All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
लिङ्गसङ्ग्रहः · पुंलिङ्गाधिकारः
॥ इति धातुवर्गः ॥
लक्षणोक्तमपि लिङ्गविक्लवंजातु याति न पदं हि साधुताम् ।प्राक् स्फुटीकृतमपि प्रचक्ष्महेलिङ्गसंग्रहविधिं समासतः ॥ १ ॥
4.1.1 · p. 93
रथोद्धता
यस्य लिङ्गमिह नोदितं पुरातस्य तद्धित-समास-कृन्मुखैः ।प्रत्ययैः प्रकृतितोऽपि कोविदोवक्ष्यमाणविधिना विनिर्दिशेत् ॥ २ ॥
4.1.2 · p. 93
रथोद्धता
बाधते प्रतिपदोक्तविधानंलिङ्गसंग्रहविधिं हि समस्तम् ।पुंसि नाम सभिदां निधि-नाक-भूभृदम्बुधि-मुखाग्नि-शराणाम् ॥ ३ ॥
4.1.3 · p. 93
स्वागता
आत्म-मेघ-तरि-कूप-रिपूणांनिभ( ? )गाङ्गि-किरणासि-कफानाम् ।वृक्ष-तण्डुल-समास-कन्दुक-प्रोन्दुकाशनि-कपर्द-विषाणाम् ॥ ४ ॥
4.1.4 · p. 94
metre not recognisednearly स्वागता: pāda 2, syllable 1 नि (wrong syllable)
इन्द्रियार्थ-रथ-वायु-रदानांकण्ठ-देश-रस-गण्ड-नदानाम् ।ओष्ठ-कोष्ठमिति-धान्य-कचानांपाणि-पाणिज-कुठार-कुचानाम् ॥ ५ ॥
4.1.5 · p. 94
स्वागता
गुल्फ-गुच्छ-समय-प्लव-वर्ष-मन्थ-कर्दम-मृदङ्गमुखा[221b]नाम् ।वंश-वेश-मुकुर-क्षितिनिम्ब-दीप-बोल-चरणप्रमुखानाम् ॥ ६ ॥
4.1.6 · p. 94
स्वागताmetre not read in every line
नाम्न्यकर्तरि च भाववाचिनोघञ्पनङ्ननथुचोऽजपौ च णः ।ल्युश्च कर्तरि कखौ च भावकेकिश्च घोर्भवति भाव इमंश्च ॥ ८ ॥
4.1.8 · p. 94
रथोद्धताmetre not read in every line
किं च गोत्रचरणार्थतद्धिताश्रियावपि च धातुरूपणे ।द्वंद्वकेऽश्ववडवाः समाहृतेरन्यतो द्रविणतोऽन्यतो वसुः ॥ ९ ॥
4.1.9 · p. 94
रथोद्धताmetre not read in every linenearly रथोद्धता
यानवाचकपरो युगस्तथाकेवलोऽपि च स यूपवाचकः ।वाद्यमुद्गरविवर्जितो घनेव्रीहिनामनि तथैव हायनम् ॥ १० ॥
4.1.10 · p. 94
रथोद्धता
केदारे हि बर्हिरुक्तो हुताशेबर्होऽपर्णपिच्छयोः कोणके निः ।मित्रः सूर्ये रत्नभेदे च नीलोमस्तुः सक्तुर्निर्मलग्राब्णि चाच्छः ॥ ११ ॥
4.1.11 · p. 94
शालिनीmetre not read in every linenearly शालिनी: pāda 1, syllable 4 हि (wrong syllable); pāda 2, syllable 4 र्ण (wrong syllable)
कान्तः सूर्येन्द्वाह्वयेभ्योऽयसोऽपिप्रायो भूम्नि प्राणदारासवोऽपि ।वैकल्पेन स्याच्च रज्जुः समासेकाव्ये शुक्रो मद्यपात्रे च कोषः ॥ १२ ॥
4.1.12 · p. 95
शालिनी
कुरङ्गकोकौ वटकोऽपि भावेवाकोत्तरो रल्ल[222a]क-नक्तकौ च ।न्युङ्खोऽपि साम्नः प्रणवेषु शङ्खो-ऽकम्बौ मृगापाङ्ग-सवङ्ग-मङ्गाः ॥
4.1.13 · p. 95
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 कु (wrong syllable)
पश्चाद्भागे पुच्छःपिच्छः पुच्छे तथा गुच्छः ।वाजो मुञ्जः पुञ्जोविषमकसंख्यार्थकश्चौजः ॥ १३ ॥
4.1.13 · p. 95
