All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · अङ्कुरोद्गमः
विनायकः पृश्निशृङ्गो गस्त्रिधातुश्च तुन्दिलः ।द्वैमातुरः स्याद्धेरम्बो विघ्नो लम्बोदरार्थकः ॥ १० ॥
1.1.10 · p. 2
अनुष्टुप्
एकार्थद्रदपर्याय ईशार्थो गणविघ्नयोः ।मूषवाहनपर्यायो हस्तिनोर्थान्मुखार्थकः ॥ ११ ॥
1.1.11 · p. 2
अनुष्टुप्
अपि वल्लभपर्यायः सिन्दूरमोदकार्थयोः ।वक्रपर्यायशुण्डार्थः षण्मुखार्थाग्रजार्थकः ॥ १२ ॥
1.1.12 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
वक्रार्थात्पादभुजयोः पर्यायश्च सदामदः ।शिवपर्यायपुत्रार्थश्चतुःपञ्चभुजार्थकः ॥ १३ ॥
1.1.13 · p. 2
अनुष्टुप्
स्त्रियां गौर्धरणी धात्री भूर्धरेडावनी स्थिरा ।धरित्री भूतधात्र्युर्वी क्ष्मावनिर्ज्या मही क्षमा ॥ १४ ॥
1.1.14 · p. 2
अनुष्टुप्
धारणी काश्यपीरा कुर्मेदिनी वसुधा पुनः ।रत्नपर्यायगर्भार्थाऽचलानन्तापि च क्षितिः ॥ १५ ॥
1.1.15 · p. 2
अनुष्टुप्
विश्वंभराद्या जगती गोत्रा पृथ्वीरसा पुनः ।क्षोणी सर्वंसहा क्षोणिः कुम्भिन्यपि च निर्ऋतिः ॥ १६ ॥
1.1.16 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
वसुन्धरा वसुमती ग्मा ज्या भूमिश्च माधवी ।स्त्रियां पूषा क्रोडकान्ता पृथिवी महिरित्यपि ॥ १७ ॥
1.1.17 · p. 2
अनुष्टुप्
सहाऽदितिर्निश्चला स्याद्बीजपर्यायसूरपि ।अब्धिपर्यायवस्त्रार्था श्यामा भूतार्थमातृका ॥ १८ ॥
1.1.18 · p. 3
अनुष्टुप्
भूरलिङ्गं च पृथिवी भूमी स्याद्वसुधारिणी ।शैलाधारा गन्धमाता सुधा विश्वा च गह्वरी ॥ १९ ॥
1.1.19 · p. 3
अनुष्टुप्
स्यादिला पर्वतार्थेभ्यः कीलार्था गातुरित्यपि ।उर्वरा सर्वसस्याढ्या मृदा मृन्मृत्तिका समा ॥ २० ॥
1.1.20 · p. 3
अनुष्टुप्
मृत्स्ना मृत्सा प्रशस्ता स्यात्पुंस्युषः क्षारमृत्तिका ।स्त्र्युषाप्यथ भुवः सान्तमव्ययं द्योदिवौ स्त्रियौ ॥ २१ ॥
1.1.21 · p. 3
अनुष्टुप्
पुंस्याकाशः क्लीबपुंसोर्विहायाः षण्नभोम्बरम् ।पुष्करं व्योम गगनमनन्तं खं दिवं वियत् ॥ २२ ॥
1.1.22 · p. 3
अनुष्टुप्
अन्तरिक्षं चान्तरीक्षं स्याद्विष्ण्वर्थपदार्थकम् ।देवपक्षीषुवाय्वर्कचन्द्रनक्षत्रयोगिनाम् ॥ २३ ॥
1.1.23 · p. 3
अनुष्टुप्
पर्यायान्मार्गपर्यायि दिगवस्थानमित्यपि ।सुरपर्यायलोकार्थो नाकः स्वर्गः स्वरव्ययम् ॥ २४ ॥
1.1.24 · p. 3
अनुष्टुप्
देवपर्यायसद्मार्थं द्योदिवौ द्वे स्त्रियाविमे ।त्रिदिवोऽपि च मेर्वर्थाच्छृङ्गार्थं षण्त्रिविष्टपम् ॥ २५ ॥
1.1.25 · p. 3
अनुष्टुप्
स्त्रियां बृहत्यौ रोदस्यौ बृहती रोदसी च ते ।घृतवत्यौ च रोधस्यावपारे रोधसी अपि ॥ २६ ॥
1.1.26 · p. 3
अनुष्टुप्
द्यावाभूमी घृतवती द्यावापृथिवी इत्यपि ।दिवस्पृथिव्यौ च द्यावापृथिव्यावेकवाक्यतः ॥ २७ ॥
1.1.27 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वी (wrong syllable)
स्यात्स्त्रियां जगती क्लीबे जगद्विष्टपपिष्टपौ ।अस्त्रियौ भुवनं क्लीबे लोकः स्यात्पुंसि चाप्यथ ॥ २८ ॥
1.1.28 · p. 4
अनुष्टुप्
कल्पद्रौ केशवकृते भूमिस्कन्धे शुभोत्तरे ।इत्ययं प्रथमो वृत्तः कल्पद्रोरङ्कुरोद्गमः ॥ २९ ॥
1.1.29 · p. 4
अनुष्टुप्