रुचिर
ruciraवि · adj.In 16 kośas: 21 synonym verses, 1 as a nānārtha head word, 5 as a meaning of another word.
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे ।वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ १४४४ ॥साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् ॥ १४४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥
अनुष्टुप्
genderविadj.
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
शार्दूलविक्रीडितम्
genderविadj.
रुचिरं स्यादथ स्वादुः सुधूमो गरुसारकः ।गन्धधूमभवोथास्त्री कृष्णादगरुकाष्ठके ॥ ४०५ ॥
अनुष्टुप्
genderक्लीneut.
हस्तिदन्तः शङ्खमूलो हरित्पर्णः सितोऽपि च ।रुचिरोथ स्थूलमूलः स च चाणक्यमूलकः ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
दुर्वर्णं पुंसि वा रूप्यं रूपं रौप्यं यवीयसम् ।तारं लोहं वसुश्रेष्ठं रजतं रुचिरं पुनः ॥ ५४३ ॥
अनुष्टुप्
genderक्लीneut.
सुन्दरं रुचिरं चारु कान्तं वल्गु च पेशलम् ।अभिरामं रामवामे मञ्जुलं मञ्जु पेसलम् ॥ १०० ॥
अनुष्टुप्
genderविadj.
कान्तं मनोज्ञं रुचिरं रुचिष्यं ।रुचिर्मनोहारि मनोहरं च ।हृद्यं प्रियं बन्धुर-सुन्दराभि-रामाणि वामं रमणीयमाहुः ॥ ६० ॥
उपजातिः
genderविadj.
तत्प्रदेशे सुपर्णः स्यात्तत्पुष्पे गन्धिलं स्मृतम् ।महामदस्तदामोदे तन्मूले रुचिरं स्मृतम् ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
चारु श्लक्ष्णं च रुचिरं प्रशस्तं हृद्यबन्धुरम् ।दर्शनीयं मनोज्ञं च चित्तपर्यायहारि च ॥ १७८ ॥
अनुष्टुप्
genderविadj.
मनोहरमनोज्ञे तु रुचिरं मञ्जुमञ्जुले ।कान्तं वल्गु प्रियं रुच्यं शोभनं चारुपेशले ॥ ३३२ ॥
अनुष्टुप्
genderविadj.
रम्ये तु शुभगं स्वादु चक्षुष्यं मञ्जु मञ्जुलम् ।पालटं(?) साधु रुचिरं सुषमं वल्गु भासुरम् ॥ ६८० ॥
अनुष्टुप्
genderविadj.
सरसं स्वादु रुचिरं निःशोध्यमनवस्करम् ।असारे फल्गु कलनं निःसारे नीचमङ्कनम् ॥ ६८४ ॥
अनुष्टुप्
genderविadj.
तयोरन्तरभागे तु पात्रं तीव्रं विनिर्मलम् ।निर्बाधं रुचिरं स्वादु जलं सरसमित्यपि ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
सुन्दरं रुचिरं रुच्यं xxxx मनोहरम् ।मनोज्ञं मञ्जुलं मञ्जु पेशलं वल्गु बन्धुरम् ॥ ९६ ॥
अनुष्टुप्metre not read in every lineLatin letters: xxxx
genderविadj.
रुचिरं चारु रुच्यं च लडहं हारि वल्गु च ।रमणीयं तथा सौम्यं पेशलं साधु बन्धुरम् ॥ २६२५ ॥
अनुष्टुप्
genderविadj.
रामञ्च रुचिरं रुच्यमभिरामञ्च नन्दितम् ।विज्ञेयमासेचनकमासेचनकमित्यपि ॥यस्य दर्शनतस्तृप्तेरन्तो नास्ति द्वयन्तु तत् ।दयितं वल्लभं हृद्यमभीष्टाभीप्सितप्रियम् ॥
अनुष्टुप्
genderविadj.
वल्लभदयिताभीप्सितहृद्यप्रियरुचिररुच्यकान्तेष्टाः ।मञ्जुलमञ्जुमनोरमसुन्दरकमनीयचारुसुषमाश्च ॥ १५८१ ॥
गीतिः
genderविadj.
क्रोधिनी च भुजङ्गेशो वाली रुधिर-पावकौ ।रोचिष्मान् दक्षिणांशश्च रुचिरो रेफ ईरितः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
दक्षांशगो भुजङ्गेशो रोचिष्मान् रुचिरः शिखी ।बली रक्तं क्रोधिनी च जटी यान्तो र-कारकः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम् ।सुन्दरं रुचिरं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ १३४ ॥
अनुष्टुप्
genderविadj.
सुन्दरे भेद्यवच्छन्दोवृत्तभेदे तु सा स्त्रियाम् ।रुचिरातिजगत्यां स्यात् तद्वृत्तमथ पुंस्ययम् ॥ १५१६ ॥
अनुष्टुप्
meaningsसुन्दर
रुचिर as a meaning in nānārtha verses
- कोषकल्पतरु सम्अलं तु भूषा-प्रतिषेध-शक्ति- पर्याप्ति-वैयर्थ्य-निवारणेषु । शं स्यात्सुखे मङ्गलवाचकं च सं तु प्रकृष्टे रुचिरे समे च ॥ ९ ॥ Koṣakalpataru 5.1.9
- कोषकल्पतरु चङ्गविष्कम्भकादौ वपुषः स्थिरत्वे रोगस्तु कुष्ठौषध आमये च । वेगो महाकालफले प्रवाहे प्लवे च पूगः क्रमुके च वृन्दे । चङ्गस्तु दक्षे रुचिरेऽन्यलिङ्गो- ऽथेङ्गोऽद्भुतज्ञानस[263a]मिङ्गितेषु । स्याज्जङ्गमे चाथ कृपाणभेद- जङ्घाखनित्रेष्वपि टङ्गमस्त्री ॥ ९३ ॥ Koṣakalpataru 6.3.93
- कोषकल्पतरु सुरभिआरम्भः सुरभिः पुमानृतुपतौ गन्धे च गन्धोपले चाम्पेये सुमनःफले च कनके स्त्री शल्लकी गोगतः । सद्गन्धे रुचिरे च वाच्यवदथ ज्ञातौ सनाभिः[30a] समे वर्षाभूर्नरि भेककिंचुलुकयोर्वृश्चीकभेक्योः स्त्रियाम् ॥ ५२ ॥ Koṣakalpataru 6.24.52
- नानार्थार्णवसंक्षेप विवक्षितविवक्षितं तु रुचिरे वक्तुमिष्टे च भाषितम् । विलम्बितं वञ्चिते स्यान्मन्दे शाकुनिकः पुनः ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 6.26
- शब्दरत्नावली पेशलशिंशपायां स्त्रियामेव विजिले पिच्छिलं त्रिषु । पुङ्गलः सुन्दराकारे त्रिष्वात्मदेहयोः पुमान् ॥ पेशलं रुचिरे धूर्ते चतुरेऽपि च वाच्यवत् । बहुलः कृष्णपक्षाग्न्योर्वाच्यवद्भूरिकृष्णयोः ॥ Śabdaratnāvalī 7.28.79