कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पोत्र

potraक्ली · neut.

In 11 kośas: 3 synonym verses, 10 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.286 · p. 52
सदशं क्षालितं शिष्टैस्तद्धौत्रं पोत्रमप्यणु ।स्नानेङ्गप्रोञ्छने पोत्रमंगोछोंगोछनं च षण् ॥ २८६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 189
क्रमरो विद्वरस्तु स्यात्तत्र ग्राम्येऽथ पोत्रिणः ।मुखाग्रभागः पोत्रं स्याद् घुरी घोणाथ भेद्यवत् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः ।तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः ।यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च ।इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥
metre not recognised
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.341
मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.832 · p. 95
अर्थव्ययसहे व्यालस्तथा हिंस्रपशौ स्मृतः ।पोत्रमित्युच्यते प्राज्ञैर्हलशूकरयोर्मुखम् ॥ ८३२ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.17 · p. 168
पोत्रं मुखाग्रमुद्दिष्टं सूकरस्य च हलस्य च ।सत्रं यज्ञे सदादाने छादनारण्ययोरपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.28 · p. 306
पोत्रं तु वस्त्रे किटिलाङ्गलस्या-ग्रकेऽथ चित्रं तिलकेऽन्तरिक्षे ।आलेख्यकिर्मीरकविस्मयेषुत्रये तु किर्मीरिणि विस्मिते च ॥ २८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.43 · p. 36
पेशो रूपे हिरण्येऽथ सूकरस्य हलस्य च ।पोत्रं मुखाग्रे पौंस्यं तु बले युद्धेऽथ बर्हवाक् ॥ ४३ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.290 · p. 198
पत्रं पक्षे दले भूर्जे वाहनेऽपि निगद्यते ।पोत्रं शूकररक्त्राग्रे हलाग्राम्बरयोरपि ॥ २९० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.33 · p. 267
पूरो ना व्रणसंशुद्धौ खाद्यभिज्जलवृन्दयोः ।पोत्रं वराहहलयोर्मुखाग्रे रसनेऽपि च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1723 · p. 208
सूत्रं तु संग्रहोक्तौ स्यात् पोत्रं हलमुखेऽपि च ।कीर्तिः पङ्के ज्वरे जर्तिरार्तिस्तु धनुषोऽग्रके ॥ १७२३ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1960 · p. 238
पाने स्त्री पीतिरश्वे ना पोत्रं लाङ्गलदंष्ट्रिणोः ।मुखाग्रदेशेऽथ पलं मांसे कर्षचतुष्टये ॥ १९६० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.22 · p. 225
पोत्रं मुखाग्रदेशे स्यात्सूकरस्य हलस्य च ।नवनीतं पयः पीथं बर्हं पर्णशिखण्डयोः ॥ २२ ॥
अनुष्टुप्