांवाणी तु श्रुतिभारतीद्वयगता फाणिस्तु खर्वे गुडे ।ऊर्म्यर्चिः किरणेषु पुंसि च घृणिः स्थाणुः पुमाञ्शंकरेन स्त्री स ध्रुवकीलयोरथ नृपे वंशे च वेणुः पुमान् ॥ १६ ॥
शार्दूलविक्रीडितम्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास वकारादयः Paramānandīyanāmamālā 5.24.348 · p. 206
वर्णः कीर्तौ द्युतौ गीतक्रमे शुक्लद्विजादिके ।बाणो दैत्ये शरे वृक्षे वाणिर्मेघः सरस्वती ॥ ३४८ ॥
अनुष्टुप्