सूत्र
sūtraक्ली · neut.In 17 kośas: 33 synonym verses, 6 as a nānārtha head word, 13 as a meaning of another word.
परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च ।स्युर्दृष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ॥ २४६ ॥
गीतिः
genderक्लीneut.
genderक्लीneut.
वाणिर्व्यूतिर्वानदण्डो वेमा सूत्राणि तन्तवः ॥ ९१३ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
जीवा-ऽजीवोपकरण-गुणमार्गल(ण)-रज्जु-सूत्र-पूर्वभिदाम् ।कुलकर-पिण्डप्रकृति-स्रोतस्विन्यश्चतुर्दश तु ॥ २४ ॥
आर्या
genderक्लीneut.
कलापः पुंसि मुक्तार्थाद्धारः प्रालम्ब इत्यपि ।स्त्र्यावली स्रग्लता यष्टिः सूत्रं प्रतिसरस्त्रिषु ॥ २५९ ॥
अनुष्टुप्
genderक्लीneut.
नयनं नायनं नाय उपादथ द्विजायनम् ।स्यात्सूत्रं ब्रह्मयज्ञाभ्यां पवित्रमुपवीतकम् ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderक्लीneut.
करणी लेपनी वेमा वायदण्डश्च पुंस्युभौ ।सूत्राणि तन्तवः पुंसि वाणिर्व्यूतिरुभे स्त्रियौ ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
सेवनं सीवनं स्यूतिस्त्रिषु स्यूतप्रसेवकौ ।त्रसरः सूत्रवेष्टे स्याच्चूची सूत्रं तु पिप्पलम् ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
क्लीबेऽक्षरं तु वर्णोर्णो ग्रन्थो द्वात्रिंशदक्षरी ।अपि प्रबन्धः सन्दर्भः सूत्रं सूचनकारि यत् ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
संसारतीरनीहारसूत्राणां तुवरस्य च ।सहस्रवक्त्रनेत्राणां पत्रशृङ्गारयोस्तथा ॥ १७६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दशास्त्रं व्याकरणं तदैन्द्रादिभिदाष्टधा ।सूत्रं स्तवनकृत्क्लीबेऽथ प्रोक्ते तेन भेद्यवत् ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
genderक्लीneut.
गुणस्तन्तुः सूत्रमस्त्री तत्तु कार्पासजं पिचोः ।पिचव्यं त्रिषु तत्साधु धौतकौशेयकं पुनः ॥ ८९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोटरकुटीरवस्त्रं केसरकासारसंसाराः ।क्षत्रं चक्रं चुक्रं तक्रं सूत्रान्तरे पद्रम् ॥ ६१ ॥
उपगीतिः
genderपुंक्लीm. n.
यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः ।तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः ।यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च ।इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥
metre not recognised
genderक्लीneut.
द्विजायिनी ब्रह्मसूत्रं सूत्रं यज्ञोपवीतिकम् ।पवित्रं चोपवीतं तूपोद्धृते दक्षिणे भुजे ॥ ११६ ॥
अनुष्टुप्
genderक्लीneut.
कृतान्तश्चाथ सूत्रं स्यात्सूचकं प्रस्तुतार्थतः ।तद्भाष्यमुच्यते यत्तु सूत्रमात्रार्थबोधकम् ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
कुविन्दस्तन्तुवायः स्यास्त्रसरः सूत्रवेष्टने ।व्यूतिर्वाणिर्वानदण्डो वेमा सूत्राणि तन्तवः ॥ ४२५ ॥
अनुष्टुप्
genderक्लीneut.
हिञ्जीरस्तुबरः सूत्रकूरालिञ्जरकूबराः ।वस्त्रोपवस्त्रनीहाराः क्षत्रपद्रान्तराण्यपि ॥ १५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सिद्धान्तागमराद्धान्तकृतान्ताः प्रोक्तयः श्रुतम् ।समयः प्रवचनं सूत्रं ग्रन्थः शास्त्रं च पुस्तकम् ॥ १३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
भेदास्तु दृष्टिवादस्य क्रमशः पञ्चसंख्यकाः ।परिकर्म तथा सूत्रम् पूर्वानुयोगसंज्ञकम् ॥ ३५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
genderक्लीneut.
