कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रमाण

pramāṇaक्ली · neut.

In 11 kośas: 6 synonym verses, 11 as a nānārtha head word, 14 as a meaning of another word.

एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात त्रिसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 3.8 · p. 200
मुद्रा-प्रमाण-गौरव-शिवभवमार्गाः शुभेतरा लेश्याः ।सर्वेऽप्यमी त्रिसंख्योपेताः काव्ये निबद्धव्याः ॥ ८ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.34 · p. 238
अनुमा त्वनुमानं स्यात्पुंसि चानुमितिः स्त्रियाम् ।प्रत्यक्षोपाक्षमध्यक्षं प्रमाणं प्रमितिः प्रमा ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.17 · p. 459
अङ्गीकारे तु परमं प्रमाणं वाढमेव च ।अवश्यं परितो विष्वक् सर्वतोऽपि समन्ततः ॥ १७ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.2 · p. 292
[141b]आयामस्तु प्रमाणं स्यात्परिमाणं तु सर्वतः ।तुलाद्यैः पौतवं मानं द्रुवयं कुडवादिभिः ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.99 · p. 106
घ्राणं कार्मण-कारणोष्ण-लवण-श्रीपर्ण-पारायणंशिङ्घाणं शरण-प्रमाण-करणक्षुस्माणदौर्वीणवत् ।श्राणं कौङ्कण-पूरणे च हरिणं स्याद्धोरणं बृंहणंप्रादेशान्तनितान्तवृत्तसुरतामन्तानि भूतं तथा ॥ ९९ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.18 · p. 172
स्पृष्टिः पृक्तिः स्पर्शने स्यात् नये नायो भवेदिह ।प्रमा प्रमाणं प्रमितौ प्रथा ख्यातौ निगद्यते ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.106
प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास णश्लोकः Dharaṇikośa 14.3.13 · p. 58
प्रमाणमनुमानादौ हेतुमर्यादयोरपि ।सम्यक्प्रवक्तृपुरुषे प्रमाणं मानशास्त्रयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.30 · p. 198
प्रमाणं ध्रुवे हेतुनीत्यादिशास्त्रेपरिच्छेदने चैकतायां तथोक्तम् ।प्रमातर्यपि प्रायशः क्लीब ऐक्येऽ-ऽप्यथो कोङ्कणं शस्त्रभेदेऽपि च * ॥ ३० ॥
भुजङ्गप्रयातम्metre not read in every linenearly भुजङ्गप्रयातम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.45 · p. 36
प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ।सम्यग्वक्तरि नित्ये स्यादेकताबोधयोरपि ॥ ४५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.46 · p. 36
छन्दोवृत्तविशेषेऽथ प्रयाणं मरणे गतौ ।नेत्रपूर्वप्रदेशे च हस्तिनामिति यादवः ॥ ४६ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.305 · p. 200
पर्यङ्को मञ्चके तन्त्रेऽप्यर्भके पृथुकः पुनः ।चिपिटेऽथ प्रमाणं स्यात्सत्ये माने च कारणे ॥ ३०५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.46 · p. 210
प्रघाणस्ताम्रकलसे चालिन्दे लोहमुद्गरे ।प्रमाणं नित्यमर्यादाशास्त्रहेतुप्रमातृषु ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.47 · p. 210
इयत्ता परिमाणार्थप्रधानसत्यवादिषु ।पक्षिणी पूर्णिमायां स्याद् विहङ्गीशाकिनीभिदोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2128 · p. 258
प्रमाणं हेतुविश्वासशास्त्रेयत्तासु शासने ।मर्यादायां प्रपञ्चस्तु विपर्यासे सुविस्तरे ॥ २१२८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.23 · p. 251
नवसूतगवीदुग्धे पीयूषममृतेऽपि च ।प्रमाणं बोधनेयत्तामर्यादाशास्त्रहेतुषु ॥ २३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.24 · p. 252
सम्यग्वक्तरि चाथ स्यात् प्रायणं मरणे गतौ ।पुष्करं हस्तिहस्ताग्रे जले वाद्यमुखे युधि ॥ २४ ॥
अनुष्टुप्
doubtful

