कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

म

maपुं · masc.

In 8 kośas: 3 synonym verses, 12 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.79 · p. 388
ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः ।अजो मः प्रहसः शूली भोगः संजश्च शङ्करः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संगीतवर्गः Śāradīyākhyanāmamālā 2.3.112 · p. 30
मभजासानयरता गणा अष्ट लघुर्गुरु ।एकं द्विचतुःषट्स्वरैर्द्रुतो लघुर्गुरुः प्लुतः ॥ ११२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.46 · p. 10
उः स्थाणुः शिपिविष्टश्च मः कीलो धर्मवाहनः ।विरूपविषमत्र्यक्षाः सन्ध्यानटी वृषाञ्जनः ॥ ४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास मार्धश्लोकः Dharaṇikośa 24.2.1 · p. 141
मः शिवो मा तु लक्ष्मीः स्यान्मा निषेधेऽव्ययं स्मृतम् ।किंशब्द इष्यते क्षेपे प्रश्ने कुत्सावितर्कयोः ॥
अनुष्टुप्
meaningsशिव
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.1 · p. 279
मश्चन्द्रे च शिवे च वेधसि मतो मा मातृलक्ष्म्योर्भवेत्
शार्दूलविक्रीडितम्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.34 · p. 5
मः शिवे चन्द्रविध्योश्च मा लक्ष्म्यां मातृमानयोः ।निषेधे माव्ययं ख्यातं मा निशाकरमासयोः ॥ ३४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.1 · p. 252
मो ब्रह्मणि शिवे चन्द्रे मा लक्ष्मीमानमातृषु ।मूर्बन्धने स्त्रियामेव मा निषेधे बदव्ययम् ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.24 · p. 3
भ-कारश्च द्विवचनो विश्वमूर्तिश्च कीर्त्तितः ।म आदित्यो महाकालो वैकुण्ठोऽपि विषं प्रिये! ॥ २४ ॥
अनुष्टुप्
मः काली क्लेशितः कालो महाकालो महान्तकः ।वैकुण्ठो वसुधा चन्द्रो रविः पुरुषवाचकः ॥ १३५ ॥
अनुष्टुप्
कालभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः ।-----------------------------------जठरञ्च भ्रमा मानं लक्ष्मीर्मातोग्र-बन्धने ॥ १३६ ॥
अनुष्टुप्
विषं शिवो महावीरः शशिपुत्रो जनेश्वरः ।प्रमत्तः प्रियसू रुद्रः सर्वाङ्गं वह्निमण्डलम् ॥ १३७ ॥
अनुष्टुप्
मातङ्गमालिनी बिन्दुः श्रवणाभं रथो वियत् ॥ १३८ ॥
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.27 · p. 25
भा दीप्तिरपि भूर्भूमिर्भीर्भयं कथिता बुधैः ।मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्त्तिता ॥ २७ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.42 · p. 44
जठरो भाववीरश्च महाबालो बलानुजः ।माधवी मरणं मायी मन्त्रेशो मा-र्णको मतः ॥ ४२ ॥
अनुष्टुप्