कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कारण

kāraṇaक्ली · neut.

In 15 kośas: 13 synonym verses, 8 as a nānārtha head word, 31 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.182 · p. 57
निमित्ते कारणं हेतुर्बीजं योनिर्निबन्धनम् ॥ १५१३ ॥निदानमथ कार्यं स्यादर्थः कृत्यं प्रयोजनम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.28
हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्थोपदेशः Bālaprabodhikā 4.60 · p. 71
गुञ्जनं मुञ्जने चापि गञ्जनं मशनं तथा ।कानहानं कारणं च भेरणं क्वजनं क्वजी ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.93 · p. 416
हेतुर्ना कारणं बीजं क्लीबे करणमित्यपि ।क्लीब आद्यं कारणं तु निदानं मूलवस्तु तत् ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.20 · p. 2
तमं तमः प्रमोहीति त्रयो मायोदिता गुणाः ।निमित्तं कारणं बीजमुपादानं निबन्धनम् ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.99 · p. 106
घ्राणं कार्मण-कारणोष्ण-लवण-श्रीपर्ण-पारायणंशिङ्घाणं शरण-प्रमाण-करणक्षुस्माणदौर्वीणवत् ।श्राणं कौङ्कण-पूरणे च हरिणं स्याद्धोरणं बृंहणंप्रादेशान्तनितान्तवृत्तसुरतामन्तानि भूतं तथा ॥ ९९ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.386 · p. 100
आकारस्त्विङ्गितं हेतुर्निमित्तं कारणं समम् ।निबन्धनं निदाने तु बीजं कार्यं तु तद्भवम् ॥ ३८६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.88 · p. 222
बीजं पिञ्जं चोचफाण्टे ललाटंव्युष्टं रिष्टं चीनपिष्टं कृपीटम् ।इष्टं गोष्ठं पृष्ठपिङ्गाणके चत्राणं तीक्ष्णं कार्मणं कारणं च ॥ ८८ ॥
शालिनी
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.141 · p. 33
प्रतिनादः प्रतिशब्दः प्रतिध्वानं प्रतिश्रुतिः ।निदानं कारणं हेतुः कृत्यमर्थः प्रयोजनम् ॥ १४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2756 · p. 449
निमित्तं कारणं योनिर्निदानञ्च निबन्धनम् ।बीजं हेतुश्च नामानि सप्तैव प्रथयन्ति वै ॥ २७५६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.309 · p. 22
दैवं दृष्टमदृष्टञ्च भाग्यपर्याय ईरितः ।कारणं पुंसि हेतुः स्यात् करणं बीजमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.276 · p. 37
आत्मा क्षेत्रज्ञपुरुषौ निदानं त्वादिकारणम् ।निमित्तं कारणं बीजं हेतुरर्थ उपधिवत् ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 प (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.16 · p. 124
अर्थिनो वचनं भाषा स्यात्प्रत्यर्थिन उत्तरम् ।कारणन्त्वभ्यवस्कन्दः प्रत्यवस्कन्द इत्यपि ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास णपादः Dharaṇikośa 14.1.8 · p. 49
कारणं घातने हेतावीरिणं शून्यमूषरम् ।वारुणी सुराप्रतीच्योः सरणिः पङ्क्तिमार्गयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सु (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.32 · p. 199
निर्वाणं गजमज्जने स्तिमितके मुक्तौ च निर्वर्तनेकुर्वाणस्त्रिषु कारके भृतिभुजि प्रोन्मृष्टपर्णे पुनः ।दौर्वीणं हरितारसे त्रिषु पुनः स्याद्वर्जने वारणंनागे पुंस्यथ यातनाकरणयोर्हेतौ वधे कारणम् ॥ ३२ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.439 · p. 84
तद्देशसम्भवे तु स्याद् द्वयोरेष तुरङ्गमे ।क्लीबं तु कारणं हेतौ रभसस्त्वभिधानवित् ॥ ४३९ ॥
अनुष्टुप्
meaningsहेतु
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.440 · p. 84
करणेऽपि पठत्येनं स्त्रीनपोस्त्वपि कारणा ।क्रियायां स्यात् कारयतेर्घाते चेत्यजयोऽब्रवीत् ॥ ४४० ॥
अनुष्टुप्
meaningsकरण
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.30 · p. 209
वराट्यामपि गुञ्जायां काकनीत्यपि कुत्रचित् ।कारणं करणे हेतौ यातनायान्तु कारणा ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2071 · p. 251
कैतवं कपटे द्यूते कारणं हेतुजन्मनोः ।बबादौ कारणे काये साधने रतिबन्धने ॥ २०७१ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.125 · p. 134
कोणोऽश्रो वाद्यलगुडे वधे हेतौ च कारणम् ।ग्रहणं स्वीकृतौ हस्ते गुणः स्याद्रज्जुसूदयोः ॥ १२५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.7 · p. 250
कारणं हेतुवधयोः कारकं हिंसकेपि च ।कीलालं रुधिरे तोये कुहरं गह्वरे बिले ॥ ७ ॥
अनुष्टुप्

कारण as a meaning in nānārtha verses