बिल्व
bilvaपुं · masc.In 16 kośas: 15 synonym verses, 3 as a nānārtha head word, 25 as a meaning of another word.
मालूरः श्रीफलो बिल्वः किंकिरातः कुरण्टकः ॥ ११३५ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
उदुम्बरे तु मशकी पलाशे किंशुकोऽपि च ।हस्तिकर्णिदले कृत्तिर्बिल्वे मालूरमङ्गलौ ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
उदुम्बरे तु रुशकिः प्लक्षे तु गिरिलक्षणः ।शुभाङ्गः श्रीफलो बिल्वे पलाशे वसुपुष्पकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिवर्णकं चाथ बिल्वो मालूरश्च महाफलः ।श्रीनामा श्रीफलो हृद्यगन्धो गन्धफलस्तथा ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
बिल्वो लक्ष्मीफलो गन्धागर्भः स्याद्भूतमारुतः ।अग्निमन्थोऽरणिर्ज्ञेयः शिलाभेदोऽश्मभेदकः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
हेमदुग्धः कीटफलो यज्ञदारुरुदुम्बरः ।श्रीफलः श्रीद्रुमो बिल्वः बकुलो हिज्जलोऽम्बुकः ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 की (wrong syllable)
genderपुंmasc.
मालूरे बिल्वो बिल्वी च, पर्णगुच्छे कुरण्टकः ।कुरुण्टक-कुरण्डकौ किङ्करातवदीरितः ॥ १४५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ल्वो (wrong syllable); pāda 3, syllable 7 ण्ड (wrong syllable)
genderपुंmasc.
मृदुत्वक्चर्मिणौ भूर्जे भूर्जपत्रः सितच्छदः ।सर्जो निकोचकाङ्कोलौ बिल्वः श्रीफलबिल्वकौ ॥ ४७१ ॥
अनुष्टुप्
genderपुंmasc.
गोक्षुरः पञ्चकं चैतद्ध्रस्वपञ्चकनामकम् ।बिल्वकाश्मर्यतर्कारीपाटलाडुण्डुकैर्महत् ॥ १४६७ ॥
अनुष्टुप्
genderपुंmasc.
बोधिद्रुमे तु श्रीवृक्षः पलाशः स्यात्त्रिपर्णकः ।समानौ बिल्वमङ्गल्यौ मातुलुङ्गे तु लुङ्गकः ॥ १७८७ ॥
अनुष्टुप्
genderपुंmasc.
वनमाला तथा ज्ञानमुद्रा बिल्वाह्वया तथा ।गरुडाख्या परा मुद्रा विष्णोः सन्तोषदायकाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
प्रभाञ्जनोऽथ प्राचीनपनसो गोहरीतकी ।महाकपित्थो बिल्वश्च कोलिर्गृध्रनखी स्मृता ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
बिल्वे मालूरमङ्गल्यौ श्रीफलो गोहरीतकी ।परिव्याधे बालभीरुर्भीरुबालोऽम्बुवेतसः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
ते द्वे चतुर्थिका वा क्ली निकुंच्याज्यपलानि च ।बिल्वः प्रकुंचं मुष्टिश्च हेम्नोऽक्षे विस्तवारटौ ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
क्ली तु तस्याः फले द्वे तु कृकलासान्तरे विदुः ।यो नानावर्णभाक् तस्मिन्नथ बिल्वः पुमान् द्रुगे ॥ ८६१ ॥
अनुष्टुप्
meaningsद्रु
श्रीफलाख्ये फले त्वस्य क्ली मानेऽपि पलाह्वये ।बिन्दुर्ना विप्रुषि पशुशरीरस्थपृपत्सु च ॥ ८६२ ॥
अनुष्टुप्
doubtful
बिल्व as a meaning in nānārtha verses
- धरणिकोश शाण्डिल्यपौलस्त्यो रावणे श्रीदे शाण्डिल्य ऋषिबिल्वयोः । बालेयो गर्दभे दैत्ये पर्यायोऽवसरे क्रमे ॥ Dharaṇikośa 25.1.11
- धरणिकोश मालूरमालूरं पिचु बिल्वं च क्रीडाबद्धे तथा गुणैः । मसूरः स्यादपामार्गः खराश्वायां च केकिनि ॥ Dharaṇikośa 26.2.61
- धरणिकोश शैलूषअभीषुः प्रग्रहे भासि प्रदोषः कालदोषयोः । प्रत्युषौ प्रभातवसू शैलूषौ बिल्वनर्तकौ ॥ Dharaṇikośa 30.1.3
- कोषकल्पतरु कर्कोटकलालाटिकः स्यात्प्रभुभावदर्शि- न्याश्लेषभेदेऽप्यलसेंऽसदुःखे । कर्कोटकः सर्पविशेषबिल्वे- ऽथाखौ किरौ चाखनिकश्च चौरे ॥ ४८ ॥ Koṣakalpataru 6.1.48