अथ सूचनकृत् सूत्रं सूत्रोक्तार्थप्रपञ्चकम् ।भाष्यं ज्ञेयं च प्रस्तावः प्रकरणं ज्ञायतां तथा ॥ ३६७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कथ्यते तदर्धः सूत्रं सीवनी साक्षरैः सदा ॥ ९८६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सूत्राणि तन्तवश्चैव सूत्रसंज्ञाद्वयं भवेत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 व (wrong syllable)
genderक्लीneut.
सूत्रं क्लीबे च ना तन्तुः तर्कुः कपालनालिका ।तर्कुशानः झामरः स्यात् तर्कुपीठी च वर्तिनी ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderक्लीneut.
सूत्रिः सूत्री सूचि-सूत्रे द्वे पिप्पलक-पिप्पले ।कर्तनसाधने तर्कुस्तर्कुट्यपि च सीवनम् ॥ ३४० ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 न (wrong syllable)
genderक्लीneut.
सूत्रः सूत्रं सूत्र्यपि स्यादुपानहि तु पादुका ।पादूः पन्नद्धापि पादाज्जङ्गुर्वीथी रथी तथा ॥ ३४३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वायस्तु तन्तुसंतानो वेमा ना वायदण्डकः ।सूत्राणि तन्तवो द्वौ तु समौ रल्लककम्बलौ ॥ ८८४ ॥
अनुष्टुप्
genderक्लीneut.
सिद्धरूपः प्रयोगो यैः कर्मणामवगम्यते ।ते कल्पा लक्षणार्थानि सूत्राणिति प्रचक्षते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 णि (wrong syllable)
genderक्लीneut.
द्विजायनी ब्रह्मसूत्रं सूत्रं यज्ञोपवीतकम् ।पवित्रञ्चोपवीतन्तु प्रोद्धृते दक्षिणे भुजे ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
आवर्तनं तु वलनं सूत्राणि नरि तन्तवः ।सौचिकस्तुन्नवायः स्यात्सूचिः सूचा च सीवनी ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
नन्दी चारी महाचारी कथा सूत्रं प्ररोचना ॥ १४१.५ ॥
genderक्लीneut.
उक्तद्वयमुपस्थोऽस्त्री गुह्यप्रजनने नपुम् ।सीवन्यस्मादधः सूत्रं गुह्यमध्यं गुडो मणिः ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.
सूत्रं पुंस्यपि मन्यन्ते लिङ्गशास्त्रकृतो बुधाः ।तन्तौ सङ्ग्रहवाक्ये च यज्ञसूत्रेऽप्यथ स्त्रियाम् ॥ १५४३ ॥
अनुष्टुप्
स्वरो नासानिलोदात्तध्वनिषड्जादिके पुमान् ।सारो मज्जास्थिरांशे च बलेऽप्यतिदृढे पुमान् ॥विपिनन्याय्यनीरेषु क्लीबलिङ्गं वरे त्रिषु ।सान्द्रं स्निग्धे मनोज्ञे च नालवाले नपुंसकम् ॥सिप्रो निदाघनीरे ना सिप्रा स्त्री सरिदन्तरे ।सूत्रन्तु सूजनाग्रन्थे व्यवस्थायाञ्च तन्तुषु ॥
अनुष्टुप्
सूत्रं तु संग्रहोक्तौ स्यात् पोत्रं हलमुखेऽपि च ।कीर्तिः पङ्के ज्वरे जर्तिरार्तिस्तु धनुषोऽग्रके ॥ १७२३ ॥
अनुष्टुप्
meaningsसंग्रहोक्ति
हलतिग्मकरौ सीरौ सान्द्रं मृदौ घने वने ।तन्वादिग्रन्थयोः सूत्रं कारणेऽपि च दृश्यते ॥ ३८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मृ (wrong syllable)
