कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कन्धरा

kandharāस्त्री · fem.

In 11 kośas: 12 synonym verses, 2 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.154
कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.516 · p. 59
अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् ।ग्रीवा धमनिर्मन्या शिरोधरा कन्धरा गलः कण्ठः ॥ ५१६ ॥
गीतिः
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.163 · p. 38
प्रत्युपाभ्यां जिह्विका स्याच्छिरोधिरपि कन्धरा ।ग्रीवापि धमनिः सा तु त्रिरेखालङ्कृता यदि ॥ १६३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.26 · p. 463
मङ्गल्या रथ्यया तुल्या शस्या सन्ध्यार्द्रया समा ।कजेराकृसरेर्वारुः क्षुद्रा गोत्री च कन्धरा ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 219
कंधरा धमनिर्ग्रीवा शिरोधिः स्त्री शिरोधरा ।अ * वाजे त्वलंकारे ग्रैवं ग्रैवेयमन्यवत् ।कम्बुग्री[87a]वा त्रिरेखा सा स्त्री तु घाटा कृकाटिका ॥ १ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.doubtful
कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः ।ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च ।घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.250 · p. 132
शिरोधरा शिरोधिस्तु कन्धरा ग्रीवया सह ।कम्बुग्रीवा त्रिरेखा स्याद्घाटिका तु कृकाटिका ॥ २५० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.942 · p. 144
धमनिः कन्धरा ग्रीवा शिरोधिश्च शिरोधरा ।रेखा त्रयवती सैव कम्बुग्रीवा निगद्यते ॥ ९४२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.305 · p. 102
कण्ठो गले शिरोधिः स्त्री ग्रीवा स्यात् कन्धरेत्यपि ।त्रिरेखासहिता ग्रीवा कम्बुग्रीवा च कम्बुका ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1078 · p. 133
व्यामः स बाह्वास्ततयोर्यत्तु स्यात्तिर्यगन्तरम् ।शिरोधिः कन्धरा ग्रीवा सा तु रेखात्रयाङ्किता ॥ १०७८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.83 · p. 179
त्रिषु तु परे चत्वारः पौरुषमुद्बाहुपुंमाने ।गलो निगरणः कण्ठो गरो ग्रीवा तु कन्धरा ॥ ८३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.117 · p. 182
ग्रीवायास्तु सिरा मन्या महास्नायुस्तु कन्धरा ।नखारुस्तु स्नसा स्नावः स्नाय्वना सन्धिबन्धनम् ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.381 · p. 79
कन्धरो वारिदे ग्रीवासिरयोस्तु स्त्रियामियम् ।कन्धरा कथिता सद्भिः पुन्नपुंसकयोः पुनः ॥ ३८१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.60 · p. 269
शबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् ।कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् ।कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् ।करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ल (wrong syllable)