All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · वकारादयः
[अथ] वकारादयो यथा ।
वर्णः कीर्तौ द्युतौ गीतक्रमे शुक्लद्विजादिके ।बाणो दैत्ये शरे वृक्षे वाणिर्मेघः सरस्वती ॥ ३४८ ॥
5.24.348 · p. 206
अनुष्टुप्
वीर्यं बले प्रभावे च वेला काले जलोन्नतौ ।वरो जामातरि श्रेष्ठे विधुः श्रीपतिचन्द्रयोः ॥ ३४९ ॥
5.24.349 · p. 206
अनुष्टुप्
वज्रं हीरे पवौ वेरं शरीरे चन्दने जले ।वामी तु रासभी प्रोक्ता शृ[31]गाली करभी तथा ॥ ३५० ॥
5.24.350 · p. 206
अनुष्टुप्
वामो महेश्वरे कामे प्रतिकूले पयोधरे ।वाहस्तुरंगमे मेघे व्यूहः सङ्घवितर्कयोः ॥ ३५१ ॥
5.24.351 · p. 206
अनुष्टुप्