स्नानीयेऽभिषवे स्नानं स्थानं स्यादाश्रये स्थितौ ।सूत्रं तन्तौ संग्रहोक्तौ सुखमानन्दतोययोः ॥ ३६ ॥
अनुष्टुप्
सूत्र as a meaning in nānārtha verses
- कोषकल्पतरु स्यूमभद्रे लब्धकरक्षणे निगदितं स्याच्चौरकेऽथ स्त्रियां गौर्यां स्याद्गणहासके च, नगरे तूमं तथा घट्टके । सूर्ये यष्टरि पुंसि, शुष्ममुदितं तेजस्यशीतद्युतौ ना स्यूमस्तु मयूखसूत्रगुणयोर्दक्षे क्षमः क्षन्तरि ॥ ५९ ॥ Koṣakalpataru 6.25.59
- कोषकल्पतरु उत्साहशूर्पे तथा स्यात्कमठस्य पृष्ठे स्यात्कोटरे ना महिषीशिशौ च । उत्साह उक्तो नरि चोद्यमे ऽपि प्रचक्षते तं सुधियश्च सूत्रे ॥ ५० ॥ Koṣakalpataru 6.32.50
- नानार्थार्णवसंक्षेप तन्तुनान्दीवृक्षाह्वये त्रिस्तु विरलेऽल्पे कृशेऽपि च । तन्तुस्तु सूत्रे ना यज्ञसंस्थायां चाथ स द्वयोः ॥ ५११ ॥ Nānārthārṇavasaṃkṣepa 2.5.511
- नानार्थार्णवसंक्षेप धत्रभूमीगुडूच्योर्ध्रत्रस्तु ना वृक्षेऽर्केऽप्यथो नपि । गृहे नभसि सूत्रे च धत्रा तु दिवि सा स्त्रियाम् ॥ ६३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.635
- नानार्थार्णवसंक्षेप अष्टकापितॄनुद्दिश्य कर्तव्यं तत्र च क्ली तु सूत्रके । अष्टावयवके त्रिस्तु तस्याध्येतरि यस्य च ॥ ८७ ॥ Nānārthārṇavasaṃkṣepa 4.87
- नानार्थार्णवसंक्षेप उत्साहना हिंसायामथोन्मार्गे त्रिः स्रुवे चाजयोऽब्रवीत् । उत्साहोऽध्यवसाये ना सूत्रे च रभसोऽब्रवीत् ॥ २६७ ॥ Nānārthārṇavasaṃkṣepa 4.267
- नानार्थार्णवसंक्षेप कङ्कणस्त्रियां स्यात् करकेऽथ क्ली कङ्कणं करभूषणे । तथा भूषणमात्रे च सूत्रे त्वजय उक्तवान् ॥ ३२६ ॥ Nānārthārṇavasaṃkṣepa 4.326
- नानार्थार्णवसंक्षेप सीवनीस्त्रियामुपस्थस्याधस्तात्सूत्रे सूच्यां च नप् पुनः । स्यूतौ सीवनमेतच्च केषाञ्चिन्मतमीरितम् ॥ १९६५ ॥ Nānārthārṇavasaṃkṣepa 4.1965
- परमानन्दीयनाममाला पिप्पलकप्रचलाको भुजंगेऽपि शराघातशिखण्डयोः । चुचुके सेवने सूत्रे स्मृतं पिप्पलकं बुधैः ॥ ३२१ ॥ Paramānandīyanāmamālā 5.19.321
- शब्दरत्नावली गुणगणश्च प्रमथे वृन्दे संख्यायां सैनिकेऽपि च । गुणः सूत्रे चाप्रधाने मौर्व्वी त्यागवटीषु च ॥ कषादिशौर्यगन्धादिसत्त्वाद्यावृत्तिरज्जुषु । शुक्लादावपि पुंसि स्याद् गेष्णुर्ना गायने नटे ॥ Śabdaratnāvalī 7.15.8
- शब्दरत्नावली कङ्कणकङ्कणं मण्डने सूत्रे कौतुके करभूषणे । करेणुः स्त्री तु हस्तिन्यां मातङ्गे तु भवेत्पुमान् ॥ कार्मणः कर्मठे क्लीबं मन्त्रतन्त्रादि योजने । काकिनीमानदण्डे स्यात्पणतूर्यांशकेपि च ॥ Śabdaratnāvalī 7.15.29
- शब्दरत्नावली उत्साहआरोहस्तु समुच्छ्रयदीर्घत्वारोहणेषु च । कट्यामप्युत्तमस्त्रीणां तथावरोह इत्यपि । उत्साह उद्यमे सूत्रे कल्याणभावभेदयोः ॥ Śabdaratnāvalī 7.33.17
- त्रिकाण्डशेष योगयोगश्चारेऽपूर्वलाभे सूत्रे विश्रब्धघातिनि । उपाये सङ्गतौ ध्यानौषधसन्नाहयुक्तिषु ॥ ६७ ॥ Trikāṇḍaśeṣa 3.3.67