अर्ध
ardhaक्ली · neut.In 14 kośas: 14 synonym verses, 7 as a nānārtha head word, 13 as a meaning of another word.
genderक्लीneut.
genderपुंmasc.
कृत्स्नं समग्रं सकलं समस्तं,सर्वं च विश्वं निखिलाखिले च ।खण्डार्धनेमाः शकलं च भित्तं,सामीत्यसम्पूर्णसमानसंज्ञाः ॥ ७१३ ॥
इन्द्रवज्रा
genderक्लीneut.
धर्मं दानादिके तुल्यभागेऽर्द्धं ब्राह्मणं श्रुतौ ।न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नु (wrong syllable)
genderक्लीneut.doubtful
वृन्दं [श्वा]पदमत्थ(?)दं च विरुदं चाच्छोद-तुन्दाङ्गदंगोर्दं गोद-कुसीद-मेद-कुसिदं तद्वत्ककुत्स्या*तम् ।आनद्धं मुरजादिकेषु तिमिरेऽन्धं वृद्धमप्यद्रिजे-ऽवष्टब्धं च महौषधं निगदितं तुल्यें ऽशकेऽर्धं तथा ॥ १ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderक्लीneut.
समेऽर्द्धो इङ्गुदो जृम्भो दाडिमं कन्दरं [दरम्] ।पात्रं छत्रं च वल्लूरं नखरं पिठरं पुरम् ॥ ८८ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.doubtful
भित्तं नेमं दलं शल्कं खण्डार्धशकलानि तु ।भागो वण्टस्तथांशोऽपि तुर्यांशः पादसंज्ञकः ॥ ३२३ ॥
अनुष्टुप्
genderक्लीneut.
अर्धःखण्डे पुमान् स्कन्धोत्पातव्रातार्थदेवनाः ।मकरन्दकलापारकटप्रामित्रपुद्गलाः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
विश्वं कृत्स्नं तथाशेषं खण्डेऽर्धं शकलं दलम् ।स्तोकं तुच्छं दभ्रमल्पं मात्रा लेशः कणो लवः ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
अधश्च शकलं शल्कं खण्डश्च खण्डलं दलम् ॥ २६०७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.doubtful
अभिज्ञानं कलङ्काङ्कौ प्रसादः स्यात्प्रसन्नता ।भित्तमर्धः पुमान् खण्डमस्त्रियां शकलं त्रिषु ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
अर्धं समेंऽशकेऽभिख्या सुषमा परमा छविः ।कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रांशः षोडशः कला ॥ १७९ ॥
अनुष्टुप्
genderक्लीneut.
यकृत्कुहकसिध्मानि तीरं कशिपु जानु च ।धामार्द्धसारमित्राण्यङ्गदलन्यायबन्धुषु ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.doubtful
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके ।अस्त्री चरणमंघ्रिर्ना पत् पादः क्रमणं पदम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
पुमांस्तद्वति तु त्रि स्यादन्धं तु तिमिरे नपुम् ।त्रिषु नेत्रविहीनेऽथ स्यादर्धः शकले पुमान् ॥ ३८ ॥
अनुष्टुप्
meaningsशकल
समभागे तु शण्डोऽयं रूपकार्धेऽपि रूढितः ।अर्हो योग्ये त्रिरर्हा तु नृस्त्रियोरर्हणे तथा ॥ ३९ ॥
अनुष्टुप्
doubtful
