शलाका
śalākāस्त्री · fem.In 8 kośas: 6 synonym verses, 5 as a nānārtha head word, 4 as a meaning of another word.
शेफालिका पूपलिका विपादिकारुका च केका मिहिका विहङ्गिका ।घूका निदाका ध्रुवका कनीनिकायूका शलाकापि जलायुकाबिका ॥ ३९ ॥
upajati 12
genderस्त्रीfem.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderस्त्रीfem.
जलौका केणिका वालुकेषीका च विहङ्गिका ।इषिका तु शलाका च परिखा विशिखा शिखा ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
सूक्ता चण्डा च चित्राक्षी शलाका स्मरलेखनी ॥
genderस्त्रीfem.
शल्यमस्त्री शलाका स्याद्वितंसः पक्षिबन्धनम् ।पक्षिणा येन गृह्यंते पक्षिणोऽन्ये स दीपकः ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
ब्रूते तु खण्डविकृतौ रभसो नाप्तभाषणः ।शलाका तु भवेत् सूच्यां द्यूतोपकरणेऽपि च ॥ ९१ ॥
अनुष्टुप्
अस्थूलदीर्घकाष्ठादिमये वस्तुनि चाप्यथ ।श्वदंष्ट्रा गोक्षुराभिख्यस्तम्बे यन्त्रान्तरेऽपि च ॥ ९२ ॥
अनुष्टुप्
meaningsअस्थूलदीर्घकाष्ठादिमयवस्तु
doubtful
छत्रादिकाष्ठीशरयोः शल्लकी पशुवृक्षयोः ।शङ्खकः स्यात् शिरोरोगे शङ्खेऽस्त्रीवलयेऽपि च ॥
अनुष्टुप्
doubtful
शलाका as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) शल्यशलाकायुधयोः शल्यं बाधा दुःखनिषेधयोः । स्थूणास्तब्धत्वयोः स्तम्भ इला वागघ्न्ययोरपि ॥ ८३४ ॥ Abhidhānaratnamālā (Halāyudha) 5.834
- नानार्थार्णवसंक्षेप शल्यशल्यमस्री शलाकायां शङ्कुसंज्ञायुधान्तरे । अजयस्तु वदत्येनं काण्डेऽर्थस्तस्य चिन्त्यताम् ॥ १३०६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1306
- शब्दरत्नावली क्ष्वेडाक्ष्वेडा तु सिंहनादे स्याच्शलाकायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.13.6
- शब्दरत्नाकर क्ष्वेलक्ष्वेला स्त्री सिंहनादे ना विषवेणुशलाकयोः । विलेखप्राज्ञयोः पुंसि कृष्टिराकर्षणे स्त्रियाम् ॥ १९०२ ॥ Śabdaratnākara 4.1.1902