कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अन्तरिक्ष

antarikṣaक्ली · neut.

In 17 kośas: 14 synonym verses, 2 as a nānārtha head word, 15 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.163 · p. 10
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह व्योमवर्गः Amarakośa 1.2.1
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.137 · p. 17
नभो मरुद्वर्त्म वियद्विहाय-स्तारापथः पुष्करमन्तरिक्षम् ।व्योमाम्बरं विष्णुपदं च खं द्यौ-र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
उपजातिः
genderक्लीneut.
नभो नाभो स्त्री नभसं विहायः स्याद्विहायसम् ।अन्तरीक्षं चान्तरिक्षं स्फुर्जथुः स्फूर्जथुः समौ ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.1 · p. 20
अन्तरिक्षं नभो व्योम गगनं सुरवर्त्म खम् ।वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.23 · p. 3
अन्तरिक्षं चान्तरीक्षं स्याद्विष्ण्वर्थपदार्थकम् ।देवपक्षीषुवाय्वर्कचन्द्रनक्षत्रयोगिनाम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.1 · p. 25
व्योमाम्बरं पुष्करमन्तरिक्ष-मत्रान्तरिक्षे सरकोऽस्त्रियां खम् ।अनन्तमाष्ट्रं गगनं वियच्चनभो नभाकं नभसो नभश्च ॥ १ ॥
उपजातिः
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.332 · p. 23
अन्तरिक्षं वियद्व्योम खं विहायो महाविलम् ।इन्द्रः शचीपतिर्वज्री सुत्रामा पाकशासनः ॥ ३३२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.1 · p. 36
आकाशः शब्दगुणकं मेघद्वारं महापथम् ।तारापथोऽन्तरिक्षं च निराधारमितीरितम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.59 · p. 7
आकाशमभ्रं गगनं व्योम विष्णुपदं नभः ।अम्बरं पुष्करं खं द्यौरन्तरिक्षं मरुत्पथः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.163 · p. 23
आकाशमम्बरं चाऽभ्रमन्तरिक्षं घनाश्रयः ॥ १६३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.167 · p. 12
नीलो मुकुन्द-नन्दौ च निधिभेदा अमी नव ।अन्तरीक्षमन्तरिक्षमभ्रं गगणमम्बरम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.54 · p. 181
अन्तरिक्षमन्तरीक्षं मेघे घन-घनाघनौ ।ऋञ्जसानो रिञ्जसान उभ्रोऽभ्रमब्धमित्यपि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable); pāda 4, syllable 3 भ्र (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.159 · p. 21
genderपुंक्लीm. n.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.9 · p. 26
ना यस्य न विशेषोऽस्ति तत्र स्याद्भेद्यलिङ्गकः ।अन्तरिक्षं तु गगने क्ली साम्नोरुभयोरपि ॥ ९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.10 · p. 26
वैरूपाष्टकवर्गस्य ये साम्नी उपरि स्थिते ।वास्तुदेवविशेषे तु पुंसि स्यात् सर्वदक्षिणे ॥ १० ॥
अनुष्टुप्
doubtful

