धिष्ण्य
dhiṣṇyaक्ली · neut.In 17 kośas: 15 synonym verses, 7 as a nānārtha head word, 2 as a meaning of another word.
शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ ॥षोडशार्चिर्दैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः ।छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ १२० ॥मन्दः क्रोडो नीलवासाः स्वर्भाणुस्तु विधुंतुदः ।तमो राहुः सैंहिकेयो भरणीभूरथाहिकः ॥ १२१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उशना शुक्रः काव्यो दैत्यगुरुर्भार्गवः कविर्धिष्ण्यः ।असितः क्रोडः पङ्गुश्छायातनयः शनैश्चरः शौरिः ॥ ४८ ॥
गीतिः
genderपुंmasc.
भं नक्षत्रं तारकं तारका च,ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।पुष्यस्तिष्यः स्याद्धनिष्ठा श्रविष्ठा,दाक्षायण्यः कीर्तिताश्चन्द्रदाराः ॥ ५१ ॥
शालिनी
genderक्लीneut.
सप्तविंशति नक्षत्रं धिष्ण्यर्क्षोडुश्व कथ्यते ।दंता रदाश्च द्वात्रिंशत्संज्ञोक्ता मुनिसम्मतम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
तारा भं रात्रिजं भानुभीरु नक्षत्रमित्यपि ।नभोबीजं चन्द्रबिन्दुधिष्ण्यं सन्नुडुतारकम् ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
आस्फुजिद्भागवान्धिष्ण्य एकार्थान्नयनार्थकः ।दैत्यादिगुरुपर्यायो दिनदृश्यः सितो भगः ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
शुक्रः सितो दैत्यगुरुर्मघाभूःकाव्यः कविः स्यादुशनाश्च धिष्ण्यः ।स्यात्षोडशार्च्चिर्भृगु-भार्गवौ चतथाऽऽस्फुजिच्छुक्रभवं तु शौक्रि ॥ ४७ ॥
उपजातिः
genderपुंmasc.
एते तृष्णादयः शब्दाः स्त्रियां भवन्ति । इयं तृष्णा पिपासा । कृपा दया । पताका चिह्नम् । रथ्या मार्गः । कृषिर्वैश्यवृत्तिः । काकिणी पणचतुर्भागः । प्रतिशीरा तिरस्कारिणी । धारा प्रपतनं ऊर्णामयी पर्वतस्य रेखा च ।नेमिश्चक्रपिण्डिका ।चतुःपथयुगलछलचेलखोलधिष्ण्यार्गलशफानाम् ।विद्धि नपुंसकभावं पण्यस्य च पिच्छपलयोश्च ॥ ६८ ॥
metre not recognised
genderक्लीneut.
सदनं सद्म भवनं धिष्ण्यं वेश्माथ मन्दिरम् ।गेहं निकेतनागारं निशान्तं निवृतं गृहम् ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
धिष्ण्यश्छायासुतः सौरिरसितो रेवतीभवः ।नीलवासाः शनिर्मन्दः क्रोडसप्तार्चिषौ तथा ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
हिमानी हिमराशौ स्यात्तद्गुणे सुष(षि?)मो जडः ।भं नक्षत्रं तारकं च तारका धिष्ण्यमुन्नतम् ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
चन्द्रिका गोमती ज्योत्स्ना बण्णला पथिकानलः ।नक्षत्रं रात्रिजं धिष्ण्यं तारकं रकमित्यपि ।आकाशकुसुमं बिन्दुर्भानुभीरुर्निगद्यते ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः ।मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
राहुस्तु ग्रहकल्लोलः केतवः शिखिनः समाः ।समे नक्षत्रधिष्ण्ये द्वे दाक्षायण्योऽश्विनीमुखाः ॥ १७५८ ॥
अनुष्टुप्
genderक्लीneut.
तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना ।मृगशीर्षं मृगशिरो मार्गायण्याग्रहायणी ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
धिष्ण्यस्तु याज्ञिकानां ना वह्निभेदेषु केषुचित् ।तेषां स्थानेषु चान्ये तु वह्निमात्रे प्रचक्षते ॥ ६४५ ॥
अनुष्टुप्
शुक्राङ्गारकयोः क्ली तु नक्षत्रे स्थानगेहयोः ।अजयस्तु बलेऽप्येतत् स्वनिघण्टावचीकृतत् ॥ ६४६ ॥
अनुष्टुप्
doubtful
आसनेऽथ स्त्रियां धिष्ण्या स्यादुल्कायामथो पुमान् ।धीरोऽब्धौ मन्थरे तु त्रिर्धृतिमद्विदुषोरपि ॥ ६४७ ॥
अनुष्टुप्
meaningsआसन
भेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् ।दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति ।दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु ।दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः ।दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु ।धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः ।नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः ।नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु ।पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every line
doubtful
धिष्ण्य as a meaning in nānārtha verses
- परमानन्दीयनाममाला भभः काव्ये भ्रमरे भं तु धिष्ण्यराश्योश्च भाः करे । प्रभावे साध्वसे भीः स्यात्स्थित्युत्पत्तिमहीषु भूः ॥ ३३ ॥ Paramānandīyanāmamālā 1.33
- परमानन्दीयनाममाला सौम्यसूनुर्द्रुमेऽनुजे पुत्रे सौम्यो धिष्ण्ये बुधेऽपि च । सूतस्तु पारदे तक्ष्णि मागधे सारथावपि ॥ ३६२ ॥ Paramānandīyanāmamālā 5.27.362