कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोक्षुर

gokṣuraपुं · masc.

In 13 kośas: 11 synonym verses, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1156 · p. 45
तुम्ब्यलाबूः कृष्णला तु गुञ्जा द्राक्षा तु गोस्तनी ॥ ११५५ ॥मृद्वीका हारहूरा च गोक्षुरस्तु त्रिकण्टकः ।श्वदंष्ट्रा स्थलशृङ्गाटो गिरिकर्ण्यपराजिता ॥ ११५६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.201 · p. 25
वानीरो वञ्जुलः शीतो विदुलो वेतसः स्मृतः ।गोक्षुरः स्थलशृङ्गाटः श्वदंष्ट्रा स्यात्त्रिकण्टकः ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.123 · p. 262
आम्रातकः पीतनकः कपिचूडः कपिप्रियः ।शृङ्गीफलो रसाढ्यश्च तनुक्षीरोऽथ गोक्षुरः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.461 · p. 300
दीर्घपर्णी चित्रपर्णी श्वपुच्छा चाथ गोक्षुरः ।महाङ्गः कण्टकी बालदंष्ट्रः स्याद्भद्रकण्टकः ॥ ४६१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.62 · p. 59
क्षुद्रा तथा कण्टकिनी कण्टकारीत्यपि स्मृता ।श्वदंष्ट्रो व्यालदंष्ट्रोऽपि गोक्षुरश्च त्रिकण्टकः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2074 · p. 343
गोक्षुर इक्षुगन्धा च श्वदंष्ट्रा स्वादुकण्टकः ।तथा स्थलशृङ्गाटश्च गोकण्टकस्त्रिकण्टकः ॥ २०७४ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2075 · p. 344
प्रसिद्धो वनशृङ्गाटः पलङ्कषा पुनः खलु ।एतन्नामानि मन्यन्ते गोक्षुरस्य महीतले ॥ २०७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.182 · p. 71
गोक्षुरः स्याद्गोक्षुरको गोक्षुरश्च त्रिकण्टकः ।गोकण्टकस्त्रिकण्ठः स्यात् त्रिकटः त्रिक इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्गो (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.195 · p. 234
रसा द्राक्षा ध्राक्षा कण्ठ्यां त्रिकण्ट-त्रिकण्टकौ ।गोक्षुरो गोक्षुरु-क्षुरौ गोखुरो गिरिकर्णिका ॥ १९५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्षा (syllables merged); pāda 3, syllable 7 क्षु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1467 · p. 177
गोक्षुरः पञ्चकं चैतद्ध्रस्वपञ्चकनामकम् ।बिल्वकाश्मर्यतर्कारीपाटलाडुण्डुकैर्महत् ॥ १४६७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.141 · p. 56
क्षुरे तु कण्टकिफलस्त्रिगोभ्यां कण्टकः परः ।गोक्षुरः स्थलशृंगाट इक्षुगन्धा पलंकषा ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.

