शिङ्घाण
śiṅghāṇaपुं · masc.In 9 kośas: 13 synonym verses, 1 as a nānārtha head word.
कण्डरा तु महास्नायुर्मलं किट्टं तदक्षिजम् ॥ ६३१ ॥दूषीका दूषिका जैह्वं कुलुकं पिप्पिका पुनः ।दन्त्यं कार्णं तु पिञ्जूषः शिङ्घाणो घ्राणसंभवम् ॥ ६३२ ॥
अनुष्टुप्
genderपुंmasc.
शिङ्घाणकोऽपि शिङ्घाणः सृणीका सृणिकापि च ॥ ४९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गौरीः स्त्री लोहचूर्णं स्यादथ शिङ्घाणमस्त्रियाम् ।धूर्त-मण्डूर-सरण-किट्टालानि च तन्मले ॥ ७० ॥
अनुष्टुप्
genderपुंक्लीm. n.
शिङ्घाणः स्नेहजन्माथ स्थानभेदात्स पञ्चधा ।रसनास्थो बोधकोऽसौ त्रिकस्थस्त्ववलम्बकः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
सृणीका स्यन्दिनी[91a] वक्त्रासवोऽप्यस्यास्त्वतिस्रवः ।स्यात्प्रसेकोऽथ शिङ्घाणकुरण्डो नासिकामलम् ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
घ्राणं कार्मण-कारणोष्ण-लवण-श्रीपर्ण-पारायणंशिङ्घाणं शरण-प्रमाण-करणक्षुस्माणदौर्वीणवत् ।श्राणं कौङ्कण-पूरणे च हरिणं स्याद्धोरणं बृंहणंप्रादेशान्तनितान्तवृत्तसुरतामन्तानि भूतं तथा ॥ ९९ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
पक्कण-कङ्कण-शिङ्घाणाः स्यु-र्वर्णः शुक्लाद्यक्षरवाची ।वास्तुः सक्तुर्जीवातुः स्या-द्भूतः प्रेते पूर्त-निकेते ॥ ४६ ॥
metre not recognised
genderपुंक्लीm. n.
शिङ्घाणो घ्राणजे तस्मिन्पिञ्जूषः कर्णयोर्मलम् ।पुष्पिका लिङ्गजे तस्मिन्विशिष्यैवं विभाव्यताम् ॥ २८७ ॥
अनुष्टुप्
genderपुंmasc.
शिङ्घाणः फेनडिण्डिरो नक्ररेतश्च पिच्छिलः ॥ २३ ॥
genderपुंmasc.
जीह्वामलं कुलुकं स्याद् दन्त्यमलं तु पिप्पिका ।कर्णमलं हि पिञ्जूषः शिङ्घाणो नासिकामलम् ॥ १०२१ ॥
metre not recognised
genderपुंmasc.
खरसोल्लः खरपात्रं शिङ्घाणं काचभाजनम् ।काष्ठलोही तु वातर्दिर्जीरको दीप्यकः स्मृतः ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderक्लीneut.
नासाग्रे दृष्टिबन्धोऽथ शिंघाणो नासिकामलः ।पिण्डूषः कर्णजमलः कर्णः शब्दग्रहः श्रवः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
श्मश्रु तु व्यंजनं चोटः समे शिंघाणशिंगिनी ।त्वक् स्त्री छदिस्तनुः कृत्तिः संछादन्यप्यसृग्धरा ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.doubtful