All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
षान्ताः · षपादः
॥ इति शान्तवर्गः ॥
॥ षपादः ॥
विट् च व्याप्तिस्तथा विष्ठा त्विट् च शोभा [102] तथा प्रभा ।ऋषिर्वेदे मुनौ रश्मौ शुषिः शोषः शुषिर्बिलम् ॥
30.1.1 · p. 216
अनुष्टुप्
मिषं व्याजो मिषं स्पर्धा शोषः शोषणयक्ष्मयोः ।किल्बिषा मदिरा द्रोहे कलुषं पापमाविलम् ॥
30.1.2 · p. 216
अनुष्टुप्