प्रमाण as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् वर्ष्मन्क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ॥ १२३ ॥ Amarakośa 3.3.123
  • धरणिकोश मानमानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतावपि । वानं शुष्कफले शुष्के सीवने जलसंप्लवे ॥ Dharaṇikośa 19.2.3
  • धरणिकोश वर्ष्मन्वर्ष्म देहे प्रमाणे स्यादाकारेऽप्यतिसुन्दरे । धाम शक्तौ प्रभावेऽपि तेजोमन्दिरजन्मसु ॥ Dharaṇikośa 19.2.8
  • कोषकल्पतरु मानसंशोधनच्छेदनपालनेषु त्यागे तथा हस्तिमदे च दानम् । मानो ग्रहे चित्तसमुन्नतौ च न स्त्री प्रमाणे कुडवादिके च ॥ ८७ ॥ Koṣakalpataru 6.21.87
  • कोषकल्पतरु वर्ष्मन्रश्मौ शरीरेऽप्यथ साम वेदा- न्तरेऽप्युपायान्तरके च षण्ढे । वर्ष्म प्रमाणे वपुषि प्रदिष्टं स्यात्सुन्दरे चाकृतिवाचकं च ॥ ९२ ॥ Koṣakalpataru 6.21.92
  • नानार्थार्णवसंक्षेप द्यौत्रदीनतायां च शोके च द्यौत्रशब्दस्तु वासरे । प्रमाणेऽन्ये प्रतोदेऽन्ये ज्योतिष्यथ धनं भवेत् ॥ ३३ ॥ Nānārthārṇavasaṃkṣepa 2.3.33
  • नानार्थार्णवसंक्षेप न्यग्रोधन्यग्रोधो व्योमसंज्ञे स्यात् प्रमाणे वटपादपे । फले त्वस्य लुकोऽभावान्नैयग्रोधमिति स्मृतम् ॥ ९९२ ॥ Nānārthārṇavasaṃkṣepa 4.992
  • शब्दरत्नावली मानपानं पीतौ भोजने च रक्षणे च नपुंसकम् । भानुर्ना भास्करे रश्मौ भानुमत्यामपि स्त्रियाम् ॥ भिन्नस्तु सङ्गतेऽन्यस्मिन् फुल्ले च दारिते त्रिषु । मानं क्लीबे प्रमाणादौ मानश्चित्तोन्नतौ ग्रहे ॥ Śabdaratnāvalī 7.20.14
  • शब्दरत्नावली वर्ष्मन्वर्ष्म देहे प्रमाणेऽतिसुन्दरेऽपि च न द्वयोः । वाजी पक्षिशराश्वेषु वर्त्म नेत्रच्छदाध्वनोः ॥ वामनो दिग्गजे विष्णौ तथाङ्कोठद्रुमे पुमान् । अस्त्री रोगप्रभेदेऽपि त्रिषु स्यान्नीचखर्वयोः ॥ Śabdaratnāvalī 7.20.74
  • शब्दरत्नावली अग्रअराऽन्यवत् शीघ्रगे स्यात्क्लीबं चक्राङ्गशीघ्रयोः । अग्रमालम्बने वृन्दे परिमाणे पलस्य च ॥ पुरस्तादुपरिप्रान्ते एकाग्रे च नपुंसकम् । अतिरिक्ते प्रधाने च प्रमाणे चाभिधेयवत् ॥ अस्त्रं चापे प्रहरणे कृपाणे च नपुंसकम् । अभ्रं धातुभिदि स्वर्णे गगने स्याद्घनेऽपि च ॥ Śabdaratnāvalī 7.27.3
  • शब्दरत्नाकर टङ्कझषो मीने च मकरे झम्पाश्वादिगतौ गते । प्रमाणगर्वयोष्टङ्को मृगे पाषाणदारणे ॥ १९२७ ॥ Śabdaratnākara 4.1.1927
  • त्रिकाण्डशेष मानभृतिकाञ्चनयोर्मर्म मलिनं दूषितेऽसिते । मानं प्रमाणे तौल्ये च मीनो राश्यन्तरे झषे ॥ २५१ ॥ Trikāṇḍaśeṣa 3.3.251
  • वैजयन्ती टङ्कवशाभिप्राययोश्छंदो जूर्णी रविहविर्भुजौ । टंकौ प्रमाणगर्वौ च डिंबः प्लीहखगांडयोः ॥ २४ ॥ Vaijayantī 6.1.24
  • वैजयन्ती वर्ष्मन्वर्ष्म न स्त्री शुभाकारे सौम्ये देहप्रमाणयोः । विभुः सर्वगते पत्यौ चन्द्रे रविकुबेरयोः ॥ ८१ ॥ Vaijayantī 6.5.81