कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पीत

pītaवि · adj.

In 21 kośas: 31 synonym verses, 6 as a nānārtha head word, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1395 · p. 53
कापोतस्तु कपोताभः पीतस्तु सितरञ्जनः ।हारिद्रः पीतलो गौरः पीतनीलः पुनर्हरित् ॥ १३९४ ॥पालाशो हरितस्तालकाभो रक्तस्तु रोहितः ।माञ्जिष्ठो लोहितः शोणः श्वेतरक्तस्तु पाटलः ॥ १३९५ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.14
पीतो गौरो हरिद्राभः पलाशो हरितो हरित् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.735 · p. 84
हरिः कद्रुः कडारश्च पिङ्गलः परिकीर्तितः ।पीतं हारिद्रमाख्यातं श्यावं तु कपिशं स्मृतम् ॥ ७३५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.379 · p. 62
गौरं कालेयकं कान्तं जागुडं केशरोऽस्त्रियाम् ।कुङ्कुमं चापि वाह्लीकं पीतं काश्मीरसंभवम् ॥ ३७९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.22 · p. 135
गौरो महान् कुरवकः प्रमोदोसनपुष्पकः ।कुमुदः कालकः पीतः केदारस्तूर्णकाङ्गुभौ ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.570 · p. 196
पीतं काञ्चनकं गौरीललितं कनकद्रवः ।शिलार्थाज्जन्तुपर्यायमश्मोत्थं गिरिसम्भवम् ॥ ५७० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.600 · p. 199
गारुत्मतो गरारातिर्गरुडोद्गीर्ण इत्यपि ।पुष्परागः पीतरत्नं पीताश्मा पीत इत्यपि ॥ ६०० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.188 · p. 269
पीतस्ताम्रफलो दीर्घकालः स्याल्लम्बकर्णकः ।गुणाढ्यः कोलको गन्धपुष्पो रावत इत्यथ ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.163 · p. 435
शितिः कालो मेचकोऽपि रामश्च मिश्रवर्णके ।कपोताभः कपोतोऽथ पीतः पीतल इत्यपि ॥ १६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.29 · p. 56
पीत-पीतल-सितानुरञ्जनागौर एष कलरूक्य(?) ईरितः ।पिञ्जरो भवति पीतलोहितःसम्मतः स च कुसुम्भसंनिभः ॥ २९ ॥
रथोद्धता
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.60 · p. 28
सूत्तं तु साधु दत्तं पीतं धीतं च लिप्तं तु ।भक्षित-चर्वित लीढ-प्रत्यवसित-गिलित-खादित-प्सातम् ॥ ६० ॥
उद्गीतिः
genderविadj.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.234 · p. 129
कुङ्कुमे रक्तपर्यायं सङ्कोचपिशुनं वरम् ।धीरं कुसुम्भं घुसृणं पीतं वाल्हीकपीतने ॥ २३४ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.177 · p. 30
कुदुरो णेटकस्तार्क्ष्यः क्रमणो ग्रहभोजनः ।पालकः पुरुलः पीतो माषाशी सिंहविक्रमः ॥ १७७ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.227 · p. 37
रक्षितं तूद्धृतं स्नेहान्मथितात्तु प्रमाथितम् ।पयो दुग्धं च पीतं च स्तन्यं पुंसवनं रसः ॥ २२७ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 149 · p. 72
लोहितं रक्तमाताम्रं पाटलं विशदारुणम् ।पीतं गौरं हरिद्राभं पालाशं हरितं हरित् ॥ १४९ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.150 · p. 70
आनीलो नीलवर्णोऽर्वा त्रियूहः कपिलो हयः ।पीतस्तु हरियो वाजी कियाहो लोहितो हयः ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.289 · p. 88
हारिद्रः पीतलः पीतो गौरः स्यात्सितरञ्जनः ।हरितस्तालकाभश्च पालाशोऽप्यथ लोहिते ॥ २८९ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.187 · p. 49
