कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्नान

snānaक्ली · neut.

In 14 kośas: 13 synonym verses, 6 as a nānārtha head word, 26 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.387 · p. 27
निर्वेश उपभोगः स्यात्स्नानं सवनमाप्लवः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.122
उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः ॥ १२१ ॥स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् ।अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.408 · p. 47
आचमनमुपस्पर्शनमाप्लवनं स्नानमिष्यते सवनम् ।निर्णिक्तं प्रक्षालितमाहुर्धौतं च तुल्यार्थम् ॥ ४०८ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.366 · p. 61
परिकर्माङ्गसंस्कार आचामः स्नानमाप्लवः ।स्त्र्याप्लुतिः स्यादाचमनमभिषेकोऽवगाहनम् ॥ ३६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.175 · p. 94
स्नानं वसनं तिलको लेपो हारोऽञ्जनं काञ्ची ।नासामौक्तिककुण्डलनूपुरकुचकञ्चुकीमालाः ॥ १७५ ॥
उपगीतिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 228
भवेदभिषवः स्नानं मज्जनं च समार्थके ।जेन्ताकस्तु भवेत्सेको य उष्णोदकनिर्मितः ॥विलेपनं त्वङ्गरागो वर्णको न स्त्रियामथ ।गात्रानुलेपनी वर्तीरनुबोधः प्रबोधनम् ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.292 · p. 137
आप्लवः सवनस्नाने कस्तूरीचन्दनादिभिः ।कर्पूरागरुकक्कोलैः स्मर्यते यक्षकर्दमः ॥ २९२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.54 · p. 25
माला स्रग्दाम माल्यं च स्नानं मज्जनमाप्लवः ।चार्चिक्यं समालम्भनमङ्गरागो विलेपनम् ॥ ५४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1030 · p. 158
आप्लाव आप्लवः स्नानं सवनं चापि मन्यते ॥ १०३० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.377 · p. 107
उच्छादनोद्वर्तनञ्च शरीरोद्वर्तने द्वयम् ।अथ स्नानञ्चाभिषेकः भवेदाप्लावः आप्लवः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 वः (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1247 · p. 152
महोऽञ्चनमुपास्तिस्तु भक्तिः सेवा समाश्रयः ।आप्लाव आप्लवः स्नानमवगाहनमज्जने ॥ १२४७ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.33 · p. 54
करारोटोङ्गुलीकः स्यात्ताडङ्कः कर्णदर्पणः ।अन्दुकः पादकटकोऽभिषेकः स्नानमित्यापि ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.113 · p. 168
उद्वर्तनं तूत्सादनं स्नानं त्वाप्लाव आप्लवः ।उपस्पर्शोऽभिषेकश्च गोसव्यं गोमयेन तत् ॥ ११३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त्सा (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.97 · p. 65
लाययत्यथ खान्द्रत्वे कृडतीति प्रकीर्तितम् ।स्यात्स्नाति वाडते चाभिषुणुतेऽमिषुणोति च ॥ ९७ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.98 · p. 66
शुषते चाथ नेः स्नातिः पुणतिश्चापि कौशले ।अपतस्तु मृतस्नानेऽप्यथ धावति धावते ॥ ९८ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.84 · p. 84
अभेः स्नाने सुनोतिः स्यात्स्वार्थेऽथोदः स उद्धवे ।कोपेच्छाप्रसवोत्सेके प्रारम्भे प्रपरो मतः ॥ ८४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.71 · p. 39
आज्ये च सर्पिः स्नानं तु स्नानीयाप्लवयोरथ ।साम प्रगीतमन्त्रेषु सान्त्वसामप्रभेदयोः ॥ ७१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.23 · p. 235
स्नानं स्नानीयद्रव्ये स्याद् यजने च नपुंसकम् ।सूनञ्च प्रसवे पुष्पे सूनुः पुत्रेऽनुजार्कयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.36 · p. 227
स्नानीयेऽभिषवे स्नानं स्थानं स्यादाश्रये स्थितौ ।सूत्रं तन्तौ संग्रहोक्तौ सुखमानन्दतोययोः ॥ ३६ ॥
अनुष्टुप्

स्नान as a meaning in nānārtha verses