अर्धं क्लीबे समांशार्थे धर्मं दानादिके पुनः ।सारं न्याय्ये खलं भुम्यां कामं चानुमतावपि ॥ ७८ ॥
अनुष्टुप्
meaningsसमांश
अर्ध as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् सामिउपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २५० ॥ Amarakośa 3.3.250
- कोषकल्पतरु सामिकं कल्याणशिरोम्बुरुक्पुनरु[245a]रीकारानुयोगार्थयोः पृच्छा-गर्हणयोस्तु किं स्म तु गते कालेऽङ्घ्रिपूर्तावपि । स्वाच्छन्द्येऽनुमतौ च काममुदितं स्यात्सामि निन्दा-र्धयो- र्नूनं निश्चित-तर्कयोरनुनय-क्रोधोक्तितर्केषु हूम् ॥ ६ ॥ Koṣakalpataru 5.1.6
- कोषकल्पतरु नेमतद्वत्संवसथे समूह उदितः शब्दादितश्चोत्तरः संपूर्वः समरेऽथ कालविवरे प्राकारगर्त्तेऽवधौ । अर्द्धे छद्मनि पुंसि नेम उदितः [31b] सोमस्तु शीतद्युतौ वित्तेशे पितृदैवते च पवने[व]स्वन्तरे स्यात्कपौ ॥ ६४ ॥ Koṣakalpataru 6.25.64
- कोषकल्पतरु अग्रक्रूरेऽन्यवत्स्यात्कुटिलेऽप्यथाग्र- मालम्बने स्यान्निकरेऽधिके च । प्रान्ते पुरस्तादुपरि प्रधाने- ऽप्याद्ये तथा[48a]र्द्धे च पलप्रमाणे ॥ ४३ ॥ Koṣakalpataru 6.27.43
- नानार्थार्णवसंक्षेप खण्डयादोभेदे च मकरसंज्ञेऽथो खण्डमस्त्रियाम् । अर्धे गुडविकारे च कश्चित् स्वादुद्रवेऽभ्यधात् ॥ ३०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.302
- नानार्थार्णवसंक्षेप नेमना त्रिस्तु भृतके नेमस्त्वन्ने वज्रे पुरोहिते । अर्धे च ना त्रिः सदृशे समीपे चाथ खे नपि ॥ ६९९ ॥ Nānārthārṇavasaṃkṣepa 2.5.699
- नानार्थार्णवसंक्षेप अर्धसूचीसेनामात्रे दशांशे चाप्यक्षौहिण्या अनीकिनी । अर्धसूची तु सूच्याः स्यादर्धे चाप्यासनान्तरे ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 6.9
- परमानन्दीयनाममाला खण्डखटः कफे तुणे कृपे खर्ज्जू रोगेक्षुभिद्यपि । खण्डोऽर्धे मणिदोषेऽप्यैक्षवे खर्वस्तु वामने ॥ १४६ ॥ Paramānandīyanāmamālā 5.8.146
- शब्दरत्नाकर शल्कत्वचस्त्वचा त्वक् च चोचं शल्कं वल्कं च वल्कलम् । शकलं वल्के शल्के त्वर्धेऽपि शल्कं शकलेऽपि ॥ १२९ ॥ Śabdaratnākara 4.129
- शब्दरत्नाकर सामिसकृत् सहैकवारे च सामि स्यादर्धनिन्दयोः । स्वस्ति मङ्गलनिष्पापक्षेमेष्वाशीर्वचस्यपि ॥ २२७७ ॥ Śabdaratnākara 5.2.2277
- त्रिकाण्डशेष दलदुकूलं श्लक्ष्णवस्त्रेऽपि चार्द्धे पत्रे छदे दलम् । धवला गवि ना शण्डे शुक्लसुन्दरयोस्त्रिषु ॥ ३९७ ॥ Trikāṇḍaśeṣa 3.3.397
- वैजयन्ती खण्डअर्धे गुडविकारे च खण्डोऽस्त्री खण्डिते त्रिषु । खलं भूस्थानकल्केषु खलो नीचः खलेत्वरी ॥ २५ ॥ Vaijayantī 6.5.25
- वैजयन्ती सामिसकृत् सदैकवारे च सामि स्यादर्धनिन्दयोः । स्वस्ति मङ्गलनिष्पापक्षेमेष्वाशीर्वचस्यपि ॥ २९ ॥ Vaijayantī 8.7.29