- कोषकल्पतरु मृत्युबन्धनभ्रमरे मधुसूदनश्च विष्णौ पुरवैरिण्यपि मृत्युबन्धनः । नरि पुद्गलबिल्वयोरथ प्रतिपादनं वितरणे च बोधने । प्रतिपत्तिवाच्यथ कुसुम्भवाचकं गदितं महारजनमत्र काञ्चने ॥ ५७ ॥ Koṣakalpataru 6.21.57
- कोषकल्पतरु शाण्डिल्यउक्तं प्रसव्यं ह्यनुकूलवाचि प्रतीपवाचि त्वपरस्य लिङ्गे । प्रणाय्य उक्तोऽप्यभिलाषहीने- ऽप्यसम्मते चाथ मुनौ च बिल्वे ॥ ७४ ॥ Koṣakalpataru 6.26.74
- कोषकल्पतरु मङ्गल्यस्यात्पावके चाथ मसूरबिल्व- त्रायन्तिकाबोधिषु चादिलिङ्गे । मङ्गल्य उक्तश्चरमे तु दध्नि स्यान्मङ्गलार्हे सुचिरेऽन्यवच्च ॥ ७५ ॥ Koṣakalpataru 6.26.75
- कोषकल्पतरु शैलूषस्यात्सप्तघस्रावधिदुग्धकेऽन्त्ये पीयूषमुक्तं च तथा सुधायाम् । पेयूषमस्त्री ह्यभिनव्यदुग्धे- ऽमृतेऽथ शैलूषमुशन्ति बिल्वे ॥ ५५ ॥ Koṣakalpataru 6.30.55
- नानार्थार्णवसंक्षेप करटद्वयोस्तु पक्षिभेदे स्यादेतद्रभसभाषितम् । करटस्तु पुमान् बिल्वे गजगण्डेऽप्यथाब्रवीत् ॥ ३६३ ॥ Nānārthārṇavasaṃkṣepa 4.363
- नानार्थार्णवसंक्षेप मङ्गल्यज्ञेयं सर्वौषधिस्नाने दध्नि चाथ नृलिङ्गकः । बिल्वे मसूरसंज्ञे च धान्ये स्याद्रभसः पुनः ॥ १३२० ॥ Nānārthārṇavasaṃkṣepa 4.1320
- नानार्थार्णवसंक्षेप शाण्डिल्यदुग्धे फेने च रभसः प्रोक्तवाञ्छब्दवित्तमः । शाण्डिल्यस्त्वृषिभेदे ना स्याद्विले पावकान्तरे ॥ १८०८ ॥ Nānārthārṇavasaṃkṣepa 4.1808
- नानार्थार्णवसंक्षेप श्रीफलतद्वत्यथ स्त्रियां रक्तवर्णायां गवि शीतला । श्रीफलस्तु पुमान् बिल्वे श्रीफली तु स्त्रियामियम् ॥ १८४१ ॥ Nānārthārṇavasaṃkṣepa 4.1841
- नानार्थार्णवसंक्षेप शैलूषशैलूषस्तु नटे द्वे स्यात् कितवे च पुमान् पुनः । शण्डजातौ च बिल्वे च शैशवं तु नपुंसकम् ॥ १८५६ ॥ Nānārthārṇavasaṃkṣepa 4.1856
- शिवकोष कर्कोटककर्कोटिका मनोज्ञायां बिल्वे कर्कोटकः पुमान् । कालीयकं कठिन्यां न स्री हरिचन्दने क्लीबम् ॥ ५६ ॥ Śivakoṣa 1.4.56
- शिवकोष करटकरटी कुसुम्भेऽक्लीबं पुंसि बिल्वकरीरयोः । कञ्चटं तोयपिप्पल्यां तण्डुलीयकभिद्यपि ॥ १२५ ॥ Śivakoṣa 8.2.125
- शिवकोष शलाटुचन्दने कदलीगर्भे शलाटुः शिवबिल्वयोः । शार्ङ्गष्टा काकणन्त्यां च काकमाचीकरञ्जयोः ॥ १३६ ॥ Śivakoṣa 8.2.136
- शिवकोष हृद्यगन्धविषायां च विषे स्त्री तु मत्स्याक्षीमत्स्यपित्तयोः । हृद्यगन्धं च रुचके ना तु बिल्वाम्रजीरके ॥ २४२ ॥ Śivakoṣa 15.3.242
- शिवकोष श्रीश्रीः श्रीनिवेशके बिल्वे राजादनलवङ्गयोः । Śivakoṣa 22.1.1
- शिवकोष ग्रन्थिलकोविदारे च कुटिला देव्यां जिह्मे तु न द्वयोः । ग्रन्थिलो क्षुरके बिल्वे करीरे च विकङ्कते ॥ ४५५ ॥ Śivakoṣa 23.2.455
- शिवकोष श्रीफलशैलजे च पुमान्हेमपुष्पे मरिचपत्रके । श्रीफली नीलिकाधात्र्योर्ना बिल्वे चिक्कणे द्वयोः ॥ ४७६ ॥ Śivakoṣa 23.2.476
- शिवकोष महाफलमहाफला तु कूष्माण्ड्यां पुल्लिङ्गश्चोचबिल्वयोः । मुक्ताफलं तु कर्पूरे मौक्तिके लवलीफले ॥ ४८८ ॥ Śivakoṣa 23.3.488
- शब्दरत्नावली मङ्गल्यपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46
- शब्दरत्नावली श्रीफलशाल्मली तरुभेदे स्याद् द्वीपभेदे च पुंस्ययम् । श्रीफलः पुंसि बिल्वे स्याद्धात्रीनीलिकयोः स्त्रियाम् ॥ शीतलं चन्दने शैत्ये शैलजे ना द्रुमान्तरे । शीवलं शैवले क्लीबं शैलेयेऽपि निगद्यते ॥ Śabdaratnāvalī 7.28.97
- त्रिकाण्डशेष शैलुषउपयुक्तेतरे त्वस्त्री शैलुषो नटबिल्वयोः । शुश्रूषा परिचर्य्या च संहर्षः स्पर्द्धने मुदि ॥ ४४२ ॥ Trikāṇḍaśeṣa 3.3.442
- वैजयन्ती करटकरटो दुर्दुरूटे स्याद्बिल्वे काकेभगण्डयोः । कल्याणी क्ष्मोमयोः क्ली तु मंगलेऽक्षयरुक्मयोः ॥ २१ ॥ Vaijayantī 7.5.21