कराल
karālaवि · adj.In 11 kośas: 7 synonym verses, 10 as a nānārtha head word, 4 as a meaning of another word.
विशङ्कटं विशालं स्यात्करालं विकटं तथा ।निस्तलं वर्तुलं वृत्तं स्थपुटं विषमोन्नतम् ॥ ७५३ ॥
अनुष्टुप्
genderविadj.
करालः कपिशः कालमल्ली स्यात्कालमल्लिका ।सितोऽसौ बिल्वगन्धः स्याद्गन्धपत्रो वटच्छदः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
करालमायतं दीर्घं तुङ्गमुन्नतमुद्धुरम् ।उच्च-प्रांशूच्छ्रितोदग्राण्यथ दीर्घातिशायने ॥ ८१ ॥
अनुष्टुप्
genderविadj.
अल्पमाले तु वैकुण्ठो बिल्वगन्धो वचाच्छदः ।कालपर्ण्यां तु सुरभिः करालः कालमालिका ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
जिह्ममजिह्मप्रगुणावृजुरथ विकृतं करालविप्रकृते ।भ्राजितभासितशोभितराजितविद्योतितं दीप्तम् ॥ १६३७ ॥
आर्या
genderविadj.
कालपर्ण्यां तु सुरभिः करालः कालमालकः ।मालो ब्रह्मजटायां तु सलज्जं दानवांजनम् ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
भाण्डमावपनेऽमत्रं भाजने पात्रमित्युभे ।चर्मकोशं तु कललं करालं तरलञ्च तत् ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.
करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च ।कडारवर्णयुक्ते च कराली तु स्त्रियामियम् ॥ ३५२ ॥
अनुष्टुप्
अग्निजिह्वाविशेषे च दंष्ट्राभेदे च भोगिनः ।पार्वत्यामपि ना तु स्यात् कालमाले गुणे तथा ॥ ३५३ ॥
अनुष्टुप्
doubtful
कडार इति विख्याते चर्मकोशे तु नप्यदः ।अविश्वास्योऽत्र रभसो वाक्यमेतदधीतवान् ॥ ३५४ ॥
अनुष्टुप्
meaningsकडारचर्मकोश
doubtful
पुमान् क्लीबं तु रोध्रे स्यात्कट्फलः सोमवल्कले ।कट्फला कृष्णवृन्तायां कन्दलोऽभिनवोद्भिदि ॥ ४५२ ॥
अनुष्टुप्
meaningsरोध्र
doubtful
कर्म्मरङ्गतरौ कर्म्मफलं दुःखे सुखेऽपि च ।करालो धूनतैलेऽपि देशे केशे च कुन्तलः ॥ ३८९ ॥
अनुष्टुप्
meaningsधूनतैल
कराल as a meaning in nānārtha verses
- कोषकल्पतरु उत्तालक्षौमे दुकूलं विरले च वस्त्रे जम्बूल उक्तः क्रकचच्छदेऽपि । जम्बूतरोः स्याद्विटपेऽथ भीमे- ऽप्युत्तालमू [र्ध्वो]त्कटयोः कराले ॥ ५२ ॥ Koṣakalpataru 6.28.52
- शब्दरत्नावली विकटवर्णाटो गायने चित्रकरे स्त्रीकृतजीवने । विकटः स्यात्कराले तु विशालेऽपि च वाच्यवत् ॥ Śabdaratnāvalī 7.11.52
- शब्दरत्नावली उद्दन्तुरउडुम्बरः पण्डताम्रकुष्ठभिद्वृक्षभित्सु च । उद्दन्तुरः स्यादुत्तुङ्गे करालोत्कटयोरपि ॥ Śabdaratnāvalī 7.27.118
- वैजयन्ती विकटपृथौ कराले विकटो विसृतं विगते तते । वदान्यो वल्गुवाग्दात्रोर्वरीयान् सत्तमेऽत्युरौ ॥ २६ ॥ Vaijayantī 7.4.26