तुङ्ग
tuṅgaवि · adj.In 19 kośas: 20 synonym verses, 7 as a nānārtha head word, 11 as a meaning of another word.
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
genderपुंmasc.
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं दीर्घमायतम् ।अयन्त्रितं स्यादुद्दाममुच्छृङ्खलमनर्गलम् ॥ ७५१ ॥
अनुष्टुप्
genderविadj.
स्थिता सूर्यादयस्तुङ्गे प्रोक्तांशैः परमोच्चकैः ।
genderपुंmasc.
विषमोन्नतं स्थपुटं बन्धुरं तून्नताननम् ।उच्चे प्रांशून्नतं तुङ्गमुदग्रमपि वाच्यवत् ॥ १२६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
तद्वनेऽप्यथ पुंनागः पाटलो रक्तपुष्पकः ।पुरुषाह्वोऽपि तुङ्गोऽथ तिलकाह्वस्तु रेचकः ॥ २३८ ॥
अनुष्टुप्
genderपुंmasc.
तुङ्गः स्कन्धफलश्चोचो जीववृक्षो महाशिराः ।तृणराजो दृढफलो दृढबीजो महाफलः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
पुंनागः पुरुषाह्वः स्यात्केसरो रक्तकेसरः ।पद्मकेसरकस्तुङ्गः सुरेष्टः सुरपर्णिकः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
करालमायतं दीर्घं तुङ्गमुन्नतमुद्धुरम् ।उच्च-प्रांशूच्छ्रितोदग्राण्यथ दीर्घातिशायने ॥ ८१ ॥
अनुष्टुप्
genderविadj.
देववल्लभकुम्भीकौ तुङ्गः पुरुषनामकः ।अगस्त्ये तु बहुसेनः शुकनाशो मुनिद्रुमः ॥ २८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हु (wrong syllable)
genderपुंmasc.
दशवर्णे सुवर्णे श्रीः पञ्चवर्णे तु रैः स्मृतम् ।तुङ्गं तु द्वादशे वर्णे कुदणं षोडशे स्मृतम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
उच्चैरुच्चावचं तुङ्गमुच्चमुन्नतमुच्छ्रितम् ।नीचं न्यगातनं कुब्जं नीचैर्ह्रस्वं नयेत्परम् ॥ १५८ ॥
अनुष्टुप्
genderविadj.
अथोच्छ्रायोत्सेधा ------नगाद्यारोह एव हि ।उद्धुरं चोन्नते तुङ्गमुच्चं प्रांशूच्छ्रिते समे ॥ ३१८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
अनुष्टुप्
genderविadj.
उद्धरमुन्नतं तुङ्गं स्यादुदग्रमुच्छ्रितं तथा ।उच्चं प्रांशु च नामानि तुङ्गार्थे संभवन्ति वै ॥ २५९८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
स्यात् पाण्डुनागः पुरुषस्तुङ्गस्तुङ्गक इत्यपि ॥
genderपुंmasc.
स्वभावादुन्नतं कार्यवशान्नतञ्च बन्धुरम् ।उच्चे तुङ्गोन्नतप्रांशूच्छ्रितोदग्रास्तथोच्चकैः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable)
genderविadj.
सर्जश्च क्षारवृक्षस्तु मुष्ककश्च विषापहः ।पुंनागो पुरुषस्तुङ्गः केसरो देववल्लभः ॥ ४९८ ॥
अनुष्टुप्
genderपुंmasc.
उच्चमुत्कटमुत्तालं प्रांशूदग्रं समुन्नतम् ।उद्धुरं तुङ्गमुन्नम्रमुच्छ्रितं दशकं समम् ॥ १६२१ ॥
अनुष्टुप्
genderविadj.
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं तूच्छ्रिताग्रकम् ।न्यङ्नीचह्रस्वखर्वास्तु वामने दीर्घमायते ॥ ८१ ॥
अनुष्टुप्
genderविadj.
तुङ्गस्तु पुंसि पुन्नागद्रुमे प्रांशौ तु स त्रिषु ।स्त्रियां तु तुङ्गा स्याद्वंशरोचनासंज्ञभेषजे ॥ ५४८ ॥
अनुष्टुप्
तुङ्गी निशा बर्बरयोस्तुङ्गं पद्मस्य केसरे ॥ ८१ ॥
meaningsपद्मकेसर
तुङ्ग as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् करालकरालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः ॥ २०५ ॥ Amarakośa 3.3.205
- धरणिकोश करालकरालो दन्तुरे तुङ्गे भीषणे तैलधूणके । प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ॥ Dharaṇikośa 27.2.36
- कोषकल्पतरु करालतुङ्गे करालस्त्रिषु दन्तुरेऽपि कुठेरकेऽन्त्ये व्रणतैलके ना । शृगाल उक्तो दितिजे च फेरौ क्रोष्ट्यां तु योषिड्डमरेऽपि तद्वत् ॥ ४४ ॥ Koṣakalpataru 6.28.44
- कोषकल्पतरु ऊर्ध्व[77b]ऊर्ध्वं तु तुङ्गोत्थितयोः परस्मिं- स्तथोपरिष्टादपि कीर्तितं च । द्यौः स्वर्गलोके गगनेऽपि च स्त्री मेषे त्वविर्भूभृति भास्करे च ॥ ७ ॥ Koṣakalpataru 6.29.7
- नानार्थार्णवसंक्षेप करालकरालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च । कडारवर्णयुक्ते च कराली तु स्त्रियामियम् ॥ ३५२ ॥ Nānārthārṇavasaṃkṣepa 4.352
- शिवकोष रक्तपुष्पपलाशतुङ्गचण्डातबन्धुजीवमनोहरे । रक्तपुष्पा चर्मरङ्गासिन्दूरीतरणीभिदि ॥ ३०२ ॥ Śivakoṣa 17.3.302
- शिवकोष केसरकिञ्जल्के स्त्री पुमान् तुङ्गे मुकुरे पुष्पकेसरे । सूपधूपनके क्लीबं खपुरः पूगमुस्तयोः ॥ ३९८ ॥ Śivakoṣa 22.3.398
- शब्दरत्नावली सरस्वरुर्व्रजे यूपखण्डे सायकेऽप्यध्वरे पुमान् । सद्रं (?) वनसदादानयज्ञाच्छादनकैतवे । सरः पुंसि गतौ तुङ्गे दद्यग्रे च निगद्यते ॥ Śabdaratnāvalī 7.27.47
- शब्दरत्नावली ऊर्द्धऊर्द्धः स्यादुच्छिते तुङ्गे तथा पर्य्युत्थितेऽपि च । क्षवः क्षुते राजिकायां भवेत्काशेऽपि च क्वचित् ॥ Śabdaratnāvalī 7.29.4
- वैजयन्ती उच्छ्रितउद्धृतं भुक्तनिर्मुक्ते तुलिते चाप्यथोच्छ्रितम् । वृद्धे तुङ्गे समुत्पन्नेऽप्युदितौ कथितोद्गतौ ॥ ५ ॥ Vaijayantī 7.4.5
- वैजयन्ती करालकरालो दन्तुरे तुंगे विशाले विकृतेऽपि च । कर्कशः प्रखरस्पर्शे निर्दये साहसिन्यपि ॥ ८ ॥ Vaijayantī 7.4.8