कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

सान्ताः · सश्लोकः

॥ सश्लोकः ॥

वसवो देवभेदाः स्यू रश्मौ योक्त्रेऽनले वसुः ।कुबेरे वकपुष्पे च वसु रत्नं धनं वसु ॥
31.3.1 · p. 225
अनुष्टुप्
रसः शृङ्गारादौ द्रवगरलरागेष्वपि रसोरसस्तिक्तादौ च…तनुधात्वोरपि रसः ।रसो वीर्ये सूते चपलजलस्वादेष्वपि रसा[106] रसा पाठाशल्लक्यवनिरपि धीरैर्निगदिता ॥
31.3.2 · p. 225
metre not recognisednearly शिखरिणी: pāda 1, syllable 11 ल (wrong syllable)
हंसो लोभपराङ्मुखेऽवनिपतौ हंसो विहङ्गान्तरेहंसौ विष्णुदिवाकरावपि हयश्रेष्ठौ च हंसौ स्मृतौ ।हंसाः पर्वतमन्त्रयोगिमरुतां भेदास्तु तेऽपि स्मृताहंसः स्यान्महिषे परात्मनि गुरौ ? पुंसां वरे पर्वते ॥
31.3.3 · p. 225
शार्दूलविक्रीडितम्
कंसः स्यात्तैजसे पात्रे पानभाजनमात्रके ।कंसो दृष्टस्तु कविभिर्दैत्यमानप्रभेदयोः ॥
31.3.4 · p. 225
अनुष्टुप्
दासौ चेटककैवर्तौ शूद्रो दास उदाहृतः ।दानपात्रे स्मृतो दासो दासी च झिण्टिका स्मृता ॥
31.3.5 · p. 226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
तपश्चान्द्रायणादौ स्यात्तपाः शिशिरमाघयोः ।तपो वै धर्मलोकश्च जनो लोकात्परस्तपः ॥
31.3.6 · p. 226
अनुष्टुप्
नभाः स्याच्छ्रावणे मासि वर्षास्वथ नभोऽम्बरे ।घ्राणे पलितशीर्षे च वयोमृणालसूत्रयोः ॥
31.3.7 · p. 226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मृ (wrong syllable)
श्रेयः स्यान्मङ्गले धर्मे प्रशस्तेऽतिशयादपि ।श्रेयसी करिपिप्पल्यां रास्ना च श्रेयसी स्मृता ॥
31.3.8 · p. 226
अनुष्टुप्
रोदश्च रोदसी चापि दिवि भूमौ पृथक्पृथक् ।सहप्रयोगेऽप्यनयो रोदश्च रोदसी तथा ॥
31.3.9 · p. 226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् ।तेषामेव च विश्वासहेतोः प्रावरणं च सः ॥
31.3.10 · p. 226
अनुष्टुप्
कुम्भीनसाः स्युस्ते सर्पा ये स्युर्दृष्टिविषोल्बणाः ।रक्षसो नरकाख्यस्य माता कुम्भीनसी स्मृता ॥
31.3.11 · p. 227
अनुष्टुप्