गोक्षुर as a meaning in nānārtha verses

  • धरणिकोश क्षुरक्षुरश्छेदनवस्तु स्यात्कोकिलाक्षे च गोक्षुरे । खुरोऽप्यर्गवादीनां खट्वादीनां च पादुका ॥ Dharaṇikośa 26.2.5
  • कोषकल्पतरु त्रिवर्णकपिण्डीतकः फणिज्जे राठतरौ स्यात्तथा तगरे । त्रिफलात्र्यूषणगोक्षुर- पर्यायस्था त्रिवर्णकं तद्वत् ॥ ४२ ॥ Koṣakalpataru 6.1.42
  • कोषकल्पतरु पलंकषास्यात्किंनरे किंपुरुषोऽपि लोके- ऽथालंबुषश्छर्दनरक्षसोर्ना । गण्डीरिकास्वर्गवधूषु च स्त्री पलंकषा गोक्षुररास्नयोश्च ॥ ७० ॥ Koṣakalpataru 6.30.70
  • नानार्थार्णवसंक्षेप क्षुरवेतालासनमित्येतदेकाङ्गुष्ठग्रहात् किणः । क्षुरस्तु कोकिलाक्षाख्यस्तम्बे गोक्षुरनाम्नि च ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 2.2.32
  • नानार्थार्णवसंक्षेप त्रिकण्टकअन्तर्धौ चाथ विज्ञेयस्त्रिकण्टक इति ध्वनिः । गोक्षुरे च विपत्रायां स्नुह्यां चाथ निबोधत ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 6.60
  • नानार्थार्णवसंक्षेप त्रिकण्टकशृङ्गाटक इति ख्याते जलजस्थावरान्तरे । गोक्षुरेऽपि स्त्रियां स्नुह्यामत्राप्यर्थादि पूर्ववत् ॥ २५९ ॥ Nānārthārṇavasaṃkṣepa 6.259
  • नानार्थार्णवसंक्षेप पलङ्कषापलङ्कषा पुनः स्त्री स्याद् गोक्षुरे गुल्गुलौ तु ना । पचम्पचा तु स्त्री दार्व्यां ना तु चम्पकपादपे ॥ ३५५ ॥ Nānārthārṇavasaṃkṣepa 6.355
  • नानार्थार्णवसंक्षेप स्वादुकण्टकसर्वात्मन्यप्यथ स्वादुकण्टकः स्याद्विकङ्कते । कोल्यां च गोक्षुरे चापि स्यादथो हव्यवाहनः ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 7.17
  • नानार्थार्णवसंक्षेप कण्टकिफलत्रिलिङ्गस्तु प्रियो यस्य कलहस्तत्र वस्तुनि । स्यात् कण्टकिफलः पुंसि पनसे गोक्षुरेऽपि च ॥ ३९ ॥ Nānārthārṇavasaṃkṣepa 7.39
  • शिवकोष क्षुरककुलकं तु पटोले स्यात्कुलकः काकतिन्दुके । क्षुरकः क्षवकेऽध्यण्डे गोक्षुरे तिलकेशरे ॥ २३ ॥ Śivakoṣa 1.3.23
  • शिवकोष त्रिकण्टचर्पटः पर्पटेऽपि स्यात् पिष्टभेदेऽपि चर्पटी । त्रिकण्टस्त्रिकटश्चापि शृङ्गाटे गोक्षुरेऽपि च ॥ १३० ॥ Śivakoṣa 8.2.130
  • शिवकोष इक्षुगन्धाइक्षुगन्धो कोकिलाक्षे क्रोष्ट्यां काशे च गोक्षुरे ॥ २३८ ॥ Śivakoṣa 15.3.238
  • शिवकोष क्षुरक्षुद्रा चाङ्गेरिकाव्याघ्र्योः क्षुरो गोक्षुर इक्षुरे । क्रोष्ट्री विदारीलाङ्गल्योः क्षौद्रं क्षुद्रोद्भवे जले ॥ ३७३ ॥ Śivakoṣa 22.2.373
  • शब्दरत्नावली क्षुरककुलिकः कुलगुह्ये तु भुजगद्रुमभेदयोः । क्षुरकः स्यात् कोकिलाक्षे गोक्षुरे तिलकद्रुमे ॥ Śabdaratnāvalī 7.1.55
  • शब्दरत्नावली इक्षुगन्धाआशाबन्धः समाश्वासे पुमान् मर्कटवासके । इक्षुगन्धः कोकिलाक्षे शृगाली काशगोक्षुरे ॥ Śabdaratnāvalī 7.19.40
  • शब्दरत्नावली क्षुरऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
  • शब्दरत्नावली पलङ्कषापरिवेषस्तु परिधौ स्वकरे परिवेषणे । पलङ्कषा तु मुण्डीर्यां लाक्षागुग्गुलगोक्षुरे ॥ Śabdaratnāvalī 7.31.33
  • वैजयन्ती स्वादुकण्टककुटजेऽपि च यवफलको वडबामुख और्ववह्नौ च । विकंकते गोक्षुरे च कोल्याञ्च स्वादुकण्टकः ॥ ५५ ॥ Vaijayantī 8.1.55