metre not recognised
अवटो विटोऽपि * पटोललाटभूषार्थलोध्रान्यः ।कोष्ठो हठः प्रकोष्ठो-ऽङ्गुष्ठो गण्डः प्रगण्डश्च ॥ १४ ॥
4.1.14 · p. 95
metre not recognised
करण्ड-कूष्माण्ड-वरण्ड-रुण्ड-भारुण्ड-गुण्डा लगुडः शिखण्डः ।गुडः पिचण्डोऽथ जपाप्रसून-निवाप-कोपेषु च पिण्ड उक्तः ॥ १५ ॥
4.1.15 · p. 95
उपजातिः
वारुण्डः सेकपात्रे गडु-वरुण-गुण-भ्रूण-नाडीव्रणाः स्युःकर्णो वृष्णिश्च घृष्णिर्घृणिरथ वमति-ज्ञाति-पिष्टात-पोताः ।व्रातः कुन्तोऽस्त्रवाची हरिदपि पृषत-ग्रन्थिरर्थोऽतिथिः स्या-दुद्गीथो रोमन्थ-सार्थावगद-गद-मदाः कासदः कासमर्दः ॥ १६ ॥
4.1.16 · p. 95
स्रग्धराmetre not read in every linenearly स्रग्धरा
जनपद-कुन्द-कपर्दाबुद्बुदयुक्ता अगाध-गन्धौ च ।स्कन्धो मन्थाः पन्थादेवन उक्तश्च तत्तु[222b]ल्यः ॥ १७ ॥
4.1.17 · p. 96
metre not recognised
फेनो जनोऽप्यभिजनो ध्वनिरर्दनिश्चस्थेमोष्म-पाप्म-परिघातन-वह्नयोऽश्मा ।आत्माग्निरह्नचरमास्त्वपरादहीनाःप्लीहा च यक्ष्मसहितोऽपि च देवनोऽक्षैः ॥ १८ ॥
4.1.18 · p. 96
वसन्ततिलका
पूपापूपौ स्तूप-कलापौ रेफः शेफ-स्तम्ब-नितम्बाः ।अम्बः शम्बो नाभिः क्षत्रे दुन्दुभिरुक्तो भेरीवाची ॥ १९ ॥
4.1.19 · p. 96
metre not recognised
कृमिर्निकाय्यः कणपश्च तिष्यःस्यात्पाञ्चजन्यः सिचयः कटप्रूः ।गिरिर्गुडेरः क्षुरकेदराराअमित्र-मित्रावपि वृत्र-पुण्ड्रौ ॥ २० ॥
4.1.20 · p. 96
उपजातिः
रात्राश्च प्राक् संख्याहीनाःकल्लोल्लोलौ तल्लः खल्लः ।वालः पुच्छे गोलः पालःकालो वृन्दे वातुलश्च ॥ २१ ॥
4.1.21 · p. 96
metre not recognised
रालिरञ्जलिः कला जगलःस्यात्पुद्गलो बहुल-तन्दुल-तालाः ।देवलो जटुलः पोटगलश्चतादृशाः कमल-कामल-वल्लाः ॥ २२ ॥
4.1.22 · p. 96
metre not recognisednearly स्वागता: pāda 1, syllable 6 लः (wrong syllable)
आवेल उल्लोल-गलौ निचोलःकण्डोल-कुद्दाल-गडोल-गल्लाः ।स्यात्पत्रपालोऽपि च हेमलोऽपिकपोल-वेतालपुलानलोऽपि ॥
4.1.25 · p. 96
उपजातिः
अवयव-स्तुव-रौरव-माध[223a]वाःपणव-याव-दवाः शिक्-दीदिवी ।ग्रीव-पवी अविराखुजकम्बलेस्थवि-कृवी स्व-निघृष्व-वि-जीर्वयः ॥ २४ ॥
4.1.24 · p. 97
metre not recognisednearly द्रुतविलम्बितम्: pāda 1, syllable 1 ग्री (wrong syllable)
आदीनवो हाव इहाथ राशि-वराशि-वंश-स्पश-कोटिशांशाः ।कुशः पुरोडाश-विशौ शिशुः स्या-दुदो दिशिवत्प्रदिशमादिशेच्च ॥ २५ ॥
4.1.25 · p. 97
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 6 त्प्र (wrong syllable)
ऋषिः करीषज्वलने तु कर्षू-र्वृषश्च कुल्माष-तुषौ तरीषः ।निर्यूह-हाहा-कलहाश्च हूहूःस्यान्नग्नहूर्निष्कुह इत्यहान्ताः ॥ २६ ॥
4.1.26 · p. 97
उपजातिः