अन्तरिक्ष as a meaning in nānārtha verses

  • धरणिकोश दिवदिवं च त्रिदिवं चैव स्वर्गान्तरिक्षयोः स्मृतम् । कैरवी चन्द्रिका प्रोक्ता कैरवं कुमुदद्विषोः ॥ Dharaṇikośa 28.2.10
  • कोषकल्पतरु सरकतर्षे त्रिषु स्यात्सरकोऽथ न स्त्री स इक्षुसीधुन्यपि सीधुपात्रे । अच्छिन्नपान्थालिषु चान्तरिक्षे- ऽथो संधिचौरे खनकस्तथाखौ ॥ २५ ॥ Koṣakalpataru 6.1.25
  • कोषकल्पतरु निर्मोकमोक्षेऽन्तरिक्षे कवचेऽहिकृत्तौ निर्मोक आद्ये चरकस्तु चारे । मुनौ कुषाकुस्तु कृशानुभानु- कीशेष्वथातापिनि वाच्यलिङ्गः ॥ १ ॥ Koṣakalpataru 6.1.1
  • कोषकल्पतरु सर्वतोमुखशीतांशौ घनसारे शीतमयूखोऽथात्मधातृरुद्रेषु । स्यात्सर्वतोमुखोऽन्त्ये पुनरम्भस्यन्तरिक्षे च ॥ ८९ ॥ Koṣakalpataru 6.2.89
  • कोषकल्पतरु चित्रपोत्रं तु वस्त्रे किटिलाङ्गलस्या- ग्रकेऽथ चित्रं तिलकेऽन्तरिक्षे । आलेख्यकिर्मीरकविस्मयेषु त्रये तु किर्मीरिणि विस्मिते च ॥ २८ ॥ Koṣakalpataru 6.27.28
  • कोषकल्पतरु अम्बरपुंस्यूर्दरो वीरगतोऽपि दिष्टो मुनौ तु शौण्डे मठरस्तथैव । स्यादम्बरं वाससि चान्तरिक्षे कर्पासके स्याच्च सुगन्धभेदे ॥ ८९ ॥ Koṣakalpataru 6.27.89
  • कोषकल्पतरु बहुलअग्नौ च स्त्री तु नील्येलागोषु स्त्री भूम्नि भान्तरे । क्लीबेऽन्तरिक्षे परवदसितप्राज्ययोर्भवेत् ॥ ८ ॥ Koṣakalpataru 6.28.8
  • कोषकल्पतरु नभसवाते तथात्मन्यतसः स्त्रियां तु क्षुमाभिधायामवसोऽर्कराज्ञोः । अम्भोनिधौ स्यान्नभसोऽब्दकाले क्लीबेऽन्तरिक्षेऽप्यथ पुक्कसः स्यात् । चण्डालके च श्वपचे स्त्रियां तु स्यान्नीलिकायामपि कालिकायाम् । वनीयके स्याल्लभसो धनेऽन्त्ये- ऽर्वदोरके स्त्री पनसो[88b]द्रुभेदे ॥ ८७ ॥ Koṣakalpataru 6.31.87
  • नानार्थार्णवसंक्षेप रोधस्रिप्रं दुःखे च पापे चेत्यामनन्ति विचक्षणाः । रेतः शुक्रे जले चाथ रोधस्तीरान्तरिक्षयोः ॥ ५२ ॥ Nānārthārṇavasaṃkṣepa 2.3.52
  • नानार्थार्णवसंक्षेप नाकसूर्येऽन्तरिक्षे तु स्वर्गेऽप्येनं केचिन्नृशण्डयोः । पुत्रयोस्तु द्वयोर्नागः पुनर्ना नागकेसरे ॥ ६७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.676
  • नानार्थार्णवसंक्षेप सूमक्ली त्वन्तरिक्षे त्रिषु तु सदूमे सदुमेऽपि च । स्यूमं तु क्ली जलेऽन्ये तु पुंसि पुंस्येव मङ्गले ॥ १५४५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1545
  • नानार्थार्णवसंक्षेप कृन्तत्रअन्तरिक्षे लाङ्गलाग्रे लाङ्गले चापरे विदुः । सुवर्णस्याभिघातार्थसाधने मशके पुनः ॥ ५६४ ॥ Nānārthārṇavasaṃkṣepa 4.564
  • शब्दरत्नाकर नाकनगः शिलोच्चये वृक्षे नाकः स्वर्गान्तरिक्षयोः । नागः सर्पे गजे ग्राहे नरोऽर्जुनमनुष्ययोः ॥ १९४६ ॥ Śabdaratnākara 4.1.1946
  • शब्दरत्नाकर त्रिदिवतलिमं कुट्टिमे तल्पे तमोनुत्तेजसां त्रये । स्वर्गेऽन्तरिक्षे त्रिदिवस्तृणतास्त्रतृणत्वयोः ॥ २०९८ ॥ Śabdaratnākara 4.1.2098
  • वैजयन्ती नाकलोहेऽर्थे गैरिकस्वर्णरेतोऽस्थिषु विशेषतः । नरोऽर्जुने मनुष्ये च नाकः स्वर्गान्तरिक्षयोः ॥ २९ ॥ Vaijayantī 6.1.29