गन्धसारो मलयजोऽप्यथ गोशीर्षमिष्यते ।स्यात्तैलपर्णिकं पीतं हरिचन्दनमित्यपि ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.550 · p. 96
तत्स्रोता(तो?)ञ्जनमारभ्यः स्युरञ्जनविभेदकाः ।हरिताले तु पीतं स्यात्पीतनं पीतकं तथा ॥ ५५० ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.12 · p. 123
पीताश्च तीव्रगामिन्यः(?) स्तब्धवैराश्च भैरवाः ।तेषां राजा तु शङ्खः स्यात्तद्विषे दारदो मतः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.326 · p. 23
नीलः श्यामः शितः कृष्णः पीतो गौरोऽतिपिङ्गलः ।अरुणो लोहितो रक्तः कृष्णलोहितधूम्रकौ ॥ ३२६ ॥
अनुष्टुप्
genderविadj.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.29 · p. 44
पाकलः पुरुलः पीतो माषाशी सिंहविक्रमः ।शालिहोत्री व्रती कुण्डी प्रोथी दारुप्रकीर्णकः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.82 · p. 42
पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ।कालः श्यामः सितिः कृष्णः श्यामलो मेचकोऽसितः ॥ ८२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2532 · p. 410
कापोतश्च कपोताभः कपोतवर्णवान् भवेत् ।पोतश्च पीतलो गौरो हारिद्रः सितरञ्जनः ॥ २५३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.340 · p. 24
असितश्चेति पर्यायः कृष्णवर्णस्य कीर्तितः ।पीतो गौरो हरिद्राभः पीतपर्याय ईरितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.16 · p. 250
शुक्रः शुक्लः, कपोताभे कापोतः स्यात्कपोतवत् ।कपोटोऽप्यथ हारिद्रे कथितौ पीत-पीतकौ ॥ १६ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.428 · p. 57
गन्धाश्मा गन्धकः पीतः पामशत्रुः सुगन्धिकः ।अभ्रकं व्योममेघाख्यं गिरिजामलमित्यपि ॥ ४२८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.889 · p. 111
पीतो हारिद्राभो गौरो हरितो हरिच्च पालाशाः ।श्यावः कपिशो धूमलधुम्रौ कृष्णारुणोऽथ पिङ्गः स्यात् ॥ ८८९ ॥
गीतिः
genderविadj.
लः पिनाकी सितश्चन्द्रः पृथ्वीबीजं प्रकीर्त्तितः ।पूतना पीतशिखिनः लकारवाचकः स्मृतः ॥ ५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.14 · p. 42
तालमालं वंशपत्रं पीतनं रोमहृद्वरम् ।सौगन्धिकस्तु पामारिः पीतो गन्धाश्मगन्धकौ ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.11 · p. 196
काले कृष्णासितश्यामनीलश्यामलमेचकाः ।रोहिते लोहितो रक्तो हारिद्रे पीतपीतले ॥ ११ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.15 · p. 68
लूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे ।पीता स्मृता हरिद्रायां पीतं स्यात्पानगौरयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.43 · p. 210
लूतोर्णनाभे च पिपीलिकायांगदान्तरे स्यात्तु हरिद्रिकायाम् ।पीता स्त्रियां पुंसि तु गौरवर्णे-ऽन्यवत्तु तद्वत्यपि धीतनाम्नि ॥ ४३ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.776 · p. 109
पितृसाध्वादिके चाथ पत्तुं पतितुमेष्टरि ।पित्सं त्रिर्विहगे तु द्वे पीतस्तु नरि गन्धके ॥ ७७६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.777 · p. 109
हरिद्रावर्णसदृशे वर्णे तद्वति तु त्रिषु ।पिबतेः पीयतेश्चापि क्रियायाः कर्मतां गते ॥ ७७७ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.778 · p. 109
क्ली तु पीतिक्रियायां स्याद् हरिद्रायां तु सा स्त्रियाम् ।पीताथ पीथशब्दस्तु क्लीबं क्षीरे जलेऽपि च ॥ ७७८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.25 · p. 215
पीतिः स्याद्घोटके पुंसि स्त्रियां पाने निगद्यते ।पीता स्त्री तु हरिद्रायां पाने क्लीबं सिते त्रिषु ॥
अनुष्टुप्
meaningsसित

पीत as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् अवदातअवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ ८० ॥ Amarakośa 3.3.80
  • नामलिङ्गानुशासनम् गौरगौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः ॥ १८९ ॥ Amarakośa 3.3.189
  • धरणिकोश अवदातअपावृतः स्वतन्त्रः स्यात्पिहितश्चाप्यपावृतः । उपाकृतः समानीते यज्ञार्थं च हते पशौ । अवदातः सिते पीते परिशुद्धप्रधानयोः ॥ Dharaṇikośa 15.2.71
  • धरणिकोश गौरपारी घण्टा तथा पारं पर्यन्ते च परे तटे । गौरोऽरुणे सिते पीते गौरी कन्या शिवापि च ॥ Dharaṇikośa 26.2.10
  • धरणिकोश पिञ्जरगर्गरं मत्स्यभेदे स्याद्गर्गरी दधिमन्थनी । पिज्जरं हरिताले च पीतेऽप्यश्वान्तरेऽपि च ॥ Dharaṇikośa 26.2.45
  • कोषकल्पतरु अवदातऋद्धेऽवसानेऽवगते गतौ च संप्रोच्यतेऽत्रावसितं प्रवीणैः । सिते च पीते नरि तद्युते तु त्रये विशुद्धे प्रवरेऽवदातः ॥ ४६ ॥ Koṣakalpataru 6.17.46
  • कोषकल्पतरु शारदस्वरे निषादः श्वपचे प्रसाद- स्त्वनुग्रहे काव्यगुणे प्रसत्तौ । स्वाच्छ्ये नवे च प्रतिभेऽप्यधृष्टे पीते तु मुद्गे नरि शारदः स्यात् । स्त्री सप्तप[5b]र्णेऽम्बुकणागतश्च स्याद्दारदः पारदहिङ्गुलार्थः । विषेऽप्यथो सर्पिषि तोयदं स्या- न्ना मुस्तके वारिधरेऽपि तद्वत् ॥ ३४ ॥ Koṣakalpataru 6.19.34
  • कोषकल्पतरु गौरकीरः शुके स्यादपि देशवाची गौरस्तु पीतारुणपाण्डुरेषु । शुद्धे च वाच्ये सितसर्षपाष्ट- वर्षातनूजेन्दुषु संप्रदिष्टः ॥ २१ ॥ Koṣakalpataru 6.27.21
  • नानार्थार्णवसंक्षेप गौरगौरस्तु ना विरिञ्चे द्वे धववृक्षेऽसनद्रुमे । शुक्लपीतारुणगुणेष्वेतद्युक्तेषु तु त्रिषु ॥ ३७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.377
  • नानार्थार्णवसंक्षेप पद्मगजबिन्दुष्वष्टकायां नागराजान्तरे तु ना । निधिभेदे व्यूहभेदे वर्णे पीतसितासिते ॥ ७०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.702
  • नानार्थार्णवसंक्षेप अवदातअवदातः सिते पीते प्रधाने शुद्ध एव च । अविदूरे(ऽप्य?त्व)वष्टब्धमवलम्बित एव च ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 6.7
  • परमानन्दीयनाममाला गौरगन्धो लेशे स्मये गन्धे गुरुः पित्रादिजीवयोः । गौरः सितेऽरुणे पीते चन्द्रकर्पूरयोः शुचौ ॥ १५३ ॥ Paramānandīyanāmamālā 5.9.153
  • परमानन्दीयनाममाला पिङ्गपिङ्गा गोरोचनागौर्योः पिङ्गं बालकपीतयोः । पिण्डः सिह्ले जपापुष्पे वोलेऽपि कवलाङ्गयोः ॥ २९८ ॥ Paramānandīyanāmamālā 5.19.298
  • शब्दरत्नावली गौरत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
  • शब्दरत्नावली पिञ्जरपिञ्जरः पीतहेमाश्वभेदपीतनकेषु च । पिण्डारः कृपणे गोवे महिषीरक्षके द्रुमे ॥ Śabdaratnāvalī 7.27.88
  • तन्त्राभिधान षषः श्वेतो वासुदेवश्च पीतं प्रज्ञा विनायकः । परमेष्ठी वामबाहुः श्रेष्ठो गर्भविमोचनः ॥ १५६ ॥ Tantrābhidhāna 2.48.156
  • तन्त्राभिधान ळ्ग्लौर्मृडानी च वेदार्थसारो नारायणः स्वयम् । जठरो नकुलिः पीतः शिवेशोऽनङ्गमालिनी ॥ १६९ ॥ Tantrābhidhāna 2.51.169
  • वैजयन्ती गौरगौरोऽरुणे सिते पीते गृह्यस्त्वस्वैरिपक्ष्ययोः । क्लिन्नाक्षे क्लिन्ननेत्रे च चिल्लं चुल्लं च पिल्लवत् ॥ ५ ॥ Vaijayantī 6.4.5