कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वर्ष्मन्

varṣmanक्ली · neut.

In 16 kośas: 12 synonym verses, 8 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.285 · p. 25
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.122
अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् ।गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.510 · p. 58
तनुस्तनूः संहननं शरीरं,कलेवरं विग्रहदेहकायाः ।अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
उपजातिः
genderक्लीneut.
कल्वः कल्वी वर्ष्मन् वर्ष्मं नाभिर्नाभी च दृश्यते ।चुचूकं चुचुकं मध्यं मध्यमं च भुजो भुजा ॥ १७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.128 · p. 34
क्लीबे वपुः संहननं पुद्गलं वर्ष्म मूर्त्तिमत् ।पुरं षडङ्गं करणं सूत्रशाखं शितं कुलम् ॥ १२८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 213
करणं मूर्तिमत्क्षेत्रं गात्रं संहननं वपुः ।श्रोत्रं वर्षाङ्गुबेरं च पुद्गलं च कलेवरम् ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.228 · p. 129
विग्रहः संचरो वेरं मूर्तिः कायघनावपि ।क्षेत्रगात्रशरीराणि वर्ष्मसंहनने समे ॥ २२८ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.97 · p. 7
मूत्रं लिङ्गोदकोद्गारौ शकृद्विष्ठा पुरीषका ।कलेवरं वपुर्वर्ष्म प्रतीको देहविग्रहौ ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.19 · p. 21
शरीरं विग्रहो देहो गात्रं क्षेत्रं तनुस्तनूः ।अङ्गः कायो वपुर्वर्ष्म मूर्तिर्वेरं कलेवरम् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.902 · p. 137
व्याधिस्थानं तथा वेरं चतुःशाखः षडङ्गकम् ।भूधनो विग्रहो वर्ष्म घनो बन्धश्च सञ्चरः ॥ ९०२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.264 · p. 100
तथाङ्गं स्यादपघनः प्रतीकावयवौ तथा ।शरीरं विग्रहं वर्ष्म गात्रं संहननं वपुः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1060 · p. 132
देहोऽस्त्री विग्रहः कायः पिण्डो मूर्तिस्तनुस्तनूः ।वपुः संहननं वर्ष्म गात्रं क्षेत्रं कलेवरम् ॥ १०६० ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.123
क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ॥ १२३ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.8 · p. 110
वर्ष्म देहे प्रमाणे स्यादाकारेऽप्यतिसुन्दरे ।धाम शक्तौ प्रभावेऽपि तेजोमन्दिरजन्मसु ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.92 · p. 260
रश्मौ शरीरेऽप्यथ साम वेदा-न्तरेऽप्युपायान्तरके च षण्ढे ।वर्ष्म प्रमाणे वपुषि प्रदिष्टंस्यात्सुन्दरे चाकृतिवाचकं च ॥ ९२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1208 · p. 146
क्रयविक्रयिके त्रि स्याद् वणिज्यायां पुनः स्त्रियाम् ।व(र्ष्मे?र्ष्म) न स्त्री परिच्छेदे शरीरश्रेष्ठयोरपि ॥ १२०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1209 · p. 146
सुश्रुतिस्तु महत्याह सज्जनस्तु पठत्यदः ।शुष्मसंज्ञबलेऽन्यस्तु वदत्युच्छ्रायवाचिनम् ॥ १२०९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.74 · p. 241
वर्ष्म देहे प्रमाणेऽतिसुन्दरेऽपि च न द्वयोः ।वाजी पक्षिशराश्वेषु वर्त्म नेत्रच्छदाध्वनोः ॥वामनो दिग्गजे विष्णौ तथाङ्कोठद्रुमे पुमान् ।अस्त्री रोगप्रभेदेऽपि त्रिषु स्यान्नीचखर्वयोः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.261 · p. 181
वर्ष्माकारेऽपि विषयी कामिनि क्लीबमिन्द्रिये ।वृक्षादनी स्थाद्वन्दायां स्त्रियां कुठारके पुमान् ॥ २६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
meaningsआकार
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.81 · p. 236
वर्ष्म न स्त्री शुभाकारे सौम्ये देहप्रमाणयोः ।विभुः सर्वगते पत्यौ चन्द्रे रविकुबेरयोः ॥ ८१ ॥
अनुष्टुप्

वर्ष्मन् as a meaning